| YouTube Channel

चक्रतीर्थ (cakratIrtha)

 
Monier Williams Cologne
English
चक्र—तीर्थ
n.
N.
of a Tīrtha (cf. चक्र),
VarP.
ŚivaP.
Prab.
iv
f.
&c.
Apte Hindi
Hindi
चक्रतीर्थम्
नपुं*
चक्रम्-तीर्थम् -
एक पुण्य स्थान का नाम
Shabdartha Kaustubha
Kannada
चक्रतीर्थ
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಪ್ರಭಾಸಕ್ಷೇತ್ರದಲ್ಲಿರುವ ಒಂದು ತೀರ್ಥ
व्युत्पत्तिः - > चक्रेण सुदर्शनेन तत्क्षालनेन कृतं तीर्थम्
L R Vaidya
English
cakra-tIrTa {% n. %} name of a holy place.
वाचस्पत्यम्
Sanskrit
चक्रतीर्थ
न०
चक्रेण सुदर्शनेन क्षालनेन कृतं तीर्थम् प्रभासक्षेत्रस्थे वैष्णवे तीर्थभेदे तत्कथा स्क० प्रभा०“तस्य सीमां प्रवक्ष्यामि विष्णुक्षत्रस्य भामिनि! पूर्वे-यमेश्वरं यावत् श्रीसोमेशस्तु पश्चिमे उत्तरे तु विशा-लाक्षी दक्षिणे सरितां पतिः” इत्युपक्रमे “चक्रतीर्थे नरःस्नात्वा सापवासोजितेन्द्रियः द्वादश्यां कार्त्तिके मासि-दद्यात विप्रषु काञ्चनम् विष्णुं संपूज्य विधिना मुच्यतेसवपातकैः देव्युवाच चक्रतीर्थं कथं नाम त्वयाप्रोक्तं वृषध्वज! कुत्र तिष्ठति तत्तीर्थं किंप्रभावं बदस्वमे ईश्वर उवाच पुरा देवासुरे यद्ध डत्वा दैत्यान्जनार्द्दनः चक्रं प्रक्षालयामास तत्र वै रक्तराञ्जतम् ।अष्ट कोटीस्तु तीर्थानि तत्रानीय स्वयं हरिः तीर्थेप्रकल्पयामास शुद्धिं कृत्वा सुदर्शने तीर्थस्य चक्रेनामापि चक्रतीर्थमिति श्रुतम् अष्टायुतानि तीर्था-नामष्टौ कोट्यस्तथैव तत्र सन्ति महादेवि चक्रतीर्थेन संशयः यस्तत्र कुरुते स्नानमेकचित्तो नरोत्तमः ।सर्वतीर्थाभिषेकस्य प्राप्नोत्यखिलं फलम् तीर्था-नामष्टकोट्यस्तु निवसन्ति वरानने! एकादश्यां विशेषेणचन्द्रसूर्यग्रहे तथा तत्र स्नात्वा महादेवि! यज्ञ-कोटिफलं लभेत् तस्य कल्पेषु नामानि शृणुतेकथयाम्यहम् कोटितीर्थं पूर्वकल्पे श्रीनिधानं द्विती-यके तृतीये शतधारं चक्रतीर्थं चतुर्थके एवं तेकल्पनामानि अतीतान्यखिलानि ते कथितान्येवमन्यानिज्ञेयानि विबुधैः क्रमात् तत्र यद्दीयते दानं तस्यसंख्या विद्यते अर्द्धक्रोशप्रमाणञ्च विष्णुक्षेत्रं प्रकी-र्त्तितम् व्रह्महत्यापसर्पाय सत्यमेतन्मयोदितम् ।मासोपवासी तत्क्षेत्रमग्निहोत्री पतिव्रता स्वाध्यायीयज्ञयाजी तपश्चान्द्रायणादिकम् तिलोदकं चपितॄणां श्राद्धञ्च विधिपूर्व्वकम् एकरात्रं त्रिरात्रं बाकृच्छ्रसान्तपनं तथा मासोपवासी तत्रैव अन्यद्वा पु-ण्यकर्म्मकृत् दैत्यारिक्षेत्रमासाद्य यत्किञ्चित् कुरुतेनरः अन्यक्षेत्रात् कोटिगुणं पुण्यं भूयान्न संशयः ।सुदर्शने वरे तीर्थे गोदानं तत्र दापयेत् सम्यक्यात्रा-फलप्रेप्सुः सर्वपापविशुद्धये चाण्डालः श्वपचोवापितिर्यग्योनिगतस्तथा तस्मिन् तीर्थे मृतः सम्यक् आ-च्युतं लोकमाप्नुयात् इति संक्षेपतः प्रोक्तं चक्रतीर्थ-समुद्भवम् माहात्म्यं सर्वपापघ्नं सर्वकामफलप्रदम्”