चक्रं (cakraM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte 1890
Englishचक्रं [क्रियते अनेन, कृ घञर्थे क नि° द्वित्वम् Tv.] 1 The wheel of a carriage
चक्रवत्परिवर्तंते दुःखानि च सुखानि च H. 1. 173.
2 A potter's wheel.
3 A sharp circular missile weapon, a disc (especially applied to the weapon of Viṣṇu).
4 An oil mill.
5 A circle, ring
कलापचक्रेषु निवेशिताननं Rs. 2. 14.
6 A troop, multitude, collection, Śi. 20. 17.
7 A realm, sovereignty.
8 A province, district, a group of of villages.
9 A form of military array in a circle.
10 A circle or depression of the body.
11 A cycle, cycle of years.
12 The horizon.
13 An army, a host.
14 Section of a book.
15 A whirlpool.
16 The winding of a river.
17 An astronomical circle
राशि° the zodiac.
18 Circular flight (of birds &c.).
19 A particular constellation in the form of a hexagon.
20 Range, department in general.
21 The convolutions or spiral marks of the शालिग्राम.
22 A crooked or fraudulent contrivance.
क्रः 1 The ruddy goose (also called चक्रवाक).
2 A multitude, troop, group.
Comp.
अंगः {1} a gander having a curved neck. {2} a carriage. {3} the ruddy goose (चक्रवाक). (
गी) a goose. (
गं) a parasol.
अटः {1} a juggler, snakecatcher. {2} a rogue, knave, cheat. {3} a particular coin, a dīnāra.
अधिवासिन् m. the orange tree
आकार,
आकृति a. circular, round.
आयुधः an epithet of Viṣṇu.
आवर्तः whirling or rotatory motion.
आह्वः,
आह्वयः the ruddy goose
ईश्वरः {1} ‘lord of the discus’, N. of Viṣṇu. {2} the officer in charge of a district.
उपजीविन् m. an oilman.
कारकं {1} a nail. {2} a kind of perfume.
गंडुः a round pillow.
गतिः f. rotation, revolution.
गुच्छः the Aśoka tree.
ग्रहणं,
णी f. a rampart, an entrenchment.
चर a. moving in a circle. (
रः) a juggler.
चारिन् m. a chariot.
चूडामणिः a round jewel in a coronet or diadem.
जीवकः,
जीविन् m. a potter.
तीर्थं N. of a holy place.
दंष्ट्रः a hog.
धर a. {1} bearing or having a wheel. {2} carrying a discus. {3} driving in a carriage. (
रः) {1} an epithet of Viṣṇu
चक्रधरप्रभावः R. 16. 55. {2} a sovereign, governor or ruler of a province. {3} a village tumbler or juggler. {4} a snake.
धारा the periphery of a wheel.
नदी the Gaṇḍakī river.
नाभिः the nave of a wheel.
नामन् m. {1} the ruddy goose (चक्रवाक). {2} a pyritic ore of iron.
नायकः {1} the leader of a troop. {2} a kind of perfume.
नेमिः f. the periphery or circumference of a wheel
नीचैर्गच्छव्युपरि च दशा चक्रनेमिक्रमेण Me. 109.
पाणिः an epithet of Viṣṇu.
पादः,
पादकः {1} a carriage. {2} an elephant.
पालः {1} the governor of a province. {2} an officer in charge of a division of an army. {3} horizon. {4} a circle. {5} one who carries a discus.
फलं a kind of discus.
बंधुः,
बांधवः the sun.
बालः,
डः, वालः,
लं,
डं {1} a ring, circle. {2} a collection, group, multitude, mass
कैरवचक्रवालं Bh. 2. 74
प्रकटयसि किमुच्चैरर्चिषां चक्रवालं Ratn. 4. 16
Mv. 6. 4
Mu. 3. 21.
K. 126, 178. {3} horizon. (
लः) {1} a mythical range of mountains supposed to encircle the orb of the earth like a wall and to be the limit of light and darkness. {2} the ruddy goose.
बालधिः a dog.
भृत् m. {1} one who holds a discus. {2} N. of Viṣṇu.
भेदिनी night.
भ्रमः,
भ्रमिः f. a lathe or grindstone
आरोप्य चक्रभ्रमिमुष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति R. 6. 32.
भ्रांतिः f. revolution of wheels
V. 1. 5.
मंडलिन् m. a species of cobra.
मुखः a hog.
मुषलः a battle carried on with the discus and club.
यानं a wheelcarriage.
रदः a hog.
वर्तिन् m. {1} an emperor, universal monarch, sovereign of the world, a ruler whose dominions extend as far as the ocean (आसमुद्रक्षितीश Ak.)
पुत्रमेवंगुणोपेतं चक्रवर्तिनमाप्तुहि Ś. 1. 12
तव तन्वि कुचावेतौ नियतं चक्रवर्तिनौ । आसमुद्रक्षितीशोऽपि भवान् यत्र करप्रदः ॥ Udb.: (where there is a pun on the word चकवर्तिन्. the other mean ing being ‘resembling in shape the ruddy goose’, ‘round’)
{2} (hence) head, foremost
आपद्गतः किल मह शयचक्रवर्ती विस्तारयत्यकृतपूर्वमुदारभावं Bv. 1. 70.
वाकः (की f.) the ruddy goose
दूरीभूते मयि सहचरे चक्रवाकीमिवैकां Me. 83. °बंधुः the sun.
वाटः {1} a limit, boundary. {2} a lamp-stand. {3} engaging in an action.
वातः a whirlwind, hurricane.
वृद्धिः f. {1} interest upon interest, compound interest
Ms. 8. 153, 156. {2} wages for transporting goods in a carriage.
व्यूहः a circular array of troops.
संज्ञं tin. (
ज्ञः) the ruddy goose.
साह्वयः the ruddy goose.
हस्तः an epithet of Viṣṇu.
पुराणम्
Englishचक्रं १ / CAKRA(Ṁ) I. sudarśana cakra (disc) of Mahāviṣṇu. The viṣṇu purāṇa contains the following story about the origin of the cakra.
Sūryadeva (the Sun God) married saṁjñā, daughter of viśvakarmā. But, due to the insufferable heat of her husband the marital life of saṁjñā became miser- able, and so she requested her father to lessen the heat of sūrya. And, accordingly viśvakarmā ground sūrya on a grinding machine and thus diminished his effulgence. But, the grinding could diminish only (1/8) of that effulgence, which glowing red-hot dropped on the earth, and with that viśvakarmā made the sudarśana cakra, the triśūla, the Puṣpakavimāna and the weapon called śakti. Out of those four things the triśūla came to be possessed by śiva, the Puṣpakavimāna by kubera and śakti by brahmā. The sudarśana cakra which was glowing like anything was deposited in the sea. (viṣṇu purāṇa, Part 3, Chapter 2). There is a story in the mahābhārata as to how the cakra thrown into the sea came into the possession of Mahāviṣṇu. While śrī kṛṣṇa and arjuna were picnicing on the shores of the yamunā Agnideva went to them and requested them to give Khāṇḍava forest to him for food. As takṣaka, friend of indra, was living in the forest the latter was causing heavy rains to fall there. kṛṣṇa and arjuna realized the fact that agni would be able to consume the forest only after subjugating indra. But, how to manage it? Then agni said that he would supply the weapon to fight indra with, and accordingly he meditated on varuṇa, who presented to him (agni) a chariot and flag with monkey as symbol, a quiver which would never become empty of arrows, a bow called gāṇḍīva and the sudarśana cakra. Agnideva gave the cakra to śrī kṛṣṇa and the other things to arjuna. (M.B. Ādi Parva, Chapter 297).
चक्रं २ / CAKRA(Ṁ) II. A city in ancient india. (bhīṣma Parva, Chapter 9, Verse 45).
शब्दकल्पद्रुमः
Sanskritचक्रं, (क्रियतेऽनेनेति । कृ + घञर्थे कः ।कृञादीनामिति द्वित्वञ्च ।) व्रजः । समूहः ।सैन्यम् । रथाङ्गम् । चाका इति भाषा ॥
(यथा, याज्ञवल्क्ये । १ । ३५१ ।“यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् ।तथा पुरुषकार्य्येण विना दैवं न सिध्यति ॥
”)राष्ट्रम् । दम्भविशेषः । कुम्भकारोपकरणम्कुमारेर चाक इति भाषा ॥
(यथा, याज्ञघल्क्ये । ३ । १४६ ।“मृद्दण्डचक्रसंयोगात् कुम्भकारो यथा घटम् ।करोति तृणमृत्काष्ठैर्गृहं वा गृहकारकः ॥
”)अस्त्रविशेषः । (यथा, रघुः । ७ । ४६ ।“आधोरणानां गजसन्निपातेशिरांसि चक्रैर्निशितैः क्षुराग्रैः ॥
”)जलावर्त्तः । इति मेदिनी ॥
भगवतः सुदर्शःचक्रम् । (यथा, महाभारते । १ । १९ । ६ ।“ततो भगवता तस्य शिरश्छिन्नमलङ्कृतम् ।चक्रायुधेन चक्रेण पिवतोऽमृतमोजसा ॥
”)तस्य भगवन्मन्दिरे स्थापनविधिर्यथा, श्रीभागवते । ३ । १ । २३ ।“अन्यानि चेह द्विजदेवदेवैःकृतानि नानायतनानि विष्णोः ।प्रत्यङ्गमुख्याङ्कितमन्दिराणियद्दर्शनात् कृष्णमनुस्मरन्ति ॥
”“द्विजदेवैः ऋषिभिर्देवैश्च कृतानि अङ्गमङ्गं प्रतिवर्त्तन्ते इति प्रत्यङ्गान्यायुधानि तेषु मुख्यं चक्रंतेनाङ्कितानि मूर्द्धन्यहेमकुम्भेषु चिह्नितानिमन्दिराणि येषु तानि नानाविधानि विष्णो-रायतनानि क्षेत्राणि तीर्थानि च आसिषेवे ।येषां चक्राङ्कितमन्दिरवतां दर्शनात् श्रीकृष्ण-स्मरणं भवति ।” इति तट्टीकायां श्रीधरस्वामी ॥
*अथ चक्रलक्षणम् ।“द्वादशारन्तु षट्कोण बलयत्रयसंयुतम् ।चक्रं स्याद्दक्षिणावर्त्तः शङ्खश्च श्रीहरेः स्मृतः ॥
”इति श्रीहरिभक्तिविलासे ४ विलासः ॥
ग्रामजालम् । इति त्रिकाण्डशेषः ॥
तगरपुष्पम् ।इति राजनिर्घण्टः ॥
व्यूहविशेषः । (एतस्यलक्षणं यथा, --“अष्टारं वर्त्तुलाकारं व्यूहचक्रं त्रिनाडिकम् ।दण्डचतुष्टयं वाह्ये कर्त्तव्यञ्च चतुर्द्दिशम् ॥
पूर्व्वदण्डाग्रतोऽन्यस्य दिनभाद्यं भमण्डलम् ।प्रवेशे निर्गमे चैव त्रीणि त्रीणि प्रदक्षिणे ॥
शशिसंज्ञाष्टकं मध्ये तद्वाह्ये भानुसंज्ञकम् ।तृतीयं राहुसंज्ञञ्च केतुर्द्दण्डचतुष्टये ॥
चन्द्रर्क्षे विजयो लाभः सूर्य्यर्क्षे मध्यमं फलम् ।राहुधिष्ण्याष्टके विघ्नं मृत्युः केतुचतुष्टये ॥
एवमुक्तं चतुःस्थाने यद्दिने यस्य नामभम् ।तद्दिने तत् फलं तस्य सर्व्वकार्य्येषु सर्व्वदा ॥
”एतच्चक्रन्तु भगवता द्रोणाचार्य्येण अभिमन्यु-वधायैवाभिकल्पितम् । तत्र व्यूहमध्ये निर्म्माण-प्रणाल्या कः कुत्र आसीदिति प्रदर्शयितुमाह ।“चक्रव्यूहो महाराज ! आचार्य्येणाभिकल्पितः ।तत्र शक्रोपमाः सर्व्वे राजानो विनिवेशिताः ॥
अवस्थानेषु वित्यस्ताः कुमाराः सूर्य्यवर्च्चसः ।संघातो राजपुत्त्राणां सर्व्वे षामभवत्तदा ॥
कृतामिसमयाः सर्व्वे सुवर्णविकृतध्वजाः ।रक्ताम्बरधराः सर्व्वे सर्व्वे रक्तविभूषणाः ॥
सर्व्वे रक्तपताकाश्च सर्व्वे वै हेममालिनः ।चन्दनागुरुदिग्धाङ्गाः स्रग्विणः सूक्ष्मवाससः ॥
सहिताः पर्य्यधावन्त कार्ष्णिं प्रति युयुत्सवः ।तेषां दशसहस्राणि बभूवुर्दृढधन्विनाम् ॥
पौत्त्रं तव पुरस्कृत्य लक्षणं प्रियदर्शनम् ।अन्योन्यसमदुःखास्ते अन्योन्यसमसाहसाः ॥
अन्योन्यं स्पर्द्धमानाश्चाप्यन्योन्यस्य हिते रताः ॥
दुर्य्योधनस्तु राजेन्द्र ! सैन्यमध्ये व्यवस्थितः ।कर्णदुःशासनकृपैर्वृतो राजा महारथैः ॥
देवराजोपमः श्रीमान् श्वेतच्छत्राभिसंवृतः ।चामरव्यजनाक्षेपैरुदयन्निव भास्करः ॥
प्रमुखे तस्य सैन्यस्य द्रोणोऽवस्थितनायकः ।सिन्धुराजस्तथाऽतिष्ठत् श्रीमान् मेरुरिवाचलः ॥
सिन्धुराजस्य पार्श्वस्था अश्वत्थामपुरोगमाः ।सुतास्तंव महाराज ! त्रिंशत्त्रिदशसन्निभाः ॥
गान्धारराजः कितवः शल्यो भूरिश्रवास्तथा ।पार्श्वतः सिन्धुराजस्य व्यराजन्त महारथाः ॥
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ।तावकानां परेषाञ्च मृत्युं कृत्वा निवर्त्तनम् ॥
”इति महाभारते । ७ । ३३ । १३ -- २४ ॥
)तैलयन्त्रम् । इत्यमरटीकायां स्वामी ॥
(यथा, आर्य्यासप्तशत्याम् । ५९२ ।“स्नेहमयान् पीडयतः किं चक्रेणापि तैलकारस्य ॥
”कालज्ञापकयन्त्रविशेषः । यथा, गोलाध्याये ।“चक्रं चक्रांशाङ्कं परिधौ श्लथशृङ्खलादिकाधारम् ।धात्री त्रिभ आधारात् कल्प्या भार्द्धेऽत्रखार्द्धञ्च ॥
तन्मध्ये सूक्ष्माक्षं क्षिप्त्वार्काभिमुखनेमिकं धार्य्यम् ।भूमेरुन्नतभागास्तत्राक्षच्छायया भुक्तः ॥
तत्खार्द्धान्तश्च नता उन्नतनवसंगुणीकृतं द्युदलम् ।द्युदलोन्नतांशभक्तं नाड्यः स्थूलाः परैः प्रोक्ताः ॥
”धातुमयं दारुमयं वा समं चक्रं कृत्वा तन्नेम्यांशृङ्खलादिराधारः शिथिलः कार्य्यः । चक्रमध्येसूक्ष्मं सुषिरमाधारात् सुषिरोपगामिनी लम्ब-वदूर्द्ध्वरेखा कार्य्या । तन्मध्यतोऽन्या तिर्य्यक्रेखाचात्र कार्य्या । तच्चक्रं परिधौ भगणांशैरङ्क-यित्वाधारात् त्रिभ इति नवतिभागान्तरे तिर्य्य-ग्रेखा तत्परिधिसम्पाते धात्री क्षितिः कल्प्या ।भार्द्धेऽन्तर ऊर्द्धरेखानेमिसम्पाते खार्द्धं कल्प्यम् ।सुपिरे सूक्ष्मा शलाका प्रदातव्या । सा चाक्ष-संज्ञा । तच्चक्रमर्काभिमुखनेमिकञ्च यथा भवतितथाधारे धार्य्यम् । तथा धृतेऽक्षस्य छायापरिधौ यत्र लगति तत्कुजचिह्नयोरन्तरे येअंशास्ते रवेरुन्नतांशाः । ये छायाखार्द्धयो-रन्तरे ते नतांशा ज्ञेयाः । एवमत्र नतोन्नतांश-ज्ञानमेव भवति । अतोऽन्यैर्घटिका अप्या-नीताः । तद्यथा, तस्मिन्दिने गणितेन मध्यन्दि-नोन्नतांशान् दिनार्द्धमानञ्च ज्ञात्वानुपातःकृतः ।यदि मध्यन्दिनोन्नतांशैर्दिनार्द्धनाड्यो लभ्यन्तेतदैभिः किमित्येवं स्थूला घठिकाः स्युः ॥
अथवेधेन ग्रहज्ञानमाह ।“पैत्रर्क्षपुष्यान्तिमवारुणाना-मृक्षद्वयं नेमिगतं यथा स्यात् ।दूरेऽन्तरेऽल्पेषु भखेचरौ वातथात्र यन्त्रं सुधिया प्रधार्य्यम् ॥
नेमिस्थदृष्ट्याक्षगतं प्रपश्येत्खेटञ्च धिष्ण्यस्य च योगताराम् ।नेम्यङ्कयोरक्षयुजोस्तु मध्येयेऽंशाःस्थिता भध्रुवको युतस्तैः ॥
प्रत्यक्स्थिते भेऽथ पुरःस्थिते तैर्हीनो ध्रुवः स्यात् खचरस्य भुक्तम् ॥
”तत्र यन्त्रस्याधो नेम्यां दृष्टिं कृत्वीर्द्धनेम्यामुक्त-र्क्षाणां मध्ये भद्वितयं युगषन्नेमिगतं यथा स्यात्तथा यन्त्रं स्थिरं कृत्वा नेम्यां धिष्ण्ययोरेकतरंस्थानमङ्कयेत् । ततोऽग्रे पृष्ठतो वा दृष्टिं चाल-यित्वा ग्रहं विध्येत् । ग्रहः प्रायोऽक्षगतोदृश्यते । अक्षमूलस्य ग्रहस्य चान्तरं शरोग्रहावधिः अक्षमूलं नेम्यां यत्र लग्नं दृश्यतेतत् स्थानमप्यङ्क्यम् । अथ भग्रहाङ्कयोर्मध्येयेऽंशास्तैर्भध्रुवो युतः स्फुटग्रहो भवति यदाग्रहात् पश्चिमस्थं नक्षत्रम् । यदा पूर्व्वस्थंनक्षत्रं तदा भध्रुवो हीनः स्फुटग्रहो भवति ।अथवाल्पशरं नक्षत्रं रोहिण्याद्यं ततो दूरे-ऽन्तरे यदा ग्रहस्तदा तावेव विद्ध्वा प्रोक्तवद्-ग्रहज्ञानम् । इति चक्रयन्त्रम् ॥
शरीरस्थ-षट्चक्राणियथा । मूलाधारः १ स्वाधिष्ठानम् २मणिपूरम् ३ अनाहतम् ४ विशुद्धम् ५ आज्ञा-ख्यम् ६ । तद्यथा, --“मूलाधारे त्रिकोणाख्ये इच्छाज्ञानक्रियात्मके ।मध्ये स्वयम्भुलिङ्गन्तु कोटिसूर्य्यसमप्रभम् ॥
तदूर्द्धे कामबीजन्तु कलशान्तीन्दुनादकम् ।तदूर्द्ध्वे तु शिखाकारा कुण्डली ब्रह्मविग्रहा ॥
तद्वाह्ये हेमवर्णाभं वसवर्णचतुर्दलम् ।द्रुतहेमसमप्रख्यं पद्मं तत्र विभावयेत् ॥
तदूर्द्धेऽग्निसमप्रख्यं षड्दलं हीरकप्रभम् ।बादिलान्तषडर्णेन युक्ताधिष्ठानसंज्ञकम् ॥
मूलमाधारषट्कानां मूलाधारं ततो विदुः ।स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदुः ॥
तदूर्द्धे नाभिदेशे तु मणिपूरं महाप्रभम् ।मेघाभं विद्युदाभञ्च बहुतेजोमयं ततः ॥
मणिवद्भिन्नतत्पद्मं मणिपूरं तथोच्यते ।दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् ॥
शिवेनाधिष्ठितं पद्मं विश्वालोकैककारणम् ।तदूर्द्धेऽनाहतं पद्ममुद्यदादित्यसन्निभम् ॥
कादिठान्ताक्षरैरर्कपत्रैश्च समधिष्ठितम् ।तन्मध्ये बाणलिङ्गन्तु सूर्य्यायुतसमप्रभम् ॥
शब्दब्रह्ममयं शब्दोऽनाहतस्तत्र दृश्यते ।तेनाहताख्यं पद्मं तन्मुनिभिः परिकीर्त्तितम् ॥
आनन्दसदनं तत्तु पुरुषाधिष्ठितं परम् ।तदूर्द्ध्वन्तु विशुद्धाख्यं दलषोडशपङ्कजम् ॥
स्वरैः षोडशकैर्युक्तं धूम्रवर्णैर्महाप्रभम् ।विशुद्धिं तनुते यस्मात् जीवस्य हंसलोकनात् ॥
विशुद्धं पद्ममाख्यातमाकाशाख्यं महाद्भुतम् ।आज्ञाचक्रं तदूर्द्धे तु आत्मनाधिष्ठितं परम् ॥
आज्ञासंक्रमणं तत्र गुरोराज्ञेति कीर्त्तितम् ।कैलासाख्यं तदूर्द्ध्वे तु बोधनीन्तु तदूर्द्ध्वतः ॥
एवञ्च शिवचक्राणि प्रोक्तानि तव सुव्रत ! ॥
” * ॥
मन्त्रोद्धारार्थषट्चक्राणि यथा । कुलाकुल-चक्रम् १ राशिचक्रम् २ नक्षत्रचक्रम् ३ अक-थहचक्रम् ४ अकडमचक्रम् ५ ऋणिधनि-चक्रम् ६ । तद्यथा, --“कुलाकुलस्य भेदं हि वक्ष्यामि मन्त्रिणामिह ।वाय्वग्निभूजलाकाशाः पञ्चाशल्लिपयः क्रमात् ॥
पञ्चह्रस्वाः पञ्चदीर्घा बिन्द्वन्ताः सन्धिसम्भवाः ।कादयः पञ्चशः ष क्ष ल स हान्ताः प्रकीर्त्तिताः ॥
तथा च ।अ आ ए क च ट त प य षाः मारुताः ।इ ई ऐ ख छ ठ थ फ र क्षाः आग्नेयाः ।उ ऊ ओ ग ज ड द ब लाः पार्थिवाः ।ऋ ॠ औ घ झ ढ ध भ व सा वारुणाः ।ऌ ॡ अं ङ ञ ण न म श हाः नाभसाः ॥
साधकस्याक्षरं पूर्व्वं मन्त्रस्यापि तदक्षरम् ।यद्येकभूतदैवत्यं जानीयात् सकुलं हि तत् ॥
भौमस्य वारुणं मित्रमाग्नेयस्यापि मारुतम् ।मारुतं पार्थिवानाञ्च शत्रुराग्नेयमम्भसाम् ॥
नाभसं सर्व्वमित्रं स्याद्बिरुद्धं नैव शीलयेत् ॥
”अथ राशिचक्रम् ।“रेखाद्बयं पूर्व्वपरागतं स्यात्तन्मध्यतो याम्यकुवेरभेदात् ।एकैकमीशाननिशाचरे तुहुताशवाय्वोर्विलिखेत्ततोऽर्णान् ॥
वेदाग्निवह्नियुगलश्रवणाक्षिसंख्यान्पञ्चेषुबाणशरपञ्चचतुष्टयार्णान् ।मेषादितः प्रविलिखेत् सकलांस्तु वर्णान्कन्यागतान् प्रविलिखेदथ शादिवर्णान् ॥
तेन अ आ इ ई मेषः । उ ऊ ऋ वृषः ।ॠ ऌ ॡ मिथुनम् । ए ऐ कर्कटः । ओ औसिंहः । अं अः श ष स ह ल क्षाः कन्या ।कवर्गस्तुला । चवर्गो वृश्चिकः । टवर्गो धनुः ।तवर्गो मकरः । पवर्गः कुम्भः । यवर्गो मीनः ।स्वराशीनामनुकूलं मन्त्रं भजेत् ।राशीनां शुद्धता ज्ञेया त्यजेत् शत्रुं मृतिं व्ययम् ।स्वराशेर्म्मन्त्रराश्यन्तं गणनीयं विचक्षणैः ॥
यदा तु स्वराशेरज्ञानं तदा साधकानामाद्यक्षर-सम्बन्धिनं राशिं गृहीत्वा गणयेत् ॥
* ॥
अथ नक्षत्रचक्रम् ।“अ आ अश्विनी देवगणः । इ भरणी मानुषः ।ई उ ऊ कृत्तिका राक्षसः । ऋ ॠ ऌ ॡरोहिणी मानुषः । ए मृगशिरो देवः । ऐआर्द्रा मानुषः । ओ औ पुनर्व्वसुर्देवः । कपुष्यो देवः । ख ग अश्लेषा राक्षसः । घ ङमघा राक्षसः । च पूर्व्वफल्गुनी मानुषः ।छ ज उत्तरफल्गुनी मानुषः । झ ञ हस्तादेवः । ट ठ चित्रा राक्षसः । ड स्वाती देवः ।ढ ण विशाखा राक्षसः । त थ द अनुराधादेवः । ध ज्येष्ठा राक्षसः । न प फ मूला-राक्षसः । व पूर्व्वाषाढा मानुषः । भ उत्तरा-षाढा मानुषः । म श्रवणा देवः । य र धनिष्ठाराक्षसः । ल शतभिषा राक्षसः । व श पूर्व्व-भाद्रपदा मानुषः । ष स ह उत्तरभाद्रपदामानुषः । अं अः ल क्ष रेवती देवः ॥
तथा च ।“अश्विन्यादिक्रमेणैव विलिखेत्तारकाः पुनः ।वक्ष्यमाणविधानेन तन्मध्ये वर्णकान् लिखेत् ॥
उत्तराद्दक्षिणाग्रान्तु रेखां कुर्य्याच्चतुष्टयीम् ।दश रेखाः पश्चिमाग्राः कर्त्तव्या वीरवन्दिते ! ॥
अकारादिक्षकारान्तान् द्विचन्द्रवह्निवेदकान् ।भूमीन्द्रनेत्रचन्द्रांश्च अश्लेषान्तं खगौ प्रिये ! ॥
द्विभूनेत्रनेत्रयुग्मांश्चेन्दुनेत्राग्निचन्द्रकान् ।मघादिज्येष्ठपर्य्यन्तं द्वितीयं नवतारकम् ॥
वह्निभूमीन्दुचन्द्रांश्च युग्मेन्दुनेत्रवह्निकान् ।वेदेन भेदिता वर्णा रेवत्यंशगताः क्रमात् ॥
पूर्व्वोत्तरात्रयञ्चैव भरण्यार्द्रा च रोहिणी ।इमानि मानुषाण्याहुर्नक्षत्राणि मनीषिणः ॥
ज्येष्ठाशतभिषामूलाधनिष्ठाश्लेषकृत्तिकाः ।चित्रामघाविशाखाः स्युस्तारा राक्षसदेवताः ॥
अश्विनी रेवती पुष्यः स्वाती हस्तः पुनर्व्वसुः ।अनुराधामृगशिरःश्रवणा देवतारकाः ॥
स्वजातौ परमा प्रीतिर्मध्यमा भिन्नजातिषु ।रक्षोमानुषयोर्नाशो वैरं दानवदेवयोः ॥
जन्म सम्पद्विपत् क्षेमः प्रत्यरिः साधको वधः ।मित्रं परममित्रञ्च जन्मादीनि पुनः पुनः ॥
”जन्मत्रिपञ्चसप्तानि वर्ज्जनीयानि नक्षत्राणि ।स्वनक्षत्रादेव नक्षत्रं गणनीयम् । स्वनक्षत्राज्ञानेस्वनामाद्यक्षरसम्बन्धिनक्षत्राद्गणनीयम् ॥
* ॥
अथाकथहचक्रम् ।“चतुरसं लिखेत् कोष्ठं चतुष्कोष्ठसमन्वितम् ।पुनश्चतुष्कं तत्रापि लिखेद्धीमान् क्रमेण तु ॥
इन्द्वग्निरुद्रनवनेत्रयुगार्कदिक्षुऋत्वष्टषोडशचतुर्द्दशभौतिकेषु ।पातालपञ्चदशवह्निहिमांशुकोष्ठेवर्णान् लिखेत् लिपिभवान् क्रमशस्तु धीमान् ॥
नामाद्यक्षरमारभ्य यावन्मन्त्रादिमाक्षरम् ।चतुर्भिः कोष्ठैरेकैकमिति कोष्ठचतुष्टयम् ॥
पुनः कोष्ठगकोष्ठेषु सव्यतो नाम्न आदितः ।सिद्बः साध्यः सुसिद्धोऽरिः क्रमाज्ज्ञेया मनी-षिभिः ॥
सिद्धः सिध्यति कालेन साध्यस्तु जपहोमतः ।सुसिद्धो ग्रहमात्रेण रिपुर्मूलं निकृन्तति ॥
” * ॥
अथाकडमचक्रम् ।“रेखाद्वयं पूर्व्वपरेण कुर्य्यात्तन्मध्यतो याम्यकुवेरभेदात् ।महेशरक्षोऽधिपतिक्रमेणतिर्य्यक् तथा वायुहुताशनेन ॥
आकारादिहकारान्तान् क्लीवहीनान् लिखे-त्ततः ।तथा ऋ ॠ वर्णद्वयं ऌ ऌ तद्धि क्लीवं प्रचक्षते ॥
एकैकक्रमतो लेख्यान् मेषादिषु वृषान्तकान् ।गणयेत् क्रमशो भद्रे नामादिवर्णकादिमान् ॥
मेषादितश्च मीनान्तं गणयेत् क्रमशः सुधीः ।जप्तुः स्वनामतो मन्त्री यावन्मन्त्रादिमाक्षरम् ॥
सिद्धसाध्यसुसिद्धारीन् पुनः सिद्धादयः पुनः ।नवैकपञ्चमे सिद्धः साध्यः षड्दशयुग्मके ॥
सुसिद्ध्त्रिसप्तके रुद्रे वेदाष्टद्वादशे रिपुः ।एतत्ते कथितं देवि ! अकडमादिकमुत्तमम् ॥
ताराशुद्धिर्वैष्णवानां कोष्ठशुद्धिः शिवस्य च ।राशिशुद्धिस्त्रैपुरे च गोपालेऽकडमः स्मृतः ॥
”अथ ऋणिधनिचक्रम् ।“कोष्ठान्येकादशान्येव वेदेन पूरितानि च ।अकारादिहकारान्तं लिखेत् कोष्ठेषु तत्त्ववित् ॥
प्रथमं पञ्चकोष्ठेषु ह्रस्वदीर्घक्रमेण तु ।द्वयं द्वयं लिखेत्तत्र विचारे खलु साधकः ॥
शेषेष्वेकैकशो वर्णान् क्रमशस्तु लिखेत् सुधीः ॥
द्वौ द्वौ स्वरौ पञ्चसु कोष्ठकेषुशेषान् स्वरान् षट्सु षडेकमेकम् ।कादीन् हशेषान् विलिखेत्ततोऽर्णा-नेकैकमेकादशसु त्रिकेषु ॥
षट्कालकालवियदग्निसमुद्रवेद-खाकाशशून्यदहनाः खलु साध्यवर्णाः ॥
युग्मद्विपञ्चवियदम्बरयुक्शशाङ्क-व्योमाब्धिवेदशशिनः खलु साधकार्णाः ॥
नामाज्झलादकठवाद्गजभुक्तशेषंज्ञात्वोभयोरधिकशेषमृणं धनं स्यात् ॥
मन्त्रो यद्यधिकाङ्कः स्यात् तदा मन्त्रं जपेत् सुधीः ।समेऽपि च जपेन्मन्त्रं न जपेत्तु ऋणाधिके ॥
शून्ये मृत्युं विजानीयात्तस्माच्छून्यं विवर्जयेत् ॥
”इति तन्त्रसारः ॥
* ॥
अथोत्तरायणचक्रं यथा, --“चक्रं सारं विलिख्य ग्रहपतिरयने संक्रमं यत्करोतियस्मिन्नृक्षे तदृक्षं मरणभयकरं शूलमूलेऽपिदद्यात् ।तत पश्चादारशूले विविधभयकरं शूलपार्श्वेर्थ-लाभःसख्यं स्यात् शूलमध्य भवति च नियतं वित्त-वामक्रमेण ॥
”केतुचक्रं यथा, --“कण्ठे हृदि त्रिभयुगे क्रतुमानलाभौषट्पृष्ठभं क्षयकरं धनदं करे त्रिः ।वामे चतुर्षु च रुजं पदयोस्तथाष्टौक्लेशो भयञ्च नितरामिह केतुचक्रम् ॥
” * ॥
अहिचक्रं यथा, --“अथाहिचक्रं वक्ष्यामि विभ्रान्तद्रव्यशल्ययोः ।ऊर्द्ध्वं रेखाष्टकं लेख्यं तिर्य्यक् च पञ्चरेखिकाः ॥
स्थानद्वारमुखं चक्रमष्टाविंशतिकोष्ठकम् ।तत्र पौष्णाश्वियाम्यर्क्षकृत्तिकामघभाग्यभम् ॥
उत्तराफल्गुनी लेख्या पूर्व्वपङ्क्त्यां भसप्तकम् ।अहिब्रध्नोऽजपादर्क्षं शतभं ब्राह्मसर्पभम् ॥
पुष्यं हस्तं समालेख्यं द्वितीयां पङ्क्तिमास्थितम् ।अभिजिद्विष्णुवस्वृक्षं सौम्यं रौद्रं पुनर्व्वसुम् ॥
चित्रभञ्च तृतीयायां पङ्क्तौ धिष्ण्यस्य सप्तकम् ।विश्वर्क्षं तोयभं मूलां ज्येष्ठामैत्रविशाखभम् ॥
स्वातीं पङ्क्तौ चतुर्थ्यान्तु कर्त्तव्यं पन्नगाकृति ।द्वारशाखे मघा याम्ये द्वारस्था कृत्तिका ततः ॥
अश्वीशपूर्व्वाषाढादित्रिकपञ्चचतुष्टयम् ।रेवती पूर्व्वभाद्रेन्दोर्भानि शेषाणि भास्वतः ॥
उदयादिगता नाड्यो भघ्नाः षष्ट्याप्तशेषके ।दिनेन्दुभुक्तयुक्तोऽसौ भवेत्तत्कालचन्द्रमाः ॥
चन्द्रवत्साधयेत् सूर्य्यमृक्षस्थञ्चेष्टकालिकम् ।चन्द्र ऋक्षे यदार्केन्दू तदास्ति निश्चितं निधिः ॥
भानु ऋक्षे स्थितौ तौ चेत्तदा शल्यं न संशयः ।स्वस्वभे द्वितयं ज्ञेयं नास्ति किञ्चिद्विपर्य्यये ॥
स्थितं न लभ्यते द्रव्यं चन्द्रे क्रू रग्रहान्विते ।पुष्टे चन्द्रे भवेन्मुद्रा क्षीणे चन्द्रेऽल्पको निधिः ॥
हेमतारञ्च ताम्रारं रत्नं कांस्यं तथा त्रपु ।नागं चन्द्रे विजानीयाद्भास्करादिग्रहे क्षिते ॥
मिश्रैर्मिश्रं भवेत्द्रव्यं शून्यं दृष्टिविवर्जिते ॥
हेमतारञ्च ताम्रारं पाषाणं मृण्मयायसम् ।सूर्य्यादिगृहगे चन्द्रे द्रव्यभाण्डं प्रजायते ॥
भुक्तराश्यंशमानेन भूमानं परिकल्पयेत् ।नीचे द्बिघ्नं परे नीचे जलसंस्थो भवेन्निधिः ॥
स्वोच्चस्थे तूर्द्ध्वगं द्रव्यं नवांशकक्रमेण च ।परमोच्चे भवेत्तुङ्गे भित्तिस्थमृक्षसंक्रमे ।अधिष्ठितं भवेद्द्रव्यं यत्र चन्द्रो ग्रहान्वितः ॥
” * ॥
कुलाकुलचक्रं यथा, --“द्वितीया दशमी षष्ठी कुलाकुलमुदाहृतम् ।विषमाश्चाकुलाः सर्व्वाः शेषाश्च तिथयः कुलाः ॥
रविश्चन्द्रो गुरुः सौरिश्चत्वारोऽत्राकुला मताः ।भौमशुक्रौ कुलाख्यौ च बुधवारः कुलाकुलः ॥
वरुणार्द्राभिजिन्मूलं कुलाकुलमुदाहृतम् ।कुलानि समधिष्ण्यानि शेषभान्यकुलानि च ॥
तिथौ वारे च नक्षत्रे अकुले यायिनो जयः ।कुलाख्ये स्थायिनो नूनं सन्धिश्चैव कुलाकुले ॥
”अथ कुम्भचक्रम ।“कुम्भाकारं लिखेच्चक्रं तिर्य्यग्रेखाप्रभेदितम् ।क्रमादूर्द्ध्वमधो लेख्यमेकैकान्तरभं क्रमात् ॥
भानुभानि लिखेत्तत्र रिक्तः पूर्ण इति क्रमात् ।एवं राशिक्रमो लेख्यो रिक्तः पूर्ण इति द्विधा ॥
रिक्ते रिक्ता भवेद्यात्रा पूर्णे पूर्णा शुभावहा ॥
”अथ कोटचक्रम् ।“अथातः सम्प्रवक्ष्यामि कोटचक्रमिहाष्टधा ।स्तोकोऽरिः कुरुते यत्र भूरिसैन्यपराजयम् ॥
प्रथमो मृण्मयः कोटो द्वितीयो जलकोटकः ।तृतीयो ग्रामकोटश्च चतुर्थस्तत्र गह्वरः ॥
पञ्चमो गिरिकोटश्च षष्ठः कोटश्च डामरः ।सप्तमो वक्रभूमिष्ठो विषमाख्यस्तथाष्टमः ॥
मृमिये साधयेत् खण्डिं जलस्थे बन्धमोक्षणम् ॥
ग्रामदुर्गेऽग्निदाहञ्च प्रवेशं गह्वरे तथा ।पर्व्वते स्थानभेदञ्च भूतलं डामरे रणे ॥
वक्रस्थे कवियोगञ्च विषमे स्थायियायिनौ ।अतिदुर्गं कालकर्णं चक्रावर्त्तश्च टिङ्गनम् ॥
तुलावर्त्तश्च पद्माख्यो यक्षभेदश्च शार्व्वरम् ।एतन्नामाष्टकं ज्ञेयं वर्गाष्टकक्रमेण च ॥
यस्य वर्गस्य ये भक्ष्या वर्ज्यास्तन्नामनागराः ।योजयेत् तेन वर्गेण तद्बर्गास्तस्य भङ्गदाः ॥
अ गरुडः क मार्जारश्च सिंहष्ट शुनीसुतः ।त सर्पश्च प आखुश्च य गजः श अजासुतः ॥
दुर्गवर्गस्य ये भक्ष्या वर्गनामस्थिता नराः ।तद्वर्गे ते रणे त्याज्या न कर्त्तव्या गडाधिपाः ॥
अवर्गात् पञ्चमे स्थाने खण्डिभङ्गश्च जायते ।अवर्गाद्यष्टकं ज्ञेयं पूर्व्वाद्यष्टदिशां क्रमात् ॥
कोटचक्रं लिखेच्चादौ चतुरस्रं त्रिनाडिकम् ।कृत्तिकादीनि धिष्ण्यानि साभिजिन्ति न्यसेद्बुधः ॥
वहिःकोटे तथा मध्ये कोटे मध्ये वहिर्वहिः ।प्रवेशो निर्गमस्तत्र ज्ञातव्यः स्वरवेदिभिः ॥
वहिर्द्वादशभान्यत्र प्राकारे तारकाष्टकम् ।दुर्गमध्ये तथा चाष्टौ मध्ये स्तम्भचतुष्टयम् ॥
कृत्तिकापुष्यसर्पैश्च मघास्वातिविशाखभे ।अनुराधाभिजिद्विष्णुर्घनिष्ठाश्वियमा वहिः ॥
ब्रह्मा पुनर्व्वसूभाग्यं चित्रा ज्येष्ठा तथोत्तराः ।शतभं रेवती चैव प्राकारे तारकाष्टकम् ॥
मृगरौद्रोत्तरा हस्तं मूलमाषाढपूर्व्वकम् ।पूर्व्वोत्तरा तथा भद्रा मध्ये ऋक्षाष्टकं विदुः ॥
पूर्व्वे रौद्रं यमे हस्तं पूर्व्वाषाढा च वारुणे ।उत्तरे चोत्तरं भाद्रमेतत् स्तम्भचतुष्टयम् ॥
कृत्तिकाद्यं मघाद्यञ्च मैत्राद्यं वासवादिकम् ।त्रीणि त्रीणि प्रवेशे च भानि द्वादश निर्गमे ॥
कृत्तिकादिरयं न्यासः सुबोधोऽयं प्रदर्शितः ।दुर्गभाद्गणनञ्चात्र ग्रहैर्व्वाच्यं ततः फलम् ॥
चतुरस्रं तथावृत्तं त्रिकोणं वृत्तदीर्घकम् ।अर्द्धचन्द्रं वर्त्तुलञ्च गोस्तनं धनुराकृति ॥
चतुरस्रे यथा न्यासो भूमिभागक्रमेण च ।प्रवेशे निर्गमे स्तम्भे तथा वृत्तादिसप्तके ॥
दुर्गे भित्तिविभागेन दातव्यं धिष्ण्यमण्डलम् ।वाह्यभे मध्यभे चैव यत्रस्थाः क्रूरखेचराः ॥
तत्र स्थाने कृते यत्ने हस्तिदुर्गं ससैनिकम् ।ऊर्द्ध्वदृष्टी च भौमार्कौ केकरौ बुधभार्गवौ ॥
समदृष्टी च जीवेन्दु शनिराहू ह्यधोदृशौ ।नाडीत्रये वहिर्मध्ये गर्भे नामादि लिख्यते ॥
कालपद्रौद्रशक्रेभ्यः पराक्रमविवक्षया ।यातुर्भे कालनाडीस्थे मृत्युर्मध्यपदे स्थिते ॥
चौर्य्यक्षयोपतापाश्च रौद्रनाड्यां पुरग्रहः ।क्रूरा गर्भे पुरं हन्ति प्राकारे खण्डिकारकाः ॥
वहिःस्था वेष्टके सैन्ये भङ्गदा नात्र संशयः ।क्रूरा गर्भे शुभा वाह्ये गृह्यते निञ्चितं पुरम् ॥
सौम्या मध्ये वहिः क्रूरा असाध्यं दुर्गमुच्यते ।क्रूरचतुष्ठयं मध्ये प्राकारे सौम्यखेचराः ॥
भेदाद्भङ्गो भवेद्दुर्गे विना युद्धेन गृह्यते ।प्राकारे संस्थिताः क्रूरा मध्ये सौम्यग्रहा यदि ॥
दुर्गभङ्गे समुत्पन्ने भङ्गमायान्ति वेष्टकाः ।मध्यनाडीस्थिताः सौम्याः क्रूरा वहिरवस्थिताः ॥
सैन्यावर्त्तो वहिः शत्रोर्विना युद्धेन जायते ।प्राकारे पुरमध्ये च यदा क्रूरा व्यवस्थिताः ॥
सौम्या वाह्ये तदा दुर्गमयत्नेनापि सिध्यति ।सौम्या मध्ये च कोटे च वाह्ये पापग्रहा यदि ॥
देवैर्ब्रह्मादिभिः कोटो गृह्यते न कदाचन ।प्राकारवाह्यगाः क्रूराः सौम्या मध्यगता यदि ॥
युद्धं प्राकारखण्डिश्च पुरभेदो न जायते ।स्तम्भान्तरगता यस्य ग्रहाः सौम्याः शुभान्विताः ॥
भवेयुस्तस्य कोटस्य न नाशो विद्यते क्वचित् ।स्तम्भान्तरगता यस्य रविराहुशनैश्चराः ॥
भूमिपुत्त्रश्च तस्याशु नाशः कोटस्य निश्चितम् ।सौम्या वाह्ये तथा कोटेमध्ये क्रूरग्रहाः स्थिताः ॥
स्वयं दुर्गं प्रयच्छन्ति वेष्टकाय गडाधिपाः ।वाह्याभ्यन्तरगाः क्रूराः प्राकारे शोभनग्रहाः ॥
रिपुद्वयं क्षयं याति विना युद्धेन निश्चितम् ।प्रकारस्था ग्रहाः क्रूरा वहिर्मध्येशुभाः स्थिताः ॥
समयुद्धं भवेत्तत्र खण्डिपातो दिने दिने ।सौम्याः क्रूरास्तथा चाष्टौ प्राकारमध्यवाह्यगाः ॥
एकस्था यत्र कुर्व्वन्ति संग्रामस्तत्र दारुणम् ।गजाश्वरथभूपालाः सामन्ता मण्डलेश्वराः ॥
कुर्व्वन्ति च भटा युद्धमुभयोरपि सैन्ययोः ।विचार्य्य कुरुते युद्धं कोटचक्रं स्वरोदयी ॥
प्रवेशधिष्ण्यगे चन्द्रे जीवपक्षर्क्षसंस्थिते ।निशीथे कविरणं दुर्गे कर्त्तव्यं वेष्टकैर्नृपैः ॥
कर्त्तव्यं कवियुद्धञ्च रात्रौ सुप्ते वहिर्जने ।प्रवेशनिर्गमावुक्तौ सेनयोरुभयोरपि ॥
कवौ कोटे जयो युद्धे विपरीते पराजयः ।विहाय प्रकृतं चारं वक्रं गच्छति चेद्गुरुः ॥
तदा प्राग्दिशिभङ्गः स्यात् रुद्धयोः पूर्व्वसैन्ययोः ।भौमे च वक्रिते भङ्गो भवेत् दक्षिणतोऽत्र च ॥
भवेत् पश्चिमतो भङ्गो भार्गवे वक्रगामिनि ।बुधे वक्रगतौ चैव भङ्गश्चोत्तरतो भवेत् ॥
यदि तत्र स्थितौ स्यातां न जात्वर्कशनैश्चरौ ॥
क्रूरो वक्री प्रवेशर्क्षे पुरमध्ये स्थितो यदा ।तदा कोटविनाशाय कोटस्थो वाह्यभूपतेः ॥
प्रवेशवाह्यगे क्रूरे वक्रे स्वसैन्यविग्रहः ।दुर्भिक्षं मृत्युभङ्गौ च वहिः सैन्यस्य जायते ॥
निर्गमर्क्षे वहिःस्थे च क्रूरो वक्रं करोति चेत् ।प्राकारस्य भवेद्भङ्गः प्राकारस्थे पुरस्य च ॥
पुरभे निर्गमे वक्राः कथञ्चित् क्रूरखेचराः ।दुर्गं त्यक्त्वा तदा काले दुर्गस्थः प्रपलायते ॥
यथा क्रूरैस्तथा सौम्यैः फलं ग्राह्यं विपर्य्ययात् ।मिश्रैर्मिश्रं विजानीयात् कोटचक्रे न संशयः ॥
दुर्गसैन्यं तथैवोच्चं प्राकारे मध्यभागगम् ।नीचस्थं वेष्टकं सैन्यं ज्ञातव्यं स्वरवेदिभिः ॥
कोटे कोटाधिपे नीचौ विघ्नदौ भौमभास्करौ ।समस्थौ च पुरे सर्व्वे उच्चस्थौ निष्फलौ च तौ ॥
प्राकारं वेष्टकं हन्ति उच्चस्थौ राहुसूर्य्यजौ ।प्राकारस्थौ वहिःसैन्यं नीचस्थौ तौ च निष्फलौ ॥
सितेऽर्कपुत्त्रे तु रवौ गुरावज्ञसितेऽपि च ।वक्रिता नैव शक्ताः स्युर्विधातुं कोटभेदनम् ॥
समदृष्ट्या गुरुश्चन्द्रः पश्यतः सर्व्वतः सदा ।तिर्य्यक्स्थितौ बुधशुक्रौ फलदौ नात्र संशयः ॥
ऊर्द्ध्वदृष्टिग्रहे कुर्य्यात् टिङ्गनीयन्त्रवाहनम् ।समे च साधयेत् खण्डिं रन्ध्रपातमधोमुखे ॥
कोटभं मुखपुच्छस्थं राहोर्यदि गलादिके ।कोटश्च भज्यते क्षिप्रं पूर्व्वोक्तविधिना चिरात् ॥
दुर्गमध्यगते सूर्य्ये जलशोषः प्रजायते ।चन्द्रे भङ्गः कुजे दाहो बुधे बुद्धिबला नराः ॥
वाक्पतौ दुर्गमध्यस्थे सुभिक्षं प्रचुरं जलम् ।चलचित्ता नराः शुक्रे मृत्युरोगौ शनैश्चरे ॥
राहौ मध्यगते दुर्गे भङ्गो भेदो महद्भयम् ।केतौ मध्यगते तत्र विषादः स्याद्गडाधिपे ॥
सौरिश्च वाक्पतिश्चैव भवेतां दिशि संस्थितौ ।यस्यां तया स कोटस्तु भज्यते नात्र संशयः ॥
इत्येवोक्तं फलं मध्ये एवं वाह्यगते ग्रहे ।उपग्रहसमायोगादत्यन्तं प्राणसंशयः ॥
अकारादिस्वराः पञ्च पूर्व्वाशादिचतुष्टये ।मध्यान्ताः सव्यमालेख्या अन्तस्थाः खण्डि-कारकाः ॥
दुर्गनाम्नः स्वरो यस्य बालो वास्तमितोऽपि वा ।तद्दिने प्रारभेत् युद्धं दुर्गं सिध्यति नान्यथा ॥
”इति कोटचक्रम् ॥
इति समयामृतम् ॥
* ॥
चक्रान्तराणि तत्तच्छब्देद्रष्टव्यानि ॥
(चित्रकाव्यविशेषः । शब्दालङ्कार-भेदः । अस्य च तथाविधलिपिसन्निवेशवशेनचमत्कारिविधायिनामपि वर्णानां तथाविध-श्रोत्राकाशसमवायविशेषवशेन चमत्कारि-विधायिभिर्वर्णैरभेदेन उपचारत्वात् शब्दा-लङ्कारत्वम् । उदाहरणं यथा, काव्यालङ्कारे ।५ । ६ -- १३ ।“मारारिशक्ररामेभमुखैरासाररंहसा ।सारारब्धस्तवा नित्यं तदर्तिहरणक्षमा ॥
माता नतानां संघट्टः श्रियां बाधितसम्भ्रमा ।मान्याथ सीमारामाणां शं मेदिश्यादुमादिजा ॥
मायाविनं महाहावा रसायातं लसद्भुजा ।जातलीला यथा सारवाचं महिषमावधीः ॥
मामभीदा शरण्यामुत्सदैवारुक्प्रदा च धीः ।धीरा पवित्रा सन्त्रासात्त्रासीष्ठा मातरारम ॥
माननापरुषं लोकदेवीं सद्रस सन्नम ।मनसा सादरं गत्वा सर्वदा दास्यमङ्ग ताम् ॥
मा मुषो राजस स्वासूंल्लोककूटेशदेवताम् ।तां शिवावाशितां सिद्ध्याध्यासितां हि स्तुतांस्तुहि ॥
माहिषाख्ये रणेऽन्या नु सा नु नानेयमत्र हि ।हिमातङ्कादिवामुं च कं कम्पिनमुपप्लुतम् ॥
मातङ्गानङ्गविधिनामुना पादं तमुद्यतम् ।तङ्गयित्वा शिरस्यस्य निपात्याहन्ति रंहसा ॥
”अथ चक्रे वर्णविन्यासक्रमः ।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
