| YouTube Channel

चकितं (cakitaM)

 
शब्दकल्पद्रुमः
Sanskrit
चकितं, त्रि, (चक भ्रान्तौ + क्तः ।) भीतम् इतित्रिकाण्डशेषः
(यथा, कलाविलासे ।“दत्त्वा दिशि दिशि दृष्टिं याचकचकितोऽव-गुण्ठनं कृत्वा ।चौर इव कुटिलचारी पलायते विकटरथ्याभिः
क्ली,
भावे क्तः भयम् नायिकालङ्कारविशेषः ।तल्लक्षणं यदुक्तं साहित्यदर्पणे १२१ ।“कुतीऽपि दयितस्याग्रे चकितं भयसम्भ्रमः
”)“प्रियाग्रे चकितं भीतेरस्थानेऽपि भयंमहत् ।”इत्युज्ज्वलनीलमणिः
(स्त्री, छन्दोविशेषः यथा, छन्दोमञ्जर्य्याम् ।“भात् समतनगैरष्टच्छेदे स्यादिह चकिता
”)