| YouTube Channel

चकासृ (cakAsR)

 
Shabdartha Kaustubha
Kannada
चकासृ - दीप्तौ (अदा० पर० अक० से०) चकास्ति
पदविभागः - > धातुः
कन्नडार्थः - > ಪ್ರಕಾಶಿಸು /ಹೊಳೆ
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
चकास्
मूलधातुः:
चकासृ
धात्वर्थः:
दीप्तौ
गणः:
अदादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
चकास्ति
अनुबन्धादिविशेषः:
ऋदित् अनेकाच्
धातुप्रदीपः
Sanskrit
चकासृँ चकासृ दीप्तौ
- चकास्ति चकास्तः चकासति चकासाञ्चकार अचकासीत् अचीचकासत् अचचकासत् चकासत्, चकासतौ, चकासति कुलानि, चकासन्ति कुलानि ।। 65 ।।
क्षीरतरङ्गिणी
Sanskrit
चकासृँ चकासृ दीप्तौ
- चकास्ति चकासति चकासत् कास्यनेकाज्ग्रहणाद् (द्र0 3135 भाष्य) आम्-चकासांचकार तिप्यनस्तेः (8273) इति सस्य दः-अचकाद् भवान् सिपि धातो रुर्वा (8274)-अचकात् त्वम्, अचकास्त्वम् अचकासेत् चकासिता 61
धातुवृत्तिः
Sanskrit
चकासृँ चकासृ (अर्थः) दीप्तौ
( चकास्ति, चकास्तः, चकासति, चकास्सि, चकास्मि, चकास्वः चकासांचकार ) "कास्यनेकाच'' इत्याम् ( चकासिता चकासिष्यति चकास्तु, चकास्तां, चकासतु, चकाधि, ) "धि च'' इति सलोपः केचित्तु "धि च'' इति सिचो लोपमिच्छन्तः चकाद्धि इति सकारस्य दत्वमुदाहरन्ति तत् "यथा तु भाष्यं तथा चकाधीत्येव भवितव्यम्' इति वदाता वृत्तिकारेणैव प्रत्युक्तम् ( अचकात् ) "तिप्यनस्तेः'' इति सकारस्य दत्वम् ( अचकास्ताम्, अचकासुः ) "सिजभ्यस्त'' इति जुस् ( अचकात्, अचकाः ) "सिपि धातो रुर्वा'' इति रुत्वदत्वे ( अचकासम् चकास्यात्, चकास्याताम् ) आशिषि ( चकास्यात्, चकास्यास्ताम् अचकासीत्, अचकासिष्टाम्, अचकासीः, अचकासिषम् चिचकासिषति चकासयति अचीचकासत्, ) ऋदित्त्वात् "णौ चङि'' इति ह्रस्वः 64
कृदन्तरूपमाला
Sanskrit
1 {@“चकासृ दीप्तौ”@} 2 3 अस्य धातोरनेकाच्त्वात्, ‘धातोरेकाचो हलादेः क्रियासमभिहारे यङ्’ 4 इति विहितो यङ्न भवति।]] जक्षित्यादिः।
चकासकः-सिका, चकासकः-सिका, चिचकासिषकः-षिका
चकासिता-त्री, चकासयिता-त्री, चिचकासिषिता-त्री
5 चकासत् 6 -चकासतौ-चकासतः-ती, चकासयन्-न्ती, चिचकासिषन्-न्ती
7 चकासिष्यन्-न्ती-ती, चकासयिष्यन्-न्ती-ती, चिचकासिषिष्यन्-न्ती-ती
-- चकासयमानः, चकासयिष्यमाणः
-- 8 विचकात्-विचकाद्-विचकासौ-विचकासः
-- 9 चकासितम्-तः, चकासितः, चिचकासिषितः-तवान्
चकासः, चकासः, चिचकासिषुः
चकासितव्यम्, चकासयितव्यम्, चिचकासिषितव्यम्
चकासनीयम्, चकासनीयम्, चिचकासिषणीयम्
चकास्यम्, चकास्यम्, चिचकासिष्यम्
ईषच्चकासः-दुश्चकासः-सुचकासः
-- चकास्यमानः, चकास्यमानः, चिचकासिष्यमाणः
चकासः, चकासः, चिचकासिषः
चकासितुम्, चकासयितुम्, चिचकासिषितुम्
10 चकासा, चकासना, चिचकासिषा
चकासनम्, चकासनम्, चिचकासिषणम्
चकासित्वा, चकासयित्वा, चिचकासिषित्वा
विचकास्य, विचकास्य, विचिचकासिष्य
चकासम् २, चकासित्वा २, चकासम् २, चकासयित्वा २, चिचकासिषम्
चिचकासिषित्वा २।
प्रासङ्गिक्यः
01
=>
(४८५)
02
=>
(२-अदादिः-१०७४। अक। सेट्। पर।)
03
=>
[[[अ]
04
=>
(३-१-२२)
05
=>
[[२। ‘जक्षित्यादयः षट्’ (६-१-६) इत्यभ्यस्तसंज्ञायाम्, ‘नाभ्यस्ताच्छतुः’ (७-१-७८) इति नुम्निषेधः। स्त्रियामुगित्त्वा ङीष्।]]
06
=>
[[B। ‘तं जाग्रतं दीनदरिद्रपोषे चकासतं शासतमप्रशान्तान्। देवं स्फुरद्दीधितिमम्बुजाक्ष्यो वेव्यानमालोक्य विमोहमापुः।।’ धा। का। २। ५२।]]
07
=>
[पृष्ठम्०४६८+ २४]
08
=>
[[१। ‘झलां जशोऽन्ते’ (८-२-३९) इत्यनेन पदान्ते जश्त्वम्। ‘वाऽवसाने’ (८-४-५६) इति चर्त्वविकल्पः।]]
09
=>
[[२। दीप्तयर्थकत्वात् ‘गत्यर्थाकर्मक--’ (३-४-७२) इत्त्यादिना कर्तरि अधिकरणे क्तप्रत्ययो ज्ञेयः।]]
10
=>
[[३। ‘गुरोश्च हलः’ (३-३-१०३) इति अकारप्रत्ययः।]]