| YouTube Channel

घोषणः (ghoSaNaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“घुषिर् अविशब्दने”@} 2 विशब्दनं = प्रतिज्ञानम्।
तच्च शब्देन स्वाभिप्रायाविष्करणम्।
ततोऽन्यस्मिन्नर्थे अस्य धातोः प्रयोगः।
‘घुषिर् शब्दे’ इत्यन्ये पेठुः।
‘घुषेर्विशब्दनादौ णौ घोषयत्यविशब्दने।।
घोषतीतीदितो घुंषेद् घुंषते कान्तिकर्मणि।’ 3 इति देवः।
घोषकः-षिका, घोषकः-षिका, 4 जुघुषिषकः-जुघोषिषकः-षिका, जोघुषकः-षिका
घोषिता-त्री, घोषयिता-त्री, जुघुषिषिता-जुघोषिषिता-त्री, जोघुषिता-त्री
5 घोषन्-न्ती, घोषयन्-न्ती, जुघुषिषन्-जुघोषिषन्-न्ती
-- घोषिष्यन्-न्ती-ती, घोषयिष्यन्-न्ती-ती, जुघुषिषिष्यन्-जुघोषिषिष्यन्-न्ती-ती
-- 6 -- घोषयमाणः, घोषयिष्यमाणः -- जोघुष्यमाणः, जोघुषिष्यमाणः
7 सङ्घुट्-सङ्घुड्-सङ्घुषौ-सङ्घुषः
-- -- 8 घुष्टम्-घुष्टः- 9 सङ्घुष्टम्-घुष्टा, 10 सङ्घुषितम् 11, घोषितः, जुघुषिषितः-जुघोषिषितः, जोघुषितः-तवान्
घुषः, 12 घोषणः, घोषः, जुघुषिषुः-जुघोषिषुः, जोघुषः
घोषितव्यम्, घोषयितव्यम्, जुघुषिषितव्यम्-जुघोषिषितव्यम्, जोघुषितव्यम्
घोषणीयम्, घोषणीयम्, जुघुषिषणीयम्-जुघोषिषणीयम्, जोघुषणीयम्
घोष्यम्, घोष्यम्, जुघुषिष्यम्-जुघोषिष्यम्, जोघुष्यम्
ईषद्घोषः-दुर्घोषः-सुघोषः
-- -- घुष्यमाणः, घोष्यमाणः, जुघुषिष्यमाणः-जुघोषिष्यमाणः, जोघुष्यमाणः
घोषः, घोषः, जुघुषिषः-जुघोषिषः, जोघुषः
घोषितुम्, घोषयितुम्, जुघुषिषितुम्-जुघोषिषितुम्, जोघुषितुम्
13 घुष्टिः, घोषणा, जुघुषिषा-जुघोषिषा, जोघुषा
घोषणम्, घोषणम्, जुघुषिषणम्-जुघोषिषणम्, जोघुषणम्
घुषित्वा-घोषित्वा, घोषयित्वा, जुघुषिषित्वा-जुघोषिषित्वा, जोघुषित्वा
विघुष्य, विघोष्य, विजुघुषिष्य-विजुघोषिष्य, विजोघुष्य
घोषम् २, घुषित्वा २, घोषित्वा २, घोषम् २, घोषयित्वा २, जुघुषिषम् २-जुघोषिषम् २, जुघुसिषित्वा २-जुर्घोषिषित्वा २, जोघुषम्
जोघुषित्वा २। 14
प्रासङ्गिक्यः
01
=>
(४७०)
02
=>
(१-भ्वादिः-६५३। सक। सेट्। पर।)
03
=>
(श्लो। १६९-७०)
04
=>
[[३। ‘रलो व्युपधात्--’ (१-२-२६) इति क्त्वासनोः सेटोः कित्त्वविकल्पः। तेन रूपद्वयम्। एवं सन्नन्ते सर्वत्र क्त्वायां ज्ञेयम्।]]
05
=>
[[आ। ‘घोषद्भूषः पङ्कजाक्षस्तमूचे पापश्रेणीतक्षणे त्वष्टृधर्मा। उक्षन् एनं मन्दहासेन रक्षन् विश्वन् निक्षन् वल्लवीस्तृक्षिताघाः।।’ धा। का। १-८३।]]
06
=>
[पृष्ठम्०४५८+ २२]
07
=>
[[१। ‘बाऽवसाने’ (८-४-५६) इति अवसाने चर्त्वविकल्पः।]]
08
=>
[[२। ‘घुषिरविशब्दने’ (७-२-२३) इत्यनेन निष्ठाया इण्णिषेधः। विशब्दने तु ‘रुष्यमत्वरसंघुषाऽऽस्वनाम्’ (७-२-२८) इत्यनेन इड् भवत्येव। सङ्घुषितम् = वाक्यम्।]]
09
=>
[[आ। ‘तेषां निहन्यमानानां सङ्घुष्टैः कर्णभेदिभिः। अभूदभ्यमितत्रासमास्वान्ताशेषदिग् जगत्।।’ भ। का। ९-२१।]]
10
=>
[[B। ‘रामसङ्घुषितं नैतन्मृगस्यैव विवञ्चिषोः।’ भ। का। ५। ५५।]]
11
=>
(वाक्यम्)
12
=>
[[३। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति तच्छीलादिषु युच्।]]
13
=>
[[४। ‘तितुत्रतथसिसुसरकसेषु च’ (७-२-९) इति इण्णिषेधः।]]
14
=>
[पृष्ठम्०४५९+ २७]