| YouTube Channel

घोरकः-रिका (ghorakaH-rikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“घुर भीमार्थशब्दयोः”@} 2 घोरकः-रिका, घोरकः-रिका, जुघुरिषकः-जुघोरिषकः-षिका, जोघुरकः-रिका
घोरिता-त्री, घोरयिता-त्री, जुघुरिषिता-जुघोरिषिता-त्री, जोघुरिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिकशब्दार्थककुर 3 धातुवत् बोध्यानि।
इगुपधलक्षणे कप्रत्यये--घुरः।
घुर्घुरः--इगुपधलक्षणक- प्रत्यये “कृञादीनां के द्वे भवतः” 4 इति द्वित्वे पृषोदरादित्वात् 5 हलादिः शेषः 6 प्रवृत्तः।
घञि घोरः 7।
प्रासङ्गिक्यः
01
=>
(४६८)
02
=>
(६-तुदादिः-१३४५। सक। सेट्। पर।)
03
=>
(२२९)
04
=>
(वा। ६-१-१२)
05
=>
(६-३-१०९)
06
=>
(७-४-६०)
07
=>
[[आ। ‘मुरादिबन्धुः क्षुरघोरचेताः पुरन् खलानां जनजीवबर्ही।’ धा। का। २-७७।]]