| YouTube Channel

घोटक (ghoTaka)

 
शब्दसागरः
English
घोटक
m.
(-कः) A horse.
f.
(-टिका) A mare.
E.
घुट to strike again, (to
spurn the ground, ) अच् and कन् ण्वुल् वा affixes, or without the
latter affix घोट.
Capeller Eng
English
घोट°क
m.
horse.
Yates
English
घोटक (कः) 1.
m.
Idem. (ठिका) A mare.
Spoken Sanskrit
English
घोटक - ghoTaka -
m.
- horse
Wilson
English
घोटक
m.
(-कः) A horse.
f.
(-टिका) A mare.
E.
घुट to strike again, (to spurn the ground, ) अच् and कन्
affixes, or without the latter affix घोट.
Monier Williams Cologne
English
घोटक
m.
a horse,
Pañcat.
v, 10, 4/5
Siṃhās.
Uṇ.
, Sch.
Monier Williams 1872
English
घोटक, अस्, m. a horse
(इका), f. a mare
the
plant Cucumis Utilissimus (कर्कटी)
[cf. तुरङ्गी।]
—घोटक-मुख, अस्, m., N. of the author of the
Kanyā-samprayuktakādhikaraṇa.
Benfey
English
घोटक घोटक,
m.
A horse, Pañc.
254, 23.
Apte Hindi
Hindi
घोटकः
पुं*
- घुट् - ण्वुल्
घोड़ा
Shabdartha Kaustubha
Kannada
घोटक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅಶ್ವ /ಕುದುರೆ
निष्पत्तिः - > घुट (प्रतीघाते) - "ण्वुल्" (३-१-१३३)
L R Vaidya
English
Gowaka {% m. %} A horse.
Bopp
Latin
घोटक m. equus. AM.
Kridanta Forms
Sanskrit
घुट् (घु꣡टँ॒ परिवर्तने - भ्वादिः - सेट्)
ल्युट् = घोटनम्
अनीयर् = घोटनीयः - घोटनीया
ण्वुल् = घोटकः - घोटिका
तुमुँन् = घोटितुम्
तव्य = घोटितव्यः - घोटितव्या
तृच् = घोटिता - घोटित्री
क्त्वा = घोटित्वा / घुटित्वा
ल्यप् = प्रघुट्य
क्तवतुँ = घुटितवान् / घोटितवान् - घुटितवती / घोटितवती
क्त = घुटितः / घोटितः - घुटिता / घोटिता
शानच् = घोटमानः - घोटमाना
घुट् (घु꣡टँ꣡ प्रतिघाते - तुदादिः - सेट्)
ल्युट् = घुटनम्
अनीयर् = घुटनीयः - घुटनीया
ण्वुल् = घोटकः - घोटिका
तुमुँन् = घुटितुम्
तव्य = घुटितव्यः - घुटितव्या
तृच् = घुटिता - घुटित्री
क्त्वा = घुटित्वा
ल्यप् = प्रघुट्य
क्तवतुँ = घुटितवान् - घुटितवती
क्त = घुटितः - घुटिता
शतृँ = घुटन् - घुटन्ती / घुटती
Schmidt Nachtrage zum Sanskrit Worterbuch
German
घोटक m.? S II, 217, 12/13 (Ko.). f. घोटिका *Stute s. weiter unten.
अभिधानचिन्तामणिः
Sanskrit
--source--
घोटकस्तुरगस्तार्क्ष्यस्तुरंगोऽश्वस्तुरंगमः १२३२
गन्धर्वोऽर्वा सप्तिवीती वाहो वाजी हयो हरिः
-wordlist-
घोटक (पुं), तुरग (पुं), तार्क्ष्य (पुं), तुरङ्ग (पुं), अश्व (पुं), तुरङ्गम (पुं), गन्धर्व (पुं), अर्वन् (पुं), सप्ति (पुं), वीति (पुं), वाह (पुं), वाजिन् (पुं), हय (पुं), हरि (पुं)
अभिधानरत्नमाला
Sanskrit
अर्वन्
अर्वन्, गन्धर्व, अश्व, सप्ति, वाजिन्, तुरङ्गम, तुरग, तार्क्ष्य, हरि, तुरङ्ग, युयु, घोटक, हय, वाह
अर्वा गन्धर्वोऽश्वः सप्तिर्वाजी तुरङ्गमस्तुरगः
तार्क्ष्यो हरिस्तुरङ्गो युयुरुक्तो घोटको हयो वाहः ४३६
verse 2.1.1.436
page 0050
शब्दकल्पद्रुमः
Sanskrit
घोटकः,
पुं,
स्त्री,
(घोटते गत्वा प्रत्यागच्छतीति ।घुट परिवर्त्तने + ण्वुल् ।) पशुविशेषः घोडाइति भाषा
तत्पर्य्यायः पीतिः तुरगः ३तुरङ्गः अश्वः तुरङ्गमः वाजी वाहः ८अर्व्वा गन्धर्व्वः १० हयः ११ सैन्धवः १२सप्तिः १३ इत्यमरः ४४
घोटः १४ पीती १५ पीथिः १६ इतिभरतः
तार्क्ष्यः १७ हरिः १८ वीती १९ ।इति हेमचन्द्रः
मुद्गभोजी २० धाराटः २१जवनः २२ जितवः २३ जवी २४ वाहनश्रेष्ठः २५श्रीभ्राता २६ अमृतसोदरः २७ मुद्गभुक् २८शालिहोत्रः २९ लक्ष्मीपुत्त्रः ३० प्रकीर्णकः ३१ ।इति जटाधरः
वातायनः ३२ श्रीपुत्त्रः ३३चामरी ३४ हेषी ३५ शालिहोत्री ३६ मरु-द्रथः ३७ वाजस्कन्धः ३८ हरिद्राक्तः ३९ एक-शफः ४० किन्धी ४१ ललामम् ४२ विमानकः ४३
इति शब्दरत्नावली
अत्यः ४४ वह्निः ४५दधिक्रा ४६ दधिक्रावा ४७ एतग्वः ४८ एतशः ४९पैद्वः ५० दौर्गहः ५१ उच्चैःश्रवसः ५२ आशुः ५३व्रध्नः ५४ अरुषः ५५ मांश्चत्वः ५६ अव्यथयः ५७श्येनासः ५८ सुपर्णाः ५९ पतङ्गाः ६० नरः ६१ह्वार्य्याणाम् ६२ हंसास्यः ६३ इति वेद-निघण्टौ अध्यायः
हरी इन्द्रस्य रोहितःअग्नेः हरितः आदित्यस्य रासभौ अश्विनोः ४अजाः पूष्णः पृषत्यो मरुताम् अरुण्योगावः उषसाम् श्यावाः सवितुः विश्वरूपाबृहस्पतेः नियुतो वायोः १० इति दशा-दिष्टोपयोजनानि इति वेदनिघण्टौ १अध्यायः
अस्य मांसगुणाः उष्णत्वम् वात-नाशित्वम् लघुगुरुत्वम् अतिसेवनात् पित्त-दाहप्रदत्वञ्च इति राजनिर्घण्टः
अग्निकफ-बलकारित्वम् बृंहणत्वम् चक्षुर्हितत्वम् ।मधुरत्वञ्च इति भावप्रकाशः
*
अथाश्वपरीक्षा ।“सपक्षा वाजिनः पूर्व्वं संजाता व्योमचारिणः ।गन्धर्व्वेभ्यो यथाकामं गच्छन्ति समन्विताः
इन्द्रादेशाच्छालिहोत्रस्तेषां पक्षमथाच्छिनत् ।ततः प्रभृति निष्पक्षास्तुरङ्गा धरणीं गताः
उत्तमा मध्यमा नीचाः कनीयांसस्तथापरे ।चतुर्द्धा वाजिनो भूमौ जायन्ते देशसंश्रयात्
ताजिताः खुरशालाश्च तुषाराश्चोत्तमा हयाः ।गोजिकाणाश्च केकाणाः प्रौढाहाराश्च मध्यमाः
ताडजा उत्तमाशाश्च वाजशूलाश्च मध्यमाः ।गत्वराः साध्यवासाश्च सिन्धुदाराः कनीयसः
अन्यदेशोद्भवा ये ते वै नीचाः प्रकीर्त्तिताः ।वाजिनो जलजाः केचिद्वह्निजातास्तथापरे
समीरप्रभवाश्चान्ये तुरगा मृगजाः परे ।जलोद्भवा द्विजा ज्ञेयाः क्षत्त्रिया वह्निसम्भवाः
प्रभञ्जनभवा वैश्या मृगजाः शूद्रजातयः ।पुष्पगन्धिर्भवेद्विप्रः क्षत्त्रियोऽगुरुगन्धिकः
घृतगन्धो भवेद्वैश्यो मीनामोदी शूद्रकः ।विवेकी सघृणो विप्रस्तेजस्वी क्षत्त्रियो बली
कोष्णभावो भवेद्वैश्यः शूद्रो निःसत्त्वको भवेत् ।विप्राद्या वाहनाः सर्व्वे त्रयो भूमिपतेः सदा
शूद्रजातिं तुरङ्गन्तु स्पृशन्ति नरेश्वराः
”इत्युत्पत्तिः
*
अथाङ्गुल्याङ्गविभागः ।“सप्तविंशत्यङ्गुलिभिर्मुखमानं विधीयते ।कर्णौ षडङ्गुलौ प्रोक्तौ भालकं चतुरङ्गुलम्
चत्वारिंशच्च सप्ताढ्या स्कन्धः संपरिकीर्त्तितः ।पृष्ठवंशश्चतुर्व्विंशः सप्तविंशा तथा कटी
इति सूक्ष्मं तथा निम्नं प्रतिपुच्छं द्वयाधिकम् ।लिङ्गं हस्तप्रमाणन्तु तथाण्डौ चतुरङ्गुलौ
मध्यस्थानं चतुर्व्विंशं हृदयं षोडशात्मकम् ।कटिकुक्ष्यन्तरं प्राक्तं चत्वारिंशत् प्रमाणतः
मणिबन्धद्वयञ्चैव वुराश्च चतुरङ्गुलाः ।अशीत्यङ्गुलिकाः पादा दीर्घा विंशाधिका मताः
”इत्यङ्गुलिविभागः
*
अथ वयोविभागः ।“दन्तेषु व्यञ्जनं यद्वत्तेन ज्ञेयो वयःक्रमः
”तद्यथा, --“कालिका हरिणी शुक्ला काचा मक्षिकया सहशङ्खो मुषलकञ्चैव दन्तानां चलता तथा ।इत्यष्टौ व्यञ्जनान्याहुरथैषां लक्षणं शृणु
चतुर्भिर्वत्सरैर्द्दन्ताश्चत्वारः परिकीर्त्तिताः ।पञ्चभिश्च षडित्येवं जायन्ते त्वथ कालिकाः
षष्ठे संवत्सरे प्राप्ते कालिकान्या भवेत्तु हि ।तथान्या सप्तमे वर्षे चतुर्थी कालिका भवेत्
अष्टमे वतसरे प्राप्ते जायन्ते सर्व्वकालिकाः ।नवमे त्वथ ताः सर्व्वा आपीताः सम्भवन्ति
केचिदेकादशे वर्षे तावत् पीतत्वमागताः ।ततः श्वेताः प्रजायन्ते चतुर्द्दशसमावधि
ततः काचप्रभाः सम्यक् यावत् संवत्सरास्त्रयः ।ततः सप्तदशादूर्द्ध्वं यावद्बर्षाणि विंशतिः
मक्षिकाभां वदन्त्येषां यावद्वर्षत्रयं पुनः ।शङ्खाभासाः सर्व्वदन्ता भवन्ति वाजिनां ततः
त्रयोविंशात् परे वर्षे दशना मुषला मताः ।षड्विंशात् परतो दन्ताः स्थानाच्चलनमाप्नुयुः
यावद्बर्षत्रयं पश्चान्निपतन्ति समात्रये ।द्बात्रिंशद्वत्सरे वाजी नूनं निर्व्वाणमाप्नुयात्
”अथ शुभलक्षणानि ।“दीर्घाः शुष्का विशालास्या ये भवन्ति तुरङ्गमाः ।ते शस्ताः पार्थिवेन्द्रस्य यानवाहनकर्म्मणि
आस्यं भुजौ चापि कृकाटिका चदीर्घं चतुष्कं तुरगस्य शस्तम् ।तथोन्नते घ्राणपुटे ललाटेकफश्च वाजिप्रवरस्य बोध्यः
श्रोत्रे मणिबन्धश्च पुच्छं कोष्ठं लघूत्तमम् ।पीताङ्गः श्वेतपादो यो यश्च स्यात् सितलाचनः
चक्रवाकः विज्ञेयो राजार्हः प्रियसत्तमः ।मुखे चन्द्रकसम्बीतः पक्वजम्बूफलाकृतिः
श्वेतपादः विज्ञेयो मल्लिकाख्यः सुपूजितः ।सर्व्वश्वेतो हयो यस्तु श्यामैकश्रवणो भवेत् ।स वाजी वाजिमेधार्हः श्यामकर्णः सुदुर्लभः
यस्य पादाः सिताः सर्व्वे पुच्छो मुष्को मुखं तथा ।मूर्द्ध्वजास्तु सिता यस्य तम्बिद्यादष्टमङ्गलम्
यस्य पादाः सिताः सर्व्वे चन्द्रकञ्च ललाटके ।कल्याणपञ्चकः प्रक्तो भर्त्तुः कल्याणकारकः
विमिश्रवर्णकाः सर्व्वे प्रशस्ता वाजिनो मताः ।यस्योत्कृष्टतरा वर्णा वृद्धिं यान्ति शनैः शनैः
नाशयन्ति तथा नीचान् करोति बहून् हयान्
”अथावर्त्तगुणाः ।“रोम्णां भ्रमिवदावृत्तिरावर्त्त इति गद्यते ।षड्विधो दक्षिणो वामो दक्षिणस्तु शुभावहः
नासिकाग्रे ललाटाग्रे शङ्खे कण्ठे मस्तके ।आवर्त्तो जायते येषां ते घन्यास्तु तुरङ्गमाः
ललाटे यस्य चावर्त्तो द्वितीयस्तु कुकुन्दरे ।मस्तके तृतीयस्तु विज्ञेयो हयोत्तमः
गण्डावर्त्तो भवेद् यस्य वाजिनो दक्षिणाश्रयः
करोति महासौख्यं स्वामिनः शिवसंज्ञितः ।कर्णमूले यदावर्त्तः स्तनमध्ये तथापरः ।विजयाख्यावुभौ तौ तु युद्धकाले जयप्रदौ
स्कन्धपार्श्वे यदावर्त्तः भवेत् सुखकारकः ।नासामध्ये यदावर्त्त एको वा यदि वा त्रयः
चक्रवर्त्ती विज्ञेयो वाजी भूपालभूषितः ।कण्ठे यस्य महावर्त्तः प्रोक्तश्चिन्तामणिः शुभः
रोम्णां वृश्चिकवत् स्थानं शुक्तिरित्यभिधीयते ।यत्रावर्त्तः शुभस्तत्र शुक्तिस्तत्र शुभावहा
*
अथ दोषाः ।“चत्वारोऽप्यसिताः पादाः सर्व्वश्वेतस्य वाजिनः ।भवन्ति यस्य त्याज्यो यमदूतः सुदूरतः
चत्वारो यस्य वै पादाः परस्परविवर्णकाः ।स त्याज्यो मुषली नाम्ना मुनिभिः कुलनाशनः
दुर्ल्लक्ष्मवाजिनं जह्या यदीच्छेः शाश्वतीं श्रियम् ।यस्तु वर्णविभेदेन ज्ञायते रोमसम्भवात्
पुष्पाख्यः परित्याज्यः सर्व्ववाजिभयावहः ।यस्यावशेषवर्णेन छाद्यते प्रधानतः
विवृद्धिं गच्छतः सोऽश्वः कुरुते हयसंक्षयम् ।इति स्कन्धे गले चैव कटिदेशे तथैव
नाभौ कुक्षौ पार्श्वांशे मध्यमः प्रकीर्त्तितः ।एको वामकपोलस्थो यस्यावर्त्तः प्रदृश्यते
चर्व्वणी हयस्त्याज्यः कुरुते स्वामिनाशनम् ।वामगण्डाश्रयावर्त्तः प्रकरोति धनक्षयम्
कक्षान्ते यस्य चावर्त्तः मृत्युं कुरुते विभोः ।क्लेशं जानुगतावर्त्तः प्रवासं कुरुतेऽथवा
वाजी मेढ्रगतावर्त्तो वर्ज्जनीयो महीभुजा ।त्रिबलिप्रभवावर्त्तस्त्रिवर्गस्य प्रणाशकः
पृष्ठवंशे यदावर्त्त एकः संपरिलक्ष्यते ।धूमकेतुरिति ख्यातः त्याज्यो दूरतो नृपैः
गुह्ये पुच्छे बलौ यस्य भवन्त्यावर्त्तकास्त्रयः ।स कृतान्तस्तु रूपेण वर्ज्जनीयस्तुरङ्गमः
अघोर्द्ध्वञ्च यदा वाजी सम्पुटं स्पृशेत् क्वचित् ।यमदूतः विज्ञेयो वर्ज्जनीयस्तुरङ्गमः ।हीनदन्तोऽधिकश्चैव कराली कृष्णतालुकः ।मुषली तथा शृङ्गी षडेते घातकाः स्मृताः
तत्राद्यौ विदितार्थौ तु शेषाणां लक्षणं शृणु ।त्रयः पादाः सिता यस्य कृष्णश्चैकोऽभिजायते
त्रयो वाप्यसिता यस्य एकः शुक्लोऽभिजायते ।मूषली नाम पापोऽयं दूरे त्याज्यो हयाघमः
विकटो विषमो यस्य दशनः करालकः ।कराली कुरुते नाशं भर्त्तुरत्र संशयः
कृष्णतालुर्हयो नाशं कुरुते नात्र संशयः ।विषदन्तो भवेद्यस्तु कृष्णतालुर्न दुष्यते
कर्णान्ते चूलिकान्ते शृङ्गवल्लक्ष्यते यदि ।स शृङ्गी कुरुते नाशं राष्ट्रस्य कुलस्य
एकाण्डोऽजातकाण्डश्चहीनाण्डोऽभ्यधिकाण्डकः ।घण्टी कम्बली चैव षडेते पापकृत्तमाः
*
अथारिष्टम् ।“सुस्थस्यापि नेत्रान्ते स्यातां नीले वाजिनः ।तथैव तस्य जानीयाद्भवेन्मृत्युर्द्विवार्षिकी
नीलपीते नेत्रान्ते त्रिभिर्मासैर्वपुःक्षयः ।यस्य नेत्रान्तरे रेखा बहुवर्णा प्रजायते
विशेषाद्वाजिनो ज्ञेयं तस्यायुः पञ्चमासिकम् ।जिह्वायां जायते विन्दुरकस्माद्यदि वाजिनः
मासैकं जीवितं तत्र पीते मासद्वयन्तथा ।रक्ते मृत्युस्त्रिभिर्मासैश्चतुर्भिश्च विचित्रके
पञ्चभिर्नीलवर्णे षड्भिर्वभ्रुसमाकृतौ ।सप्तभिः पाटलाकारे चणकाभे तथाष्टभिः
नवभिश्च हरिद्राभे दशभिर्जतुकोपमे ।एकादशे सुवर्णाभे वत्सरेण हिमद्युतौ
यस्य श्वासो भवेदुष्णः शरीरं पुलकाङ्कितम् ।जिह्वा हि मलिनाकारा मासषट्कं जीवति
जिह्वाग्रे पिडका यस्य पादान्ते तथोदरे ।मूत्रं करोति रक्तम्बा मासषट्कं जीवति
कर्णयोः क्षतजं यस्य नेत्राभ्यां वा प्रवर्त्तते ।वाजिनः पित्तग्रस्तस्य दशमासान् जीवति ।यस्य नेत्रे हरिद्राभे यस्य वातार्दितस्य ।तस्यायुः सप्तमासीयं बहुवर्णे तथा दिनैः
यस्यैकं लोचनं हीनं द्वितीयं रक्तसन्निभम् ।पुटान्ते विज्ञेयः पीताभे मासजीवकः
”एतानि अरिष्टानि रक्तदोषजानि ।“स्फुलिङ्गा यस्य दृश्यन्ते पुच्छतोऽश्वस्य वह्निजाः ।निर्गच्छन्तः प्रभोर्नाशं ते वदन्ति निशागमे
अश्वशालां समासाद्य यदा मधुमक्षिकाः ।मधुजालं प्रबध्नन्ति तदाश्वान् घ्नन्ति कृत्स्नशः
”अथ हयक्रियाकालः ।“स्ववरुणगुरुपार्श्वास्येषु भौमार्कवारेस्वतिथिकरणताराचन्द्रयोगोदयेषु ।शुभमिह हयकार्य्यं कार्य्यमार्य्येण बुद्धान शनिरविकुजानां वासरे नोग्रतारे
”इति कालः
*
अथ हयारोहणज्ञानम् ।“चलकिशलयपादः कर्णमध्यैकदृष्टि-र्नचलति कटिदेशः श्वासने संस्थितो यः ।हयहृदयगतिज्ञः स्थानदण्डावपातःस खलु तुरगयाता पूज्यते पार्थिवेन्द्रैः
मेरुः स्थिरौ यस्य चलौ पादौत्रिकोन्नतं संहतमासनञ्च ।स वाजिवाहः प्रथितः पृथिव्यांशेषा नरा भारकरा हयानाम्
*
तत्र ताडनविधिः ।“रक्तकोष्ठे मुखे चौष्ठे गले पुच्छे ताडयेत् ।भीते वक्षःस्थलं हन्याद्वक्त्रं चोन्मार्गगामिनः
कुपिते पुच्छसंस्थानं भ्रान्ते जानुद्बयं तथा ।सर्व्वस्याप्राप्तदण्डस्य दण्डमेकं निपातयेत्
अस्थानदण्डपाताच्च बहुदोषः प्रजायते ।तस्मान्निरीक्ष्य कर्त्तव्यं हये दण्डनिपातनम्
*
अथ घावनविधिः ।“हस्तैश्चतुर्व्विंशतिभिर्द्धनुर्द्दण्ड उदाहृतः ।अक्ष्णोर्निमेषणान्यष्टौ मात्रा प्रोक्ता विचक्षणैः
मात्राषोडशकेनाश्वो यो धावति धनुःशतम् ।तमुत्तमोत्तमं विद्याद्वायुवेगं महाजवम्
विंशत्या मध्यम्ये ज्ञेयो ह्यतोऽन्ये चाधमा मताः ।नभस्याश्वयुजे मासि नैवाश्वान् वाहयेन्नृपः
वज्राग्निसदृशं पित्तं श्रमात् कुप्यति वाजिनाम् ।कार्य्येण महता वापि योज्यो मासि तु कार्त्तिके
हेमन्ते शिशिरे योगो वसन्ते यदृच्छया ।बालं वृद्धं कृशं रुग्नं दत्तस्नेहं वृहद्वलिम्
पूर्णातिरिक्तकोष्ठञ्च गुर्व्विणीञ्च वाहयेत्
*
अथ रक्तमोक्षणविधिः ।“द्वासप्ततिसहस्राणि नाडीनां सम्भवन्ति हि ।वाजिनामिह सर्व्वेषामाशु रक्तं व्यवस्थितम्
तासां निर्मोक्षणार्थाय द्वाराण्यष्टौ वदाम्यहम् ।यैर्याति कुत्सितं रक्तं सर्व्वदेहसमुद्भवम्
कण्टे कक्षे लोचनयोरंसयोश्च मुखे तथा ।अण्डयोरथ पादेषु पार्श्वयोरुभयोरपि
एतद्वर्त्म सुविज्ञेयं वाजिनां भिषगुत्तमैः ।अन्ये सप्तदशान्याहुः सिराद्वाराणि वाजिनः
येषु रक्तं हृतं सद्यः प्रकरोति ततः सुखम् ।गुल्फे गले तथा मेढ्रे कक्षान्ते चैव पत्रके ।गुदे पुच्छेऽथ वस्तौ जङ्घयोः सर्व्वसन्धिषु ।जिह्वायां चाधरे चौष्ठे नेत्रयोरुभयोरपि
कर्णमूले मणौ गण्डे रुधिरं स्रावयेद्भिषक् ।सौश्रुतमानपलेन त्याज्यं रक्तं तुरङ्गप्रमाणम्
”तद्यथा, --“षलं शतं मुखे त्याज्यं कक्षयोश्चैकमेव ।शतार्द्धं नेत्रदेशाच्च मेढ्रदेशात्तथैव
गण्डयोरण्डयोश्चैव स्रावयेत् पञ्चविंशतिम् ।द्वादशैव गुदे प्राहुरश्वशास्त्रविचक्षणाः
पैत्तिकं कालिकं विद्याद्वाते विद्यात् सफेनिलम् ।पिच्छिलं श्लेष्मलं पाण्डु कषायोदकवच्च यत्
*अथ ऋतुचर्य्या ।“न प्राज्ञो वाहयेदश्वान् प्रावृट्काले कथञ्चन ।यदीच्छेदमृतन्तस्य वाहनं दशमासिकम्
कूपोदकं कटुकतैलनिवातगेहंशस्तं पलार्द्धलवणं दिवसान्तरेण ।तत्रान्यथा सति मुखामयवीर्य्यहानि-र्मुख्यैबलैर्व्विरहितस्तु वयो विनश्येत्
शरदि गुडघृतं पयः प्रशस्तंशरदि सिताष्टपलप्रमाणमच्छम् ।मधुरमथ जलं सरोवरोत्थंघृतयुतनीलमुकुष्टकाश्च भोज्याः
हेमन्तकाले घृततैलमाषानिर्व्वातसंस्था पयो यथेच्छम् ।शनैः शनै र्वाहनकर्म्म कुर्य्याद्-यवांश्च पक्त्रा वितरेद् विधिज्ञः
शिशिरे तैलपलाष्टकं कटिस्थंदिनसप्तावधि पाययेत्तुरङ्गान् ।तदनु प्रातर्भोजयेद्यवांश्चयवयवसाश्च तथामृतस्वरूपाः
यस्य दत्ता यवा भोज्ये शिशिरे समुपस्थिते ।अकृत्वापि क्रियाः सर्व्वाः हयः सुखभृच्छति
वसन्ते संप्राप्ते निजसुखवशाद्वाहय हयान्घृतं तैलं शस्तं सकलविधिरुक्तोऽपि मतः ।पयो दद्यादस्मै सलवणमथो वाहनविधि-र्भृशं योज्यस्तेनाब्दमपि सुखमिच्छेद्धयवरः
वसन्तसमये योऽश्वः स्थाने तिष्ठति बन्धने ।तस्योत्साहः प्रणश्येत सालस्यं जायते वपुः
ग्रीष्मे घृतं क्षतजमोक्षणघर्म्मशान्ति-सुच्छायबन्धनविमर्द्दनशीततोयम् ।दूर्व्वा तृणं लघु कोमलमन्यदेवयत्किञ्चिदेवमुपयुक्तमिदं वदन्ति
*
भोजे तु हयलक्षणमन्यथा, --स्निग्धाङ्गो लघुतरलोमकस्तु पुच्छोदीर्घास्यास्थिनयनकेशपृष्ठवंशः ।रक्तोष्ठः पृथुलनितम्बभारवक्षाराजार्हो भवति तुरङ्गमः प्रशस्यः
नाभेरारभ्य देहस्तु द्बिधा पूर्व्वापरक्रमात् ।पूर्व्वकायस्थिता रक्ताः शुभाय हयसंस्थिताः
अधःकाये स्थिता रक्ता अधमत्वप्रकाशकाः ।शुक्तीनां वैपरीत्येन प्रशस्तफलमादिशेत्
*
वात्स्यस्तु ।“ब्रह्मादिजातिभेदेन हयजातिश्चतुर्व्विधा ।”तद्यथा, --“ये शुक्लाः सुविमलपुष्पगन्धा ये वाशुद्धाङ्गाः सघृणसदुष्णभोजिनो वा ।अक्रुद्धाः समरगता भृशञ्च पुष्टा-स्ते विप्राः क्षितिपतिवाहनेऽतियोग्याः
ये रक्ताः सदगुरुगन्धयोऽहता वासंरुष्टाः बहुतरभोजिनो बलाढ्याः ।अश्रान्ताः सकलगुणग्रहाः प्रवीणाविज्ञेया विधिकरजातजातयस्ते
ये पीताः खलु घृतगन्धयोऽपि ये वायेऽक्रुद्धाः कथमपि रोषशालिनो ये ।बद्धा वा बहुतरनादघोषणा वाविज्ञेया नृपवर ! वैश्यजातयस्ते
ये कृष्णाः सरुषामगन्धयोऽपि ये वाअन्यथा बहुतरताडनैरपीमे ।क्षीणाङ्गा लघुतनवोऽपि वेशहीना-स्ते शूद्राः क्षितिपतिना भृशं विहेयाः
”एतत्तु एकैकमेव लक्षणं सामुदायिकम्
“लक्षणद्वयसम्बन्धात् द्विजातिः स्यात्तुरङ्गमः ।चतुर्ल्लक्षणयुक्तस्तु दूरे त्याज्यो हयाधमः
*
अन्यत्र तु ।“सात्त्विका राजसाश्चेति तामसाश्चेति तेहयाः
ये शुद्धवर्णा भृशवेगयुक्ताअश्रान्तिभाजो बहुभोगिनश्च ।अक्रोधशीलाः समरेऽतिरुष्टा-स्ते सात्त्विका भूप ! तुरङ्गमाः स्युः
ये रक्तवर्णा गुरुवेगरोषाःकषाभिघातं हि ये सहन्ते ।येऽमी बलाढ्याः खलु दीर्घदेहा-स्ते राजसा भूप ! तुरङ्गमाः स्युः
ये कृष्णवर्णास्तनुरोषवेगाअल्पाशिनो लक्षणलक्षिताश्च ।ये दुर्ब्बलाः सर्व्वगुणैर्विहीना-स्ते तामसा भूप ! तुरङ्गमाधमाः
द्बयोर्लक्षणसम्बन्धात् द्बिगुणो वाजिमध्यमः ।त्रयाणां गुणसम्बन्धात् त्रिगुणो वाजिनिन्दितः
”पराशरसंहितायान्तु ।“पृथिव्यब्बायुतेजःखैः पञ्चभिस्तुरगाश्रितैः ।उल्वणैः पञ्चधा भेदाः परशरमता यथा
ये स्थूलाः श्रमसहदेहरूपभाज-श्चाक्लान्ता बहुतरभोजनाश्च दीर्घाः ।अक्रुद्धाः समरगतास्तु रोषभाजोभौमास्ते घनगुरुघर्घरस्वरास्तु
ये श्लथाङ्गास्तनुबलाः श्रमासहकलेवराः ।अक्रोधवेगाः सस्वप्ना आप्यास्ते तुरगाधमाः
ये वातवेगप्रतिमोग्रवेगाःशुष्का भृशं दीर्घकलेवराश्च ।अश्रान्तिभाजो वहुदूरगाश्चते वायवा वाजिवराः प्रदिष्टाः
ये क्रोधशीला भृशवेगयुक्तामुक्ता दिनात् क्रोशशतं व्रजन्ति ।ते तैजसाः पुण्यवतां प्रदेशेभवन्ति पुण्यैरपि ते मिलन्ति
एको यदा तैजससंज्ञकोऽश्वःकिं कार्य्यमन्यैस्तुरगाधमैस्तु ।शुद्धं यदा हीरकखण्डमेकंकिं कार्य्यमन्यैर्मणिभिर्विचित्रैः
उत्प्लुत्य ये वाजिवरा व्रजन्तिक्रुधा भृशं वेगसमन्विताश्च ।ये लङ्घयन्तः परिखामपारांते गागना पुण्यतमाः प्रदिष्टाः
द्वयोर्ल्लक्षणसम्बन्धात्तुरगः स्यात् द्विभौतिकः ।स्वजातिगुणभूतानां हयानां वाहनं शुभम्
शालिहोत्रादिविज्ञानात्तद्विज्ञेयं यथोत्तरम् ।असम्भवे हि दुष्टाश्वं वाहयेदिति चेत्तदा
तिलं सकाञ्चनं दद्याल्लवणं वा गुडान्वितम् ।रेवन्तं पूजयेद्वापि निजं निर्मन्थयेत्तदा
दद्यात्ताम्रपलं वापि अभावे सर्व्वकर्म्मणः
”एवमन्यत्रापि ।“काञ्चनं रजतं ताम्रं लौहमेतद्यथाक्रमम् ।ब्रह्मादिजातिदोषाणां देयमेतत् प्रशान्तये
अभावेऽपि सर्व्वेषां ताम्रेण स्यात् प्रति-क्रिया ।”इति हयपरीक्षा
*
इति भोजराजकृतयुक्तिकल्पतरुः
(“येन ज्ञानवता हिमालयतरुच्छायासुविक्रीडितम्यः स्नातो हिमपुष्पवातशिशिरे गङ्गाजले पावने ।रेमे यस्तु तुरङ्गयूथजनितैर्नानाविधैर्हेषितैःपायाद्वः तुरङ्गघोषतनयः श्रीशालिहोत्रोमुनिः
जयति पाण्डवनाथो धर्म्मसनाथो युधिष्ठिरोनृपतिः ।भीमार्ज्जुनसहदेवास्तदनु ये वाजिशास्त्रतत्त्वज्ञाः
दृष्ट्वा सम्यङ्नकुलः शास्त्रं कृत्स्नं शालि-होत्रीयम् ।ब्रूते शास्त्रार्थमन्यच्छास्त्रं कृत्वा समासेन
प्रश्नो जातिवर्णमावर्त्तदन्तालक्षं वेगा वाहनं धातुरस्रम् ।कालो नस्यं पिण्डमाज्यं कषायंशालां चेष्टां वाजिनामत्र वक्ष्ये
सपक्षा वाजिनः सर्व्वे सञ्जाता व्योमचारिणः ।गन्धर्वेभ्यो यथाकामं गच्छन्ति समन्ततः
तान् दृष्ट्वा जवसम्पन्नानसह्यान्वाहनोचितान् ।शक्रः प्रोवाच पार्श्वस्थं शालिहोत्रं मुनीश्वरम्
नास्त्यसाध्यं मुने ! किञ्चिद्भवतो भुवनत्रये ।तस्मादाशु कुरुष्व त्वं वाहनार्हान् हयोततमान्
ये मे युद्धकालेषु प्रवहन्ति रथं सदा ।अशक्यं वारणेन्द्रैश्च दानवैर्बलवत्तरैः
ईषिकास्त्रं समुत्सृज्य पक्षच्छेदं व्यधात्तदा ।वाजिनां शक्रवाक्येन शालिहोत्रो महामुनिः
च्छिन्नपक्षास्तु ते सर्व्वे गत्वा तमृषिमब्रुवन् ।दीनाः सुदुःखसम्पन्ना रुधिरेण परिप्लुताः
भगवन् ! किं निमित्तं नः पक्षच्छेदः कृतस्त्वया ।अपराधविहीनानां नेदृगिच्छन्ति पण्डिताः
तस्माद्गतिर्भव प्राज्ञ ! सर्व्वेषामिह वाजिनाम् ।यथा स्यात् सर्व्वदा सौख्यं पुष्टिश्च मुनिपुङ्गव !
अथासौ कृपयाविष्टस्तानुवाच सुदुःखितान् ।इन्द्रादेशात् कृतं सर्व्वं भवतां पक्षपातनम्
तस्माद्वः प्रकरिष्यामि भविष्यति यथासुखम् ।पुष्टीरम्या यथा देहे गौरवं जगत्त्रये
यूयं शक्रादिदेवानां वाहनत्वं करिष्यथ ।तथा भूमिपीतनाञ्च गौरवेण समन्विताः
यो राजा भवतां पुष्टिं स्वन्नपानादिभिः सदा ।करिष्यति सन्देहो भविष्यति दुर्ज्जयः
नं त्यक्ष्यति तं लक्ष्मीः कदाचिज्जयलक्षणा ।अपि सर्व्वैर्गुणैर्हीनं बहुशत्रुभिरावृतम्
तथा चैव विधास्यामि परमञ्च चिकित्सितम् ।पुष्ट्यै रोगनाशार्थं नराणां विहितं यथा
तस्माद्गच्छत भूलोकं पातालञ्च तथापरे ।स्वर्गं चान्ये मदादेशाद्येन शान्तिर्भवेद् ध्रुवम्
एवं विसृज्य तान् सर्व्वान् शालिहोत्रस्तुरङ्गमान् ।चक्रे द्वादशसाहस्रीं तदर्थे संहितां सुधीः
ततःप्रभृति लोकेऽस्मिन् वाह्या जातास्तुरङ्गमाः ।ततश्चिकित्सितं तेषां शालिहोत्रप्रभाषितम्
”इति श्रीनकुलकृतेऽश्वचिकित्सिते प्रश्नो नामप्रथमोऽध्यायः
अथ जातिः ।“उत्तमा मध्यमा नीचाः कनीयांसस्तथापरे ।चतुर्धा वाजिनो भूमौ जायन्ते देशसंश्रयात्
ताजिकाः खुरशाणाश्च उत्तराश्चोत्तमा हयाः ।गोजिकाणाश्चकेकाणाः प्रौढाहाराश्च मध्यमाः
भाण्डजाश्चोत्तमाशाश्च राजशूलाश्च मध्यमाः ।गोर्ह्वराः शावराश्चैव सिन्धुपाराः कनीयसः
अन्यदेशोद्भवा ये नीचनीचाश्च ते स्मृताः ।वाजिनो जलजाः केचिद्वह्निजातास्तथापरे
समीरप्रभवाश्चान्ये उलूकमृगजास्तथा ।जलोद्भवा द्विजातीयाः क्षत्रिया वह्निसम्भवाः
समीरप्रभवा वैश्या एणोलूकाश्च शूद्रजाः ।विवेकी सघृणो विप्रस्तेजस्वी क्षत्रियो बली
दुष्टभावस्तथा वैश्यः शूद्रो निःसत्वकातरः ।ब्राह्मणाः सामवाही भेदवाही क्षत्रियः
उपादानेन वैश्यः स्याच्छूद्रो दण्डेन ताडितः ।पुष्पगन्धः सदा विप्रः क्षत्रियोऽगुरुगन्धकः
घृतगन्धः सदा वैश्यो मीनामोदी शूद्रकः ।विप्रार्हा वाजिनः सर्व्वे क्षत्रियो भूपतेः सदा
द्वौ वैश्यस्याथ शूद्रस्य शूद्र एव सुखावहः ।केचिदिच्छन्ति भूपानां सर्व्वेऽश्वा वाहनोचिताः
तदर्थं भूतले यस्माच्छालिहोत्रेण निर्म्मिताः ।ब्राह्मणाः क्षेमकृत्येषु सिद्धिं गच्छन्ति वाजिनः
क्षत्रिया युद्धकार्य्येषु वैश्या वित्तार्ज्जने सदा ।शूद्राश्चान्येषु कृत्येषु ज्ञात्वैवं वाजिनः सदा
आरोहेत् सर्व्वकार्य्येषु यदीच्छेच्छाश्वतीं श्रियम् ।सदा शुभा भवन्त्येते वाजिनो यस्य भूतले
सदैव निद्रावशगा निद्राच्छेदस्य सम्भवः ।जायते सङ्गरे प्राप्ते कर्करस्य भक्षणे
प्रबुद्धाः कथयन्त्यश्वाः शुभं वा यदि वाशुभम् ।स्वस्वामिनो निजैश्चिह्नैस्तद्विज्ञेयं विचक्षणैः
यः सन्नद्धो हयो रावमूर्ध्वमूर्ध्वं करोति ।खुराग्रेण लिखन् भूमिं शंसति रणे जयम्
यः करोत्यसकृन्मूत्रं पुरीषञ्चाश्रुमोक्षणम् ।स शंसति पराभूतिं यश्चैवं वर्त्तते हयः
निरामिषं निशीथे यो जागर्त्ति नृपतेर्हयः ।स शंसति द्रुतन्तस्य स्थिरस्यापि प्रयाणकम्
यदा व्याधिं विना वाजी ग्रासन्त्यजति दुर्मनाः ।अश्रुपातञ्च कुरुते तदा भर्त्तुरशोभनम्
पुलकांकितपुच्छा ये जायन्ते भूपतेहयाः ।निरीक्षन्तः प्रभोर्नाशं ते वदन्ति निशागमे
शरटं रक्षयेद्यत्नात् प्रविशन्तं हयालये ।यदीच्छेच्छाश्वतीं वृद्धिं तेषाञ्चैव तथात्मनः
स्फुलिङ्गा यस्य दृश्यन्ते पुच्छदेशे वह्निजाः ।परचक्रागमाशंसी विज्ञेयो हयपण्डितैः
अश्वशालां समासाद्य यदान्तर्मधुमक्षिकाः ।मधुजालं प्रकुर्व्वन्ति तदाश्वान् घ्नन्ति कृत्स्नशः
तस्मात् सर्व्वप्रयत्नेन वाजिशालां प्ररक्षयेत् ।उपायेभ्यश्च सर्व्वेभ्यो इच्छेद्भूतिमात्मनः
ब्राह्मणान्वाचयेत् स्वस्ति नित्यं वेदविचक्षणान् ।तिलहोमस्तथा कार्य्यो जपश्च शतरुद्रियः
मन्दुरान्ते सदा धार्य्यो रक्तवक्त्रो महाकपिः ।सर्व्वपापविनाशाय वाजिनाञ्च विवृद्धये
सरघां रक्षयेद् यत्नात् प्रविशन्तीं हयालये ।यदीच्छेच्छाश्वतीमृद्धिं तेषाञ्चैव तथात्मनः
इति श्रीनकुलकृतेऽश्वचिकित्सिते जात्यधिकारेद्वितीयोऽध्यायः
अथ वर्णवर्णनम् ।“वर्णाः सप्त भवन्तीह स्रर्व्वेषां वाजिनां ध्रुवम् ।तानहं कीर्त्तयिष्यामि भेदैर्जाताननेकधा
सितो रक्तस्तथा पीतः सारङ्गः पिङ्ग एव ।नीलः कृष्णोऽथ सर्व्वेषां श्वेतः श्रेष्ठतमः स्मृतः
पट्टार्हो भूपतेर्वाजी सर्व्वश्वेतः प्रशस्यते ।तदभावे यथा प्रोक्तास्तथा श्रेष्ठाः क्रमेण
श्वेतः प्रालेयसङ्काशो रक्तः कुङ्कुमसन्निभः ।हरिद्रासदृशः पीतः सारङ्गः कर्वुरः स्मृतः
पिङ्गः कपिलकाकारो नीलो दूर्व्वाग्रसन्निभः ।कृष्णो जम्बूफलाकारः शास्त्रज्ञैः समुदाहृतः
पीताभः श्वेतपादो यस्तथा स्यात् सितलोचनः ।चक्रवाकः विज्ञेयो राजार्हो वाजिसत्तमः
सर्व्वश्वेतो हयो यस्तु भवेन्मेचककर्णकः ।स वाजी वाजिमेधार्हः श्यामकर्णः प्रकीर्त्तितः
मुखे चन्द्रकसंवीतो जम्बूफलसमाकृतिः ।श्वेतपादः विज्ञेयो मल्लिकाख्यः पूजितः
चत्वारोऽप्यसिताः पादाः सर्व्वश्वेतस्य वाजिनः ।भवन्ति यस्य त्याज्यो यमदूतः सुदूरतः
यस्य पादाः सिताः सर्व्वे पुच्छं वक्षो मुखं तथा ।मूर्घजाश्च सिता यस्य तं विद्यादष्टमङ्गलम्
भस्माभं वाजिनं जह्यात् सुदूरेण नराधिपः ।यदि वाश्छति कल्याणं वाञ्छेच्च श्रीसमुद्भवम्
यस्य रोमविभेदेन जायन्ते रोमविन्दवः ।पुष्पाख्यः परित्याज्यः सर्व्ववाजिभयावहः
यस्य पादाः सिताः सर्व्वे तथा वक्त्रञ्च मध्यतः ।कल्याणपञ्चकः प्रोक्तः सर्व्वकल्याणकृच्च सः
विमिश्रवर्णकाः सर्व्वे प्रशस्ता वाजिनः स्मृताः ।कृष्णनीलस्य मिश्रत्वमेकं मुक्त्रा सुदूरतः
यस्योत्कृष्टतरो वर्णो वृद्धिं याति शनैः शनैः ।नाशयति तथा नीचान् करोति बहून् हयान्
यस्याधमेन वर्णेन छाद्यते प्रधानजः ।विवृद्धिं गच्छता सोऽथ करोति हयसंक्षयम्
इति श्रीनकुलकृतेऽश्वचिकित्सिते वर्णो नामतृतीयोऽध्यायः
अथ आवर्त्ताः ।“आवर्त्ता विंशतिः प्रोक्ताः शालिहोत्रमहात्मना ।गात्रस्थानविभागेन तेषां व्यक्तिर्मयोच्यते
ललाटे मस्तके चैव ग्रीवायां हृदये तथा ।पादे पृष्ठे मणीबन्धे नाभिदेशे विशेषतः
स्कन्धे पार्श्वे गले वक्त्रे कुक्षौ रन्ध्रे त्रिके तथा ।आद्यास्त्रयोदशावर्त्ता विज्ञेया वाजिपण्डितैः
नासिकाग्रे ललाटाग्रे शङ्खे कण्टे मस्तके ।आवर्त्तो जायते येषां ते धन्यास्तुरगोत्तमाः
हृदि स्कन्धे गले चैव कटिदेशे तथैव ।नाभौ कुक्षौ पार्श्वाङ्गे मध्यमास्ते प्रकीर्त्तिताः
ललाटे यस्य चावर्त्तो द्वितीयस्य लिङ्गकः ।मस्तके तृतीयश्च पूर्णकुक्षिः उत्तमः
पृष्ठबंशे तथावर्त्तो यस्यैकः संप्रजायते ।स करोत्यश्वसंघातान् स्वामिनः सूर्य्यसंज्ञकः
कक्षायां जानुमेढ्रे त्रिबलौ पुच्छसन्निधौ ।पुच्छे गुह्ये बलावष्टावावर्त्ता अधमा हये
त्रयो यस्य ललाटस्था आवर्त्ता अधरोत्तराः ।त्रिकूटः परिज्ञेयो वाजिवृद्धिकरः परः
एवमेव प्रकारेण त्रयो ग्रीवां समाश्रिताः ।त्रयावर्त्तः वाजीशो जायते भूपमन्दिरे
ललाटे युगलावर्त्तौ चन्द्रार्कौ संप्रकीर्त्तितौ ।वाजिनो यदि तौ स्यातां राष्ट्रवृद्धिकरौ परौ
उपर्य्युपरि यस्य स्युरावर्त्ता अलिके त्रयः ।निःश्रेणिः सतु विज्ञेयो राष्ट्रवृद्धिकरः परः
एकोऽथवा कपोलस्थो यस्यावर्त्तः प्रदृश्यते ।वर्त्तमानः विज्ञेयः इच्छेत् स्वामिनाशनम्
कपोलाभ्यान्तथावर्त्तो विद्येते वाजिनो यदि ।तावश्विनाविति प्रोक्तौ युद्धकाले जयप्रदौ
गण्डावर्त्तो भवेद्यस्य वाजिनो दक्षिणाश्रयः ।स करोति महासौख्यं स्वामिनः शिवसंज्ञकः
तद्बद्बामाश्रयः क्रूरः प्रकरोति धनक्षयम् ।इन्द्वर्काख्यावुभौ शस्तौ नृपराज्यविवृद्धिदौ
कर्णमूले यदावर्त्तस्तन्मध्ये तथापरः ।विजयाख्यावुभौ ज्ञेयौ युद्धकाले जयप्रदौ
नासामध्ये यदावर्त्त एको वा यदि वा त्रयः ।चक्रवर्त्ती, विज्ञेयो वाजी भूपालपूजितः
कण्ठे यस्य महावर्त्त एकोऽश्वस्य प्रजायते ।चिन्तामणिः विज्ञेयश्चिन्तितार्थविवृद्धिदः
स्कन्धे पार्श्वे यदावर्त्तः भवेत् पद्मलेक्षणः ।करोति विधिवत् पद्मे स्वामिनः सततं सुखम्
शुक्त्याख्यौ तालुकान्तस्थावावर्त्तौ कीर्त्तिवृद्धिदौ ।हयस्य स्वामियुक्तस्य सदैव सुसुखावहौ
एकावर्त्तो भवेद्यस्य कक्षान्ते वाजिनो यदा ।स रणे मृत्युमाप्नोति द्वौ स्वामिविनाशनौ
जानुदेशे यदावर्त्तो वाजिनः संप्रदृश्यते ।प्रवासं सततं ब्रूते स्वभर्त्तुः क्लेशसंयुतम्
वाजी मेढ्रतलावर्त्तो वर्जनीयो महीभुजाम् ।स करोति हरेर्नाशं परचारसमुद्भवम्
त्रिवलिस्थो यदावर्त्तस्त्रिवर्गस्य प्रणाशकः ।वाजिनस्ते परिज्ञेयाः स्त्रीपार्श्वस्था भयप्रदाः
पुच्छदेशे यदावर्त्तो वाजिनः संप्रदृश्यते ।धूमकेतुरिति ख्यातः त्याज्यो दूरतो नृपैः
गुह्ये पुच्छे वलौ यस्य भवन्त्यावर्त्तकास्त्रयः ।स कृतान्तस्वरूपेण वर्जनीयस्तुरङ्गमः
अध ऊर्द्ध्वं यदा वाजी सम्पुटं स्पृशेत् क्वचित् ।यमदूतः विज्ञेयो वर्जनीयः प्रयत्नतः
हीनदन्तोऽधिदन्तश्च कराली कृष्णतालुकः ।मुशली तथा शृङ्गी षडेते स्वामिघातकाः
एकाण्डजातश्चैकाण्डो हीनाङ्गोऽप्यधिकाङ्गकः ।परित्याज्यः वाच्छद्भिरन्विष्य परमं यशः
घण्टी वदनको वाली शृङ्गी चैव चतुर्थकः ।वर्जनीयः प्रयत्नेन सर्व्वे ते पापकृतमाः
घण्टी स्वामिनं हन्ति वदनी धनसंक्षयम् ।अन्तःपुरं तथा वाली शृङ्गी राष्ट्रविनाशनः
षट्पदाभो भवेद्यश्च कृष्णतालुर्न दुष्यति ।शङ्खपादमुखो यस्तु आवर्त्तैः कुत्सितैरपि ।न दुष्यति सदावर्त्तः शालिहोत्रमतं यथा
इति श्रीनकुलविरचितेऽश्वचिकित्सितेआवर्त्ताध्यायश्चतुर्थः
अथ दन्ताः ।दन्तोद्भेदं प्रवक्ष्यामि वाजिनामायुलक्षणम् ।येन विज्ञातमात्रेण आयुर्ज्ञानं प्रचक्षते
अश्वस्तु तनुभिर्दन्तैः क्षीरदन्त इति स्मृतः ।तथा षोडशभिः कोणो प्राज्ञैर्द्बादशमासिकः
त्रिंशन्मासोद्भवाः सर्व्वे अखण्डाः परिकीर्त्तिताः ।द्वौ स्यातां द्वौ स्यातां मूर्द्धोपरि यथाक्रमम्
चतुर्भिर्वत्सरैर्दन्ताः कालिकान्ये भवन्ति ।तथान्यः सप्तमे वर्षे चतुर्थः कालिको भवेत्
अष्टमे वत्सरे प्राप्ते प्राप्ताः स्युः सार्व्वकालिकाः ।नवमे त्वथवा रेखा पीतत्वं शंसयन्ति
तथाप्येकादशे वर्षे तावत् पीतत्वमागताः ।तिष्ठन्ति दशनास्तेषां वाजिनामप्यसंशयम्
ततः श्वेताः प्रदृश्यन्ते यावद्वर्षजयं पुनः ।ततः काचप्रभाः सम्यक् यावत् संवत्सरास्त्रयः
ततः सप्तदशादूर्द्ध्वं यावद्वर्षाणि विंशतिः ।भक्षिकाभारदास्तेषां यावद्वर्षत्रयं पुनः
तस्मादुदूखलं प्राप्तास्तावद्वर्षत्रयं पुनः ।प्रकम्पञ्च समागम्य पश्चात् पातः समात्रयम्
द्वात्रिंशद्वत्सरैरेव वाजी निर्व्वाणमाप्नुयात् ।दंष्ट्राचतुष्टयं श्वेतं वक्रेण परमायुषि
अश्वानामेव सर्व्वेषां दन्ता द्वादश कीर्त्तिताः ।कालिका हारिणी शुक्ला काचा वाप्यथ मक्षिका
शङ्खोदूखलकञ्चैव दन्तानाञ्चलनं तथा ।ततस्तु पतनं विद्यादेष व्यञ्जनसंग्रहः
चतुर्विंशतयो दंष्ट्राः शालिहोत्रमतं तथा ।एवं दन्तविशेषेण सर्व्वेषामिह वाजिनाम् ।विज्ञेया चायुषःसंख्य्या वाजिपोषणतत्परैः
इति श्रीनकुलकृतेऽश्वचिकित्सिते दन्तोद्भेदोनाम पञ्चमोऽध्यायः
अथ अवयवप्रमाणम् ।दीर्घसूक्ष्मविमांसास्या ये भवन्ति तुरङ्गमाः ।ते शस्ताः पार्थिवेन्द्रस्य यानवाहनकर्म्मणि
स्कन्धमभ्युन्नतं दीर्घं वक्रग्रीवं विशेयतः ।चमरालङ्कृतं सम्यक् स्तोकबालसमन्वितम्
येषां पृष्ठं सुवंशं स्याद्विपुलं व्रणवर्जितम् ।किञ्चिन्मध्ये भवेन्निम्नं राजार्हास्ते तुरङ्गमाः
स्निग्धरोमा सुवृत्ता सुस्थूला विपुला कटी ।ग्रथिताः सुदृढा रम्या भुजा मांसप्रपूरिताः
पादा निर्मांसला वक्राश्चक्राकारखुरान्विताः ।अप्रमाणं तथा वक्षः कर्णौ लघुतरौ स्मृतौ
पार्श्वौ तनुतरौ शस्तौ सुरसस्निग्धतालुकम् ।दन्ताश्च शिखराकारा विपुला चन्द्रवर्च्चसः
सप्तविंशप्रमाणेन मुखमश्वस्य शस्यते ।कर्णौ षडङ्गुलौ प्रोक्तौ तालुंकं चतुरङ्गुलम्
चत्वारिंशच्च सप्ताढ्याः स्कन्धाः सम्यक् प्रकी-र्त्तिताः ।पृष्ठवंशश्चतुर्व्विंशः सप्तविंशा तथा कटी
अतिसूक्ष्मं तथा निम्नं पुच्छं हस्तद्वयायतम् ।लिङ्गं हस्तप्रमाणञ्च तथान्तौ चतुरङ्गुलौ
मार्गस्थानं चतुर्व्विं शं हृदयं षोडशाङ्गुलम् ।कटिकक्षान्तरञ्चोक्तं चत्वारिंशत् प्रमाणतः
मणिबन्धद्बयं चैव खुराश्च चतुरङ्गुलाः ।अशीत्यङ्गुल उत्सेघो दैघ्येञ्च द्ब्यधिकं शतम् ।एवं क्रमेण गात्रस्य प्रमाणं वाजिनां मतम्
दीर्घाणि चत्वारि तथोन्नतानिचत्वारि रक्तानि सूक्ष्मकाणि ।ह्रस्वानि चत्वार्य्यथ चायतानिभूयश्च चत्वार्य्यथ नम्रकाणि
द्वात्रिंशत् क्रमशोऽप्याहुर्ल्लक्षणानि मुनीश्वराः ।तान्यहं कीर्त्तयिष्यामि वाजिनाञ्च पृथक्पृथक्
आस्यं भुजौ केशकृकाटिकाश्चदीर्घं चतुष्कं तुरगस्य शस्तम् ।तथोन्नते घ्राणपुटे ललाटेशफाश्च तज्ज्ञाश्चरणौ वदन्ति
ओष्ठौ जिह्वाप्यथ तालुकञ्चमेढ्रं सुरक्तं शुभदं हयस्य ।लघूनि बन्धाश्चरणेषु कोष्ठंश्रोत्राणि सर्व्वाणि तथैव पुच्छम्
कर्णान्तरं कर्णसमन्वितञ्चवंशं तथा ह्रस्वतरं प्रशस्तम् ।वक्त्रं मुखं कन्धराजानुनी चपार्श्वञ्च सप्तेः शुभदं प्रदिष्टम्
कक्षान्तरं चोदरमध्यमञ्चनिम्ना कटी तानि सजानुकानि ।वक्षःशफोरूजघनस्थलञ्चचतुष्कमेतत् पृथुलं प्रदिष्टम्
इति श्रीनकुलकृतेऽश्वचिकित्सिते सर्व्वावयव-प्रमाणो नाम षष्ठोऽध्यायः
अथ वेगः ।गुणानामिह सर्व्वेषां गुणो वेगमयोऽधिकः ।अश्वानां शस्यते तज्ज्ञैरश्वज्ञानविचक्षणैः
संवाहनविधानेन प्रकाशं यान्त्यसंशयम् ।तस्मात् सर्व्वप्रयत्नेज वेगो ज्ञेयश्च वाजिनाम्
अवाहिता विनश्यन्ति विनश्यन्त्यतिवाहिताः ।अश्वानां वाहनं पथ्यं सानुरागञ्च मोक्षणम्
अधमा मध्यमास्ते स्युर्मध्यमाश्च तथोत्तमाः ।उत्तमाश्चोत्तमा भूयो वाह्यमानास्तुरङ्गमाः
रूढमश्वविदां श्रेष्ठं रूढे सर्व्वं प्रतिष्ठितभ् ।रूढेन तु विहीनस्य लक्षणं चाप्यलक्षणम्
रूपावर्त्तगतिच्छायासत्ववर्णवयोबलम् ।जवहीनस्य वाहस्य सर्व्वमेव निरर्थकम्
गतेर्धन्यतरो वर्णो वर्णाद्धन्यतरः स्वरः ।स्वराद्धन्यतरं सत्वं सर्व्वं सत्वे प्रतिष्ठितम्
लघुत्वं मातृदोषेण पितृदोषेण जाड्यता ।दौर्ब्बल्यं स्वामिदोषेण स्वदोषो नास्ति वाजिनाम्
जवो हि सप्तेः प्रथमं विभूषणंत्रपाङ्गनायाः कृशता तपस्विनः ।द्विजस्य वेदोऽथ सुनेरपि क्षमापराक्रमः शस्त्रबलोपजीविनः
आकर्षन्निव गां वभन्निव खुरौ पश्चार्द्धमुद्यन्निवस्वीकुर्व्वन्निव खं पिबन्निव दिशो वायुं समश्नन्निव ।साङ्गारप्रकरान् स्पृशन्निव महीं छायाममर्षन्निवचञ्चच्चामरवीज्यमानवदनः श्रीमान् हयो धावति
अलक्षितगतागतैर्मृगदृशां कटाक्षैरिवक्षणानुनयशीतलैः प्रलयकेलिकोपैरिव ।सुवृत्तमसृणोत्तरैर्गृगदृशामुरोजैरिवत्वदीयतुरगैरलं धरणिचक्रमाक्रम्यते
येषां दीपशिखोपमानि नयनान्युद्धावितः सन्निवग्रीवा क्रौञ्चनिभा विभाति समा पादाश्चमुद्गोपमाः
वेगो वायुरिवाथ वानरसमः स्याद्बारणप्रेङ्क्षितंशङ्खक्रौञ्चमृगेन्द्रदुन्दुभिघनव्याघ्रेभतुल्यस्वनः
वक्त्रे यो हरिणाधिपप्रतिनिभो व्याघ्रोपमोबाहुभिःआवर्त्तेऽश्वशुभैः प्रधानकुलजाः सुस्निग्धवर्ण-प्रभाः ।उष्ट्राक्षाः प्रियदर्शनाश्च सुभगाः श्वासैःसुगन्धैश्च येधन्यास्ते जयराज्यवित्तसुखदाः संवाहकाभूपतेः
इति श्रीनकुलकृतेऽश्वचिकित्सिते वेगवर्णनो-नाम सप्तमोऽध्यायः
अथ आरोहणम् ।अथातः संप्रवक्ष्यामि हयारोहणमुत्तमम् ।येन विज्ञानमात्रेण रेवन्तेनोपमीयते
चलकिसलयपादः कर्णमध्यैकदृष्टिःन चलति कटिदेशे आसने संस्थितश्च ।हयहृदयगतिज्ञः स्थानदण्डावपातीस खलु तुरगयोक्ता मान्यते पार्थिवेन्द्रैः
यो नित्यं दृढमुष्टिहस्तलघुकः क्रोधानलैर्वर्ज्जितःसत्यैकस्थिरबुद्धिमध्यमतनुः शास्त्रस्थतत्त्वज्ञकः ।काले दण्डनिपातविश्रमयुतः ताम्बूलवक्त्रान्वितःत्वेवं लक्षणसंयुतो हयरुहो राज्याधिपैः पूज्यते
ऊरू स्थिरौ यस्य चलौ पादौत्रिकोन्नतं संहतमासनञ्च ।स वाजिवाहः कथितः पृथिव्यांशेषा नरा भारवहा हयानाम्
प्राज्ञः सत्त्वबलोत्साही दृढः सर्व्वाङ्गसौष्ठवः ।जितशीतातपालस्यो जितायासो जितासनः
हयकालबलप्राणजवकामाध्वयोगवित् ।शान्तोपचारसारज्ञो रणक्रीडासु दीक्षितः
वाजिनां हृदयज्ञश्च स्थाने दण्डनिपातवित् ।दुष्टाश्वदमने दक्षः सर्व्वक्लेशसहः शुचिः
ग्रासौषधान्नपानीये परव्यूहावलोकने ।त्रिषु श्रेष्ठः प्रवेशे निर्गमे कुशंलोऽस्त्रवित्
रोगं विकुरुते यश्च वृत्त्या वाधाविचारवित् ।धनुःकुन्तासिशक्तिज्ञः सोऽश्ववाहः प्रकीर्त्तितः
वक्त्रे स्कन्धे मुखे कोष्ठे गात्रे सक्थौ ताडयेत् ।उन्मार्गो यदि भ्रष्टोऽश्वो मूढः स्खलति ह्रेषते
कुपिते पुच्छसंस्थाने भ्रान्ते जानुद्बयं तथा ।सर्व्वथा प्राप्तदण्डस्य दण्डमेकं निपातयेत्
ह्रेषणे स्कन्धमुद्दिष्टं स्खलिते जघनान्तरम् ।भीते वक्षःस्थलं हन्याद्वक्त्रञ्चोन्मार्गगामिनम्
अस्थाने ताडितो वाजी बहून् दोषान् प्रदर्शयेत् ।तावद्भवन्ति ते दोषा यावज्जीवत्यसौ हयः
दण्डेनाभिभवेद्वाहान्नारोहेद्दण्डवर्ज्जितान् ।दण्डो हि साधनं तीव्रं पदं दण्डात् प्रजायते
तुलावदुद्धृता वल्गा नात्युच्चा नातिलम्बिता ।दोषं दृष्ट्वा तु कर्त्तव्या तिर्य्यगाकुञ्चिता श्लथा
कटिं सप्तेश्च शैथिल्याद्बहमानस्य ताडयेत् ।सद्यः प्रस्खलिते गात्रं तत्र दण्डं प्रदापयेत्
अकालदण्डपाताच्च त्वकालग्रहमोक्षणात् ।अकालहिंसाघाताच्च तेन वाजी धावति
आसनं शिथिलं यस्य स्वरो यस्य भीषणः ।लयुप्रहारदाता वाजी तस्य धावति
सर्व्वलक्षणसम्पन्नः सर्व्वदोषविवर्जितः ।कुलशीलबलोपेतः कथमश्वो धावति
गतिरेका प्लुता चान्या चतुराख्या तृतीयका ।वेगसन्धिश्चतुर्थो धारावेगगतिस्तथा
श्लथरागार्थवेषस्य चञ्चलस्य त्रिकोणतः ।नित्यमुद्यतदण्डस्य तस्य वाजी धावति
धारा तु पञ्चमी प्रोक्ता शृणोति पश्यति ।सर्व्वकर्म्माक्षमो वाजी तस्मात्तां परिवर्जयेत्
इति श्रीनकुलकृतेऽश्वचिकित्सिते आरोहणंनाम अष्टमोऽध्यायः
अथ ऋतुचर्य्या ।कर्म्मचर्य्यासु नित्यानां शुद्धान्नं सुनिवर्हितम् ।धनुरष्टादशे योज्यं वाजिनां मण्डलं क्रमात्
सङ्कोचयेज्जयं तावद् यावत् कार्म्मुकपञ्चकम् ।तदूर्द्धं मण्डलैर्योज्यो गोमूत्रात्तदनन्तरम्
ऋजुर्वृत्तानुवृत्ता गोमूत्रा सर्व्वकर्म्मसु ।युज्यमानानि दृश्यन्ते प्रायशो हि विचक्षणैः
शालिहोत्रमुनिप्रोक्ता चर्य्या षोडश वाजिनाम् ।तासामनुपयोगित्वान्न कृतः संग्रहो मया
तीक्ष्णस्त्वेकेन मुदितो द्वाभ्यां भद्रस्तु धावति ।त्रिभिर्दण्डैस्तदा मन्दः क्रमात् षष्ठाभिताडनैः
तीक्ष्णाश्वभद्रमन्दानां प्रधानो जव उच्यते ।सोऽप्यनेनैव मार्गेण संविभ्यज्यो विजानता
अवाहिता विनश्यन्ति सर्व्वकर्म्माक्षमा हयाः ।कृशा व्याधिपरीताङ्गा जायन्तेऽत्यन्तवाहनात्
बलं कालो वयो भूमिः कालः सत्त्वमतः क्रमात् ।कुर्य्यादेकान्तरे योगश्चातियोगो हि दोषवान्
तच्च लोकप्रसिद्धं हि बोद्धव्यं यत्नतो बुधैः ।हयवाहनवैज्ञानी नरेन्द्रैः पूज्यते सदा
धाविते ये गुणाः सप्तेर्वक्ष्यमाणान्निबोध तान् ।शालिहोत्रादिशास्त्राणां व्यायामफलसम्भवान्
स्थिरमांसो भारसहो लघुगात्रः पराक्रमी ।दीप्ताग्निश्च सुशीलश्च व्यायामेनोपजायते
सत्यार्थो विनयी प्रीतो निर्द्दोषस्तापवर्जितः ।वेदवित्सादिचित्तज्ञ उक्तो धावति तिष्ठति
सुभावर्त्तगतिच्छायाबलशीलसमन्वितम् ।गन्धवर्णस्वरोत्कण्ठसारपुण्ड्रविभूषितम्
एवं विधं समारुह्य देवतांशं हयं नृपः ।जित्वा रिपुकुलं भुंक्ते निःशङ्कोऽथ वसुन्धराम्
जवः श्रेष्ठस्तुरङ्गानामुत्तमाधममध्यमः ।त्रिविधोऽपि तथा भिन्नो जवभेदः उच्यते
यवोदरैरष्टसङ्ख्यैरङ्गुलं परिकीर्त्तितम् ।हस्तश्च तैश्चतुर्विंशैः कार्म्मुकं तैश्चतुर्गुणैः
अक्ष्णोर्निमेषणैः काष्ठा अष्टलघ्वक्षरं तथा ।मात्रा ज्ञेया प्रमाणैश्च पूर्व्वप्रोक्ता तपोधनैः
मात्राषोडशकेनाश्वो यो धावति धनुःशतम् ।तमश्वमुत्तमं विद्याद्बायुवेगं महाजवम्
यथोत्तमजवा वाहास्तथाश्वा मध्यमाधमाः ।चतुरस्त्र्यधिकां वृद्धिं मात्राणां लक्षणं बुधाः
नभस्यश्वयुजे मासि भाराध्वानं जवं त्यजेत् ।वज्राग्निसदृशं पित्तं श्रमात् कुप्यति वाजिनाम् ।कार्य्येणैव महान् किञ्चिद् युज्यो नभसि कार्त्तिके
हेमन्ते शिशिरे योगं वसन्ते यथेच्छया
श्लेष्मक्षयात् श्लथं गात्रं ग्रीष्मे वाहयेद्धयम् ।बालो वृद्धः कृशो रोगी दन्तस्नेहो महाबली
पूर्णातिरिक्तकोष्ठञ्च गुर्व्विणीं वाहयेत् ।समां विपुलाञ्चैव किञ्चित्-पांशुसमन्विताम्
एकान्ते विजने चैव रङ्गभूमिं हयं नयेत् ।सान्द्राञ्चैव सुकठिनां पाषाणोदकगर्त्तिकाम्
तृणकाष्ठसमायुक्तां रङ्गभूमिं विवर्ज्जयेत् ।विण्मूत्रं कारयेदश्वं क्रोशक्रोशद्वयान्तरे
वारि दद्याद् यथाकामं घासं मुष्टिञ्च चारयेत् ।अन्यथा दोषजातानि वक्ष्याम्येतानि तावतः
गुरुविस्रब्धगात्रश्च छिन्नश्वासी कम्पते ।दुर्म्मना रुद्धविण्मूत्रः सर्व्वकर्म्माक्षमो हयः
गूढमेढ्रोन्नतग्रीवो रक्तमेही गुरुक्लमः ।क्षुत्तृष्णावृतशुष्कास्यश्छायां प्राप्य वितिष्ठति
तर्जनैर्हन्यमानोऽपि विधुनोति शिरः परम् ।मुहुर्विनमते पृष्ठं पदमेकं गच्छति
भाराध्वानपरिश्रान्तं शनैः संक्रामयेत् पथि ।नावतारितपर्य्याणं मार्गेऽध्वानसमागतम्
मुक्तपुच्छाग्रबन्धस्य खलीनं नावतारयेत् ।मर्द्दयित्वास्य गात्राणि पांशुमध्ये विवर्त्तयेत्
स्नानपानावगाहञ्च प्रतिपानं सभोजनम् ।सर्व्वं क्रमेण कर्त्तव्यमन्यथा दोषसम्भवः
रक्तपित्तसमीरोत्थमन्यास्तम्भोदरादयः ।हृद्रोगा वातशूलानि शीतोष्णोदकपानतः
रक्तपित्तहरं देयं प्रतिपानं गुडौदनम् ।रक्तपित्तसमीरोत्थं दातव्यं शर्करोदकम्
जीवनं वातपित्तघ्नं वृष्यं बल्यतमं ततः ।सर्व्वरोगहरोऽश्वानां मधु जाङ्गलको रसः
स्वच्छाक्तञ्च घृतं क्षीरं वारियुक्तं तुरङ्गमः ।पीत्वा हि निर्हरेद्दोषान् श्रमभाराध्वसंश्रवान्
धर्म्मार्थकामा विजयो यशःश्री-शोभासुखं जातिजनैश्च पूज्या ।रणे निमित्तानि शुभावहानिनृपस्य चैवं विनिवेदयन्ति
प्रत्यूषकाले दिनं निरीक्ष्यवह्निं द्बिजं पूर्णघटं कुमारीम् ।छत्रं ध्वजं चामरदर्पणञ्चरुष्टञ्च दृष्ट्वा तुरगं जयाय
श्रुत्वा तु शङ्खाम्बुदवेदवाक्यंपुण्याहमाङ्गल्यशिवस्य गीतम् ।ह्रेषं निमित्तं भवति स्वनेनध्रुवं जयं तत्र रणे नराणाम्
सन्ध्याङ्घ्रिघातेन महीं निहन्तिह्रेषन्ति ये स्वामिमुखं निरीक्ष्य ।प्रदक्षिणावर्त्तविकीर्णपुच्छाजयावहास्ते समरे नृपाणाम्
विच्छन्नदीनस्वरगद्गदा येअश्रुप्लुता भिन्नपुरीषमूत्राः ।अनरुपमाना दिनकृन्निरीक्ष्याःपराजयं ते कथयन्ति युद्धे
अन्यापदं याञ्च वदन्ति दीनाःसव्येतरं चक्रविकीर्णपुच्छाः ।युग्यासनादीन् परिवर्जयन्तेपराजयं ते कथयन्ति भर्त्तुः
विना निमित्तं रसयन्त्यभीक्ष्णंआकुञ्चिता व्यापितमक्षिकाङ्गाः ।ध्यायन्ति धातैश्च चोद्बिजन्तेभयावहास्ते समरे नृपाणाम्
शोकं शीलं भयं लज्जामालस्यं चैवमादिषु ।सुकुलं तं विजानीयादलं पर्य्याणवारणे
स्याणुकण्टकवृक्षैश्च सुधाखदिरकण्टकैः ।स्वामिघाताय चादत्ते तेषां रूपमिदं शृणु
वानरोलूकमार्जारतरक्षुगण्डलोचनाः ।गतिर्वा असुरैस्तुल्या स्थूलमेढ्रशिरान्विताः
लम्बौष्ठकर्णनासाश्च कृत्स्नहीनाधिकद्बिजाः ।विच्छिन्नप्रोथगण्डा ये भ्रुकुटीचित्रमेहनाः
एते दोषास्तथान्येऽपि सुकुलाश्वसमुद्भवाः ।खलाजामिह राजेन्द्र ! वक्तुं शक्या मादृशैः
लक्ष्यं प्रधानमित्येके चान्ये लक्षणमाश्रिताः ।लक्ष्यलक्षणमेतेषां तेनेदं दुष्करं विदुः
अव्याप्तिरतिसंक्षेपादतिव्याप्तिश्च विस्तरात् ।मुनीनामेकवाक्यत्वाद् ब्रूयामः स्थितिदुष्कराः
सत्ववर्णगतिछायास्वरस्थानगतिः कुलम् ।पुष्पं पुण्ड्रकनामानि दोषं वा जवलक्षणम्
एवं लक्षणसंयुक्तं दृश्यते शूररक्षणे ।लक्षणेन विहीना ये निर्द्दोषाःस्युः प्रधाविताः
हयरोहस्य का चिन्ता लक्षणैः शुभनिन्दितैः ।तेनात्र कृतोऽस्माभिर्हयलक्षणविस्तरः
हयवाहनविज्ञानं कौतुकाहितबुद्धयः ।अनायासेन गृह्णन्ति परं हृष्टा इमे जनाः
चलासनं कषा रागाः पाणिघातप्रतोदनम् ।पदप्रघातसंज्ञानि दोषो यैरुपजायते
कामात् कोपाद्भयान्मोहाद्दर्पाच्चैव मदाश्रयात् ।पर्य्याणारोहदोषाच्च दुष्यन्तेऽश्वा निसर्गतः
श्रीयुक्तसामन्तनरेन्द्रवन्दितंरणे हयारोहवराभिनन्दितम् ।धर्म्मार्थकामादियशःप्रधान-मित्थं कृतं वाहनशास्त्रविस्तरम्
इति श्रीनकुलकृतेऽश्वचिकित्सिते वाहना-ध्यायो नवमः
अथ धातुपरीक्षा ।अथातः संप्रवक्ष्यामि धातूनां लक्षणं परम् ।येन विज्ञानमात्रेण ज्ञायन्ते रोगसम्भवाः
ततः शुद्धशरीरोत्थरक्तदोषानवाप्नुयात् ।रक्तदोषात्तदा वाजी प्राप्नोत्येव महामयान् ।तस्मात् सर्व्वप्रयत्नेन रक्तं ज्ञेयं विचक्षणैः ।आषाढसमये प्राप्ते शिरामोक्षेण कृत्स्नशः
तेन संशोध्यते रक्तं वाजिनां दोषसम्भवम् ।ततः शुद्धशरीरोऽथ पिण्डाद्यैश्च बलीकृतः
स्रावणे शष्पमासाद्य वज्रवत् सुदृढो भवेत् ।यदि रक्ताधिको वाजी शस्यमश्नाति कर्हिचित्
रक्तात् सञ्जायते पित्तं ततो नाशमवाप्नुयात् ।रक्ताधिकश्वासपुटः स्नेहाद्यैः शस्यमत्ति चेत्
संप्राप्य श्लेष्ममरिचाद्धयो नाशमवाप्नुयात् ।हीनरक्तो यदा शस्यं रूक्षोऽश्नाति तुरङ्गमः
तदा पायुं परं प्राप्य सद्यो नाशमवाप्नुयात् ।तत्रेदं लक्षणं प्रोक्तं रक्तकोपसमुद्भवम्
धातूनामवि सर्व्वेषां ज्ञेयञ्चिह्नं विचक्षणैः ।पित्तरक्तप्रकोपेण यदा संपीड्यते हयः
तदा कण्डूतिमासाद्य कषते सततं वपुः ।छायां वाञ्छति यत्नेन विशेषेण जलाश्रयम्
मुहुर्वाञ्छति पानीयमाहारञ्च विशेषतः ।एवं वातोत्थरक्तेन ज्ञात्वाश्वम्पीडितं ततः
शिरामोक्षं विधायैव दद्यात् सकटुकं गुडम् ।ततः शुद्धिमवाप्नोति नीरोगः संप्रपद्यत्रे
पित्तासृग्दूषितो वाजी यदि चाश्रूणि मुञ्चति ।नेत्रान्ते पाण्डुरत्वञ्च सद्यो मृत्युमवाप्नुयात्
नेत्रयोर्ल्लक्षणं प्रोक्तं पित्तरक्तसमुद्भवम् ।श्लेष्मरक्तप्रकोपेण यदा सम्पीड्यते हयः
अधोवक्त्वो भवेन्नित्यं कासते मुहुर्मुहुः ।आहारं गृह्णाति नीत्साहं कुरुते क्वचित्
विन्दति कशाघातं पार्ष्णिं चासनम् ।नासाग्रेण क्षिपेत्तोयं वहिर्घर्म्मञ्च वाञ्छति
तस्यापि शोधयित्वासृग् दद्याच्छुण्ठ्या युतं गुडम् ।सर्व्वं रक्तं ततः शुद्धा निःशेषं समवाप्नुयात्
वाजिनः श्लेष्मरक्ताभ्यां दूषितस्य सदा भवेत् ।नेत्रान्ते बिन्दुकाकारकण्डूस्तस्य तथोदरे
तदा मृत्युमवाप्नोति षण्मासाभ्यन्तरे ध्रुवम्
शुण्ठ्यामृता गोक्षुरकं घनञ्चश्यामावचाहिङ्गुयुता यष्टिः ।कफप्रणाशाय विनिर्मितोऽयंपिण्डः प्रसिद्धश्च कफापहश्च
नोचेदश्नाति शुण्ठ्याढ्यं सैन्धवं नस्यमार्गतः ।वायुरक्तप्रकोपेण पीडितस्तु तुरङ्गमः
कुक्षिद्वये हयस्तीव्रं मुहुः श्वासं प्रमुञ्चति
नैकत्र मन्यते स्थातुं ह्रेषते निरर्गलम् ।एवं वातोद्भवं ज्ञाप्यं रक्तन्देहे हयस्य
शोधयित्वाथ सन्दद्यान्महाघृतमनल्पकम् ।ततः शुद्धिमवाप्नोति परां पुष्टिञ्च गच्छति
उत्साहं कुरुते मार्गे सर्व्वदोषविवर्ज्जितः ।वातरक्तप्रकोपेण लोचनान्ते हयस्य
यदा स्यातां सिते रक्ते काशः कण्डूस्तथानने ।तदा तस्य भवेन्मृत्युर्यदि नाश्नाति चामिषम्
अश्मकञ्च युतन्दध्ना माहिषेण निशागमे ।सन्निपातेऽथ रक्तेन यदा सम्पीड्यते हयः
यदा वेपथुमाप्नोति काशते निरर्गलम् ।निद्रालस्याग्निमन्दत्वं वस्तौ मलनिबन्धनम्
कर्णयोः पातनञ्चैव वक्त्राल्लालाविमोक्षणम् ।तत्रापि शोधयेद्रक्तं ततो लङ्घनमर्हति
यावद्दोषस्य निर्णाशं स्तोकोदककृताशनः ।क्वचिदुष्णं क्वचिच्छीतं क्वचिद्भेषजसंयुतम्
प्रदेयं युक्तितत्वज्ञैर्वारि वार्य्यं कुत्रचित् ।सपथ्या चामृता चैव कटुका वचा तथा
शामयेत्तत्क्षणादेव त्रिधातुकुपितं ज्वरम् ।शिरीषं श्रीफलञ्चैव वेतसञ्चैव वृद्धिभाक्
मन्दाग्नित्वं सदोषाणां कुरुते भस्मसाद्द्रुतम् ।मधुकं मधुजालञ्च माधुर्य्यं कुलिकान्वितम्
शिरीषं क्षुद्रकं लाक्षां क्वाथयित्वा त्रिभागतः ।यस्यैतत् सन्निपाताय वाजिनः संप्रदीयते
तस्य तन्नाशमायाति तमः सूर्य्योदये यथा ।स्वस्थस्यापि हिनेत्रान्ते स्यातां नीले वाजिनः
गन्धश्च सदृशः क्षोण्या तदा मृत्युर्द्विमासिकः ।नीले पीतेऽथ नेत्रान्ते स्यातां चेद्वाजिनः क्वचित् ।स निर्व्वाणमवाप्नोति त्रिभिर्मासैरसंशयम्
यस्य नेत्रान्तरे रेखा बहुवर्णा प्रजायते ।विशेषात् स्वरभेदः स्यात्तस्यायुः पाञ्चमासिकम्
जिह्वायां जायते बिन्दुरकस्माद् यस्य वाजिनः ।कृच्छ्रञ्च जीवते मासं वाजी नात्र संशयः
पीतो मासद्बयेनैव सप्तेर्मृत्यं प्रयच्छति ।त्रिभिर्मासैस्तथारक्तश्चतुर्भिश्च विचित्रितः
पञ्चभिर्नीलवर्णश्च षड्भिर्व्वज्रसमाकृतिः ।सप्तभिः पाटलाकारश्चम्पकाभस्तथाष्टभिः
नवभिञ्च हरिद्राभो दशभिर्जन्तुकोपमः ।एकादशभिर्दूर्व्वाभो वत्सरेण हिमद्युतिः
यस्य श्वासो भवेदुष्णः शरीरं पुलकाङ्कितम् ।जिह्वा हिमकराकारा मासषट्कं जीवति
ग्रीवाग्रे पिण्डिका यस्य जायते तथाधरे ।मूत्रं करोति रक्ताढ्यं मासषट्कं जीवति
वर्णः श्वेतो यदां यस्य नेत्रयोश्च प्रजायते
दशमासान् समासाद्य पित्तार्त्तो जीवति ।यस्य नीलप्रभे स्यातां नेत्रे वातार्द्दितस्य तु ।मासत्रयञ्च कृच्छ्रेण यः सप्तिः जीवति
श्लेष्मयुक्तस्य वा रक्ते यदि स्यातां विलोचने ।वक्त्रगन्धः सुरातुल्यो दश मासान् जीवति
यस्य नेत्रे हरिद्राभे स्यातां पित्तार्द्दितस्य ।तस्यायुः सप्तमासाख्यं मुनिभिः परिकीर्त्तितम्
बहुवर्णे घने नेत्रे स्यातां धातुसमागमे ।तस्य सप्तेर्भवेन्मृत्युः सप्तरात्रादसंशयम्
यस्यैकं लोचनं नीलं द्वितीयं रक्तसन्निभम् ।दृश्यते विज्ञेयः पित्ताढ्यो मासजीवकः
यस्य पित्तप्रसक्तस्य काले नीरदवर्त्तिनि ।हयस्य जीवितं तावद्दिनानि दश पञ्च
एवं रक्तविकाराणां ज्ञात्वा धातुं तुरङ्गमे ।ततः प्रतिक्रिया कार्य्या उक्ता या कीर्त्तिता परा
भयादपीतपानीयशीतविश्रीयुतस्य ।आर्त्तोऽपि ताडितोऽत्यर्थं तिर्य्यग्विद्धो यदापि वा
श्रमाद्भराच्च बन्धाद्वा गात्रे वा विषमस्थिते ।क्षीणशोणितमांसस्य शिरावेधः प्रशस्यते
इति श्रीनकुलकृतेऽश्वचिकित्सिते धातु-परीक्षाध्यायो दशमः
अथ ऋतुचर्य्या ।द्वासप्ततिसहस्राणि नाडीनां हि भवन्ति ।वाजिनामिह सर्वेषां वायुरक्तं व्यवस्थितम्
तासां निर्म्मोचनार्थाय द्बाराण्यष्टौ वदाभ्यहम् ।यैर्यात्रि कुत्सितं रक्तं सर्व्वदेहसमुद्भवम्
कण्ठे वक्षसि तालौ नासयोश्च मुखे तथा ।अण्डयोरथ पादेषु पादयोरुभयोरपि
कालं बलञ्च विज्ञाय बाजिनां भिषगुत्तमः ।शिरामोक्षं प्रकुर्वीत स्थानेष्वेतेषु पण्डितः
अन्ये सप्तदश प्राहुः शिराद्वाराणि वाजिनः ।विकारयुक्तं यद्रक्तं सुस्वल्पमपि वर्जयेत्
एवं शरदि यः सम्यक् पुष्टिं नयति वाजिनाम् ।तस्य यद्बाञ्छितं किञ्चिद्यानार्थं तच्च सिध्यति
ततो हेमन्तमासाद्य निवाते निबधेद्धयम् ।गासोत्थं यवसन्दद्यात् पानीयञ्च यथेच्छया
घृतं वा यदि वा तैलं पाने दद्याद्विचक्षणः ।वाहयेच्च शनैर्नित्यं सर्व्वदोषप्रशान्तये
ततः शिशिरमासाद्य दद्यात्तैलं हि वाजिनाम् ।पलाष्टकप्रमाणेन यावद्दिनत्रिसप्तकम
यवोत्थं यवसन्दद्यादेकविंशत्यहानि ।यवाभावेऽथ चणकान् दद्यादार्द्रतरान् सदा
तदभावे मसूरांश्च शुष्कार्द्रांस्तैलसंयुतान् ।यवसं चापि तद्देयं नीरोगो जायते हयः
औषधानाञ्च सर्वेषां क्वाथानां नस्यकर्म्मणाम् ।तैलानाञ्च घृतानाञ्च यवस्य यवसं परम्
पर्व्वतानां यथा मेरुरायुधानाञ्च वज्रकम् ।तथा सर्व्वोपचाराणां सप्तेः श्रेष्ठतमा यवाः
देवतानां यथा विष्णुर्ब्रह्मा वेदविदां वरः ।नदीनाञ्च यथा गङ्गा तथा श्रेष्ठा यवा हये
यथोदितः सहस्रांशुर्निःशेषं तिमिरं जयेत् ।तथा शरीरजान् दोषान् यवाः सप्तेर्हरन्ति
उपचारक्रियाः सर्व्वाः पञ्चर्त्तुजनिता हये ।कृताः स्युर्य्यवभोज्येन सप्तेस्तस्य कृता नरैः
यस्य दत्ता यवा भोज्ये शिशिरे समुपस्थिते ।अकृतापि कृता सर्व्वा पञ्चर्त्तुजनिता हये
कृताः स्युर्य्यवभोज्येन सप्तेस्तस्य कृता नरैः ।नीरोगास्तुरगाः सर्वे शालिहोत्रमतं यथा
पञ्चर्त्तुजनिता वाथ क्रिया न्यस्ता तुरङ्गमे ।अतीतास्ते विजानीयाद्यवभोज्यविवर्जिताः
एवं रक्तविशुद्धानां कृत्वा यत्नेन वाजिनाम् ।दद्याद्गोमूत्रसंयुक्तां सतैलां हरीतकीम्
दिनं त्रिसप्तकं यावत् पलपञ्चप्रमाणतः ।ततः शुद्धिमवाप्नोति निःशेषाद्रुधिरोद्गमात्
ततो नवतृणाहारं संप्राप्य सुमनोहरम् ।परां पुष्टिमवाप्नोति नीरोगश्च प्रजायते
प्रायो वाहयेदश्वं प्रावृट्काले कथञ्चन ।य इच्छेद्बाजिनस्तस्य वाहनं दशमासिकम्
कूपोदकं सदा शस्तं पानाय जलदागमे ।अभ्यङ्गः कटुतैलेन निर्वातस्थानबन्धनम्
एकाहान्तरितं दद्याल्लवणञ्च विचक्षणः ।पलद्वयप्रमाणेन मुखजापरिशुद्वये
मुखरोगमवाप्नोति क्षारस्वादविवर्जितः ।वृष्ट्यम्भोभिस्तु सिक्ताङ्गस्तेजसा त्यज्यते हयः
अशुद्धोदकजान् प्राप्तान् प्राप्नोति शतशः परान् ।नवोदकप्रधानेन बलहीनश्च जायते ।तस्मात् सर्व्वप्रयत्नेन प्रावृट्काल उपस्थिते ।अनेन विधिना प्राज्ञो वाजिनः परिपोषयेत्
ततः शरदमासाद्य बहुखण्डसमन्वितम् ।शस्तं क्षारोदनं सप्तपलाष्टपरिसंख्यया
दुग्धं वा केवलं रात्रौ क्वथितं संप्रशस्यते ।तथान्यदपि यत्किञ्चिन्मधुरं संप्रजायते
पानाय सारसं तोयं यवसं सुमनोहरम् ।नीलवर्णमुकुष्टाश्च घृतं प्राशेन संयुतम्
वाहनं प्रयन्नेन सुस्वल्पमपि वर्जयेत्
परीक्षाग्नौ यथा हेम्नः स्नेहस्य प्रतिक्रिया ।हयजीवस्य तद्वच्च परीक्षा यवभक्षणे
यथा सांयात्रिकः पारं गत्वोच्चैः स्वस्थतांव्रजेत् ।तद्बत् यवाशनोत्तीर्णाः शुद्धदेहा हयोत्तमाः
अल्पेनापि हि छिद्रेण यथा नश्यति नौर्जले ।स्वल्पेनापि हि दोषेण यवदोषांस्तथैव
एवं ज्ञात्वा विदग्धेन यवा देयाः प्रयत्नतः ।प्राप्तक्षीरा विशेषेण शिशिरे समुपस्थिते
शुष्का वापि यवा देयाः सर्व्वकालं वाजिनाम् ।प्राणदास्ते ततो ज्ञे याः सर्व्वव्याधिविनाशनाः
यश्चाश्नाति यवानाशु शुष्कांश्च स्वेच्छया सदा ।न तस्य जायते रोगः कदाचिच्च यवान्नभाक्
शूलं श्वासो प्लीहा क्लमः ।न रक्तप्रकोपश्च वातादिधातवः
योग्योऽशनार्थं वाहानां प्रधानो यव इष्यते ।यवाभावेऽथ चणका धान्यमन्यतमं परम्
यवाभावेऽथवा दद्यान्मुकुष्टांस्तैलसंयुतान् ।भोजने तुरगेन्द्राणां परां पुष्टिमभीप्सताम्
मुकुष्टभोजनाद्बाजी पुष्टिं गच्छत्यलौकिकीम् ।उत्साहं परमं धत्ते रोगैर्विमुच्यते
अप्राप्तौ मुकुष्ठानां मुद्गा देया मनीषिभिः ।सतैलास्तेऽपि कुर्व्वन्ति पुष्टिं सत्त्वविवर्द्धिनीम्
एते पुष्टिगुणाः प्रोक्ताश्चणकाहारजा हये ।नान्यस्तस्मादभावेन सर्वेषां तान् विनिर्द्दिशेत्
नान्यद्धितं प्रशंसन्ति पञ्चमं वाजिनां बुधाः ।भक्षणार्थं यतस्तस्य दानोल्लङ्घनमुत्तमम्
अन्नाभावे प्रदातव्यं घृतं वा यदि वा पयः ।शस्यं वा मांसमेवाथ पुष्ट्यर्थं वाजिनां सदा
यस्याश्वः शस्यमश्नाति सदा लवणमिश्रितम् ।किं तस्य शस्यदानेन यथाभूतेन भूपतेः
शस्याभावेऽथ यवसं शुष्कं वा यस्य वाजिनः ।दिवानिशमरण्ये स्वेच्छया संविभुक्तिकाः
ते चापि वाजिनो ज्ञेया यथा शस्यचरास्तथा ।तथा सर्व्वप्रयत्नेन मुक्तान् सञ्चारयेद् वने
आरोग्यार्थं सुपुष्ट्यर्थमुत्साहार्थं विशेषतः ।वित्तव्ययस्य रक्षार्थं हरेद्रोगं प्रयत्नतः
वसन्तसमये प्राप्ते वाहयेत् सततं हयम् ।सनिम्बं लवणं दद्यात्ताभ्यां तैलं विशेषतः
सर्व्वत्र सम्भवं भोज्यं तैलं वा वदि वा घृतम् ।न दोषकारणं प्रोक्तं सक्षारं लवमश्नतः
वसन्तसमये योऽश्वः स्थाने तिष्ठति बन्धने ।तस्योत्साहः प्रणश्येत सालस्यं जायते वपुः
ततो मन्दाग्निनाविष्टो रोगाभावे प्रजायते ।तस्मात् सर्व्वप्रयत्नेन वसन्ते वाहयेद्धयम्
ग्रीष्मकाले संप्राप्ते दूर्व्वाभोज्यं प्रशस्यते ।वाजिनामिह सर्व्वेषां घर्म्मतापोपशान्तये
घृतपानं विशेषेण सुच्छायासु निबन्धनम् ।रक्तस्रावे गात्रेषु ग्रासं वा घृतसंयुतम्
दूर्व्वाभावे प्रदातव्यं तुरगाय घृतान्वितम् ।कृत्तकाशस्यसध्याग्रं सर्व्वदोषोपशान्तये
एवं स्वस्थमयं सम्यगुपचारं करोति यः ।हयस्य तु ग्रहो नित्यं तस्य वर्द्धन्ति वाजिनः
नीरोगाः पुष्टिसंयुक्ताः प्रकृष्टोत्साहसंयुताः ।तर्पिता भूमिपैरश्वा भूमिमार्गक्रियाक्षमाः
इति श्रीनकुलकृतेऽश्वचिकित्सिते ऋतु-पर्य्यायाध्याय एकादशः
अथ नस्यः ।कासश्वाससमो नस्यो वातपित्तकफोद्भवः ।नस्यः संनाशयेत्तस्मात्तं नस्यं योजयेद्धये
पिप्पली सैन्धवं सारं नागरञ्च गुडान्वितम् ।कृत्तिकासारमध्याग्रं वाजिनां श्लेष्मनाशनम्
चूलिकालवणं नस्ये सदा रोगविनाशनम् ।सिता चन्दनतोयानि साक्तुकाख्यानि वाजिनाम् ।नस्यकर्म्माणि युक्तानि नाडीवातप्रशान्तये ।मृदुकैरार्द्रकं सान्द्रं वचाक्षारविमिश्रितम्
नस्ये दत्तं वातशान्त्यै हयरोगविनाशनम् ।शर्करां माक्षिकं सैरं पटोलं पलसंयुतम्
नस्ये शरदि सप्तीनां जायते रोगशान्तये ।वचा चोष्माणकं कुष्ठं शुण्ठी कासमर्दिका
युक्तं शीतोदके स्तोके तेषां नस्येऽपसर्पयेत् ।गुडूची कौमुदी ताली मिश्रिता कूपवारिणा
नस्ये दत्ता वराश्वानां शिशिरे सुखदा स्मृता ।अपामार्गं महानस्यं सर्व्वरोगविनाशनम्
केवलं कटुतैलं वा गोमूत्रे पाचितञ्च यत् ।मैथुनाद्रिक्तसन्धीनां स्रोतोबलकरं विदुः
कण्ठरोगे तथा नस्यं गोमूत्रलवणान्वितम् ।महद्गुणकरं प्रोक्तं सर्व्वदोषनिवारणम्
अपामार्गस्य मूलेन नस्ये मूत्रञ्च छागलम् ।मुखरोगविनाशाय नस्यं मत्स्यवसोद्भवम्
लशुनं पिप्पलीमूलं गण्डकी नागकेशरम् ।दत्तं नस्येन रोगघ्नं कटुतैलेन वाजिनाम्
नस्यं पर्य्युषितैस्तोयैः प्रातर्दत्तं तु केवलैः ।अश्वानाञ्च नराणाञ्च चाक्षुष्यं बलवर्द्धनम्
पिप्पलीमिश्रतोयेन ससितासलिलेन ।नस्यं यच्छति सप्तीनां सर्पिषा यच्छते बलम्
नस्यं स्निग्धं तथा रूक्षं तिक्तञ्च मधुरं तथा ।चतुर्द्धा वाजिशास्त्रज्ञैर्यथावत्परिकीर्त्तितम्
देयं वाताधिके स्निग्धं रूक्षं तिक्तं कफाधिके ।मधुरं चैव पित्ताढ्ये तुरङ्गे समयोचितम्
द्विपञ्चाशत्प्रमाणं वा श्रेष्ठं तन्नस्यमुष्यते ।पादोनं मध्यमं तत्र षड्विंशत्यां तथाधमम्
नस्यान्ते वाजिनो रक्तं सदा पुष्टं प्रजायते ।नस्यदानात् हृतं तस्य विनाशमुपगच्छति
दाडिमं पुष्करं श्रीकं श्वेतदूर्व्वाङ्कुरास्तथा ।शीतोदकेन संयुक्तं रक्तं दुष्टं जायते
धातकी गोक्षुरं रोध्रं कुसुम्भं सिन्धुवारकम् ।शीतोदकेन संयुक्तं नस्यं रक्तविनाशनम्
धातकी गण्डकी चैव गोमूत्रं लवणं तथा ।नस्ये दत्तं कफं हन्ति तमः सूर्य्योदये यथा
शुण्ठी घृतञ्च दुग्धञ्च रससारं तथैव ।वातदोषविनाशाय नस्यमेतत्प्रयोजयेत्
माक्षिकं शर्करायुक्तं चन्दनं केशराणि ।नस्योऽयं वारिणा सद्यः पित्तनाशकरः परः
गुडूची शुण्ठी मुस्ता तगरं सितसर्षपाः ।सन्निपाते सपित्तेऽयं नस्यः स्याज्जीषरक्षकः
अभया पुत्त्रिणी धात्री एला लाक्षा शतावरी ।सन्निपातेऽनिलाधिक्ये नस्योऽयं क्षेमकारकः
मरिचं पिप्पलीमूलं वचा भारङ्गिकाभया ।सन्निपाते कफाधिक्ये नस्यं सप्तेः सुखप्रदम्
”इति श्रीनकुलकृतेऽश्वचिकित्सिते नस्याधि-काराध्यायो द्वादशः
अथ पिण्डः ।“कटुका जयन्ती भ्रामरी सुरसा घनाः ।पञ्चामृतमयः पिण्डो वाजिनामयमिष्टकृत्
एला शतघ्नी सुरसा काकजङ्घा शतावरी ।माक्षिकं ससितं पिण्डः पित्तयुक्ते हि वाजिनि
माक्षिकं सैन्धवं मुस्ता गोमूत्रञ्च हरीतकी ।समभागेन पिण्डोऽयमुक्तो वह्निप्रदीपकः
कंकोलं केतकी द्राक्षा शर्करा मधुयष्टिका ।दत्तो घृतयुतः पिण्डः गुष्टिं नयति वाजिनः
मत्स्यमांसेन संयुक्तं ग्रावचूर्णं घृतप्लुतम् ।बलहीनस्य वाहस्य पिण्डोऽयं बलवर्द्धनः
बला मद्यं दधि क्षौद्रं भक्षयंस्तुरगो भवेत् ।अतिवृद्धोऽपि सूक्ष्मोऽपि यथा षट्सप्तवार्षिकः
मेथिका धातकी काली सारणी बीजपूरकः ।पिण्डो दत्तो वराश्वानां तेजोवृद्धिकरः स्मृतः
कटुका मद्यसंमिश्रा धात्री लोध्रगुडान्विता ।दत्ता पिण्डविधानेन वाजिनां सुखवृद्धिदा
त्रिफला कटुका मुस्ता विडङ्गानि चित्रकम् ।सदालस्य समेतानां वाजिनां पिण्ड आर्त्तिहृत्
वचा विदलिताः स्निग्धाः सघृताः क्षारभाविताः ।पिण्डैर्दत्ताः प्रकुर्व्वन्ति वाजिनां व्याधिनाशनम्
सैन्धवं नागरं श्यामा गुडूची सितसर्षपाः ।अम्लवेतसमश्वानां पिण्डोऽयं शूलनाशनः
पिप्पली पिप्पलीमूलं कटुका सहदेविका ।दूर्व्वापल्लवसंमिश्रः पिण्डोऽयं प्लीहनाशकः
केशरं श्रीफलं तालं माक्षिकं गिरिकर्णिका ।पिण्डोऽयं श्लथने शस्तो वाजिनां सुगतिप्रदः
वचा लोध्रं सकर्पूरं गुहा श्यामा गुडं मधु ।समांशकेन पिण्डोऽयं करोति लघुतां हये
मद्यं मरिचसंयुक्तं लशुनं नागकेशरम् ।द्बिगुणं मेषमांसञ्च पिण्डो दत्तो जयेच्छ्रमम्
जम्बीरं फलिनीपत्रं त्वचा किञ्जल्कमेव ।जातशोणितवाहानां पिण्डोऽयं रक्तनाशनः
तमालं पुष्करं लोध्रमपामार्गं सतिन्दुकम् ।पयसा पिण्डमेतद्धि वातकोपप्रणाशनम्
आरनालं प्रविष्टा पथ्या नेपालिकाफलम् ।पिण्डे दत्ते हये दध्ना निहन्त्याशु विजृम्भितम्
मुद्गदूणं वचामिश्रं तथा सर्ज्जरसान्वितम् ।पिण्डे दत्ते निहन्त्याशु कृमिसंघं व्रणोद्भवम्
स्नुहीक्षीरं सकर्पूरं कूपोदकविभावितम् ।पिण्डोऽयं हन्ति मध्यस्थान् रोगान् सर्व्वान्कृमिव्रजान्
सिता दुग्धं सकर्पूरमेलया पत्रसंयुतम् ।अग्निदाहार्त्तियुक्तानां पिण्डोऽयं वाजिनां स्मृतः
ग्रीष्मासह्यप्रतप्तानामारनालं परिप्लुतम् ।सकृदिच्छन्ति पिण्डेन वाजिनां सुखकारकम्
वृष्टिवातार्द्दितानाञ्च वाजिनां पुष्टिकृन्मतः ।पिण्डः कृतः सतैलेन लशुनेन पलेन
महाघृतं सकर्पूरं शर्करा दुग्धमेव ।कफनाशकरः प्रोक्तः पिण्डोऽयं सुखदः स्मृतः
रोचना वरी धात्री तथा स्याद्बीजपूरकः ।गुल्मं प्रशमयन्त्याशु वाजिनां हृदयोद्भवम्
सहदेवी वचा कुष्ठं वरुणा चेन्द्रवारुणी ।अतिश्वासं हरन्त्येते वाजिनां मधुना सह
उदुम्बरफलं मांसं शौकरं माहिषं दधि ।हयस्य चातिवृद्धस्य करोति परमं सुखम्
विभीतकं प्रियङ्गुश्च सर्ज्जिका लवणं तथा ।कासदोषोपशमनः पिण्डः सप्तेः सुखप्रदः
तक्रं कर्पूरचूर्णञ्च शिवं सौवर्च्चलान्वितम् ।पिण्डोऽयं वस्तिसंरोधे वाजिनः संप्रकीर्त्तितः
सौवर्च्चलं हरिद्रा पिप्पली चेन्द्रवारुणी ।मूत्रकृच्छ्रे परीप्सन्ति पिण्डोऽयं तुरगस्य हि
पिण्डीरसक्तवः क्षौद्रं भल्लातकफलं वुषम् ।रक्तमूत्रे तु पिण्डोऽयं वाजिनां रक्तनाशनः
अभया यष्टिका श्यामा देवदारु सगन्धकम् ।पुरीषे रक्तसंमिश्रे सदा शंसति वाजिनः
पटोलं धातकी सुस्ता यष्टिका गिरिकर्णिका ।रक्ताधिके कृतः पिण्डः करोति रुधिरक्षयम्
हरिद्राद्वयसंयुक्तं गन्धकं कटुतैलकम् ।पिण्डकं श्रुतियुक्तानां सदाश्वानां प्रशस्यते
अतसीपत्रकं निम्बं न्यग्रोधकलिकान्वितम् ।अतीसारे सुशंसन्ति पिण्डोऽयं वाजिनः शुभः
ब्रणैः कृमिभिरत्यर्थं सदा वाजी प्रपीड्यते ।तदा पिण्डः प्रदातव्यः स्थूलैरण्डदलैरलम्
कर्पूरशर्करालोध्रं माक्षिकं त्रिफलान्वितम् ।तुरङ्गिण्याः प्रशंसन्ति पिण्डोऽयं वाजिनः शुभः
पत्रकं सिन्धुवारञ्च भ्रामरं चक्रकिंशुकम् ।मांसवृद्धौ प्रशंसन्ति पिण्डोऽयं वाजिनः शुभः
सैन्धवं चूलिकाक्षारं विडङ्गानि मधूनि ।शस्त्रपीडाभिभूतस्य पिण्डोऽश्वस्य प्रशस्यते
”इति श्रीनकुलकृतेऽश्वचिकित्सिते पिण्डा-ध्यायस्त्रयोदशः
अथ घृतविधानम् ।“शिलाजतु विशाला पद्मकं नागकेशरम् ।लाक्षा पद्मकमृलञ्च निम्बद्वयसमन्वितम्
घृतं माक्षिकसंयुक्तं सप्तविंशतिकं विदुः ।अष्टांशं तु समादाय सुरामांसघृतस्य
पलमात्राणि सर्व्वाणि पूर्व्वद्रव्याणि निःक्षिपेत् ।तेषां दानेन तत्सर्पिर्जायते सर्व्ववाजिनाम
बलपुष्टिकरं नित्यं सर्व्ववातविनाशनम् ।सर्व्वरोगप्रशमनं कायाग्नेश्च प्रदीपनम्
ओजस्करं व्यथानाशं प्लीहशोषप्रणाशनम् ।धातकी केशरं कुष्ठं कुसुम्भं कुङ्कुमं नलम्
दाडिमं सितलोध्रञ्च पलमात्राणि निःक्षिपेत् ।घृतञ्च पाचयेत् पानादभिघातान्वितो हयः
जावते सर्व्वशुद्धाङ्गो महाप्राणैर्न संशयः ।आरनालं वचा कुष्ठं पिङ्गला सिक्थकं घृतम्
एतैः पक्वं घृतं सम्यक् पित्तव्याधिविनाशनम् ।हरिद्राद्वयसंयुक्तं गन्धकं तु मनःशिला
क्वाथयेन्नवनीतेन त्रिगुणेन घृतेन ।अभ्यङ्गेनाथ पानेन सप्तरात्रेण वाजिनः
कण्डूतिर्निःक्षयं याति तथोदरभवा रुजः ।माक्षिकं निम्बपत्राणि नखं गुग्गुल एव
भृङ्गराजो विशाला पाठा चैव पुनर्नवा ।विल्वमारुष्ककं लोध्रं सैन्धवं तगरं तथा
”एतैः पक्त्वा घृतं वाजी संप्राप्यार्त्तेर्विमुच्यते
इति श्रीनकुलकृतेऽश्वचिकित्सिते घृता-ध्यायश्चतुर्द्दशः
अथ क्वाथः ।“पूर्व्वाणि समभागानि क्वाथयेत् कूपवारिणा ।ततोऽष्टांशं समादाय तोयस्य क्वथितस्य
एतत् सिद्धार्थकं नाम ह्युत्कृष्टं सर्व्ववाजिनाम् ।कायाग्निं वर्द्धयत्याशु नीरोगत्वं प्रयच्छति
मुस्ता मधुकपत्राणि केशरं लवणं रुहा ।शताह्वा शाल्मली धात्री त्रपुषं फलिनी तथा
क्वाथयित्वा जलं कौपं दत्तैस्तुल्यैर्विचक्षणः ।त्रिभागमेवमादाय ततो दद्याद्धयस्य
प्रकरोति सदा नाशं पित्तस्यागन्तुकस्य ।एकविंशदिनं यावच्छालिहोत्रमतं यथा
शुण्ठी हरीतकी पाठा ब्राह्मी मुस्ताशिफालिका ।हरिद्राद्वयसंयुक्ता हरितालं मनःशिला
सिद्धस्त्रिभागशेषोऽयं क्वाथो हन्यात्त्रिरात्रिकम् ।सन्निपातमशेषेण पलिकः पलमात्रकः
मधुकं केशरं पत्रं भल्लातकविभीतकम् ।शङ्खपुष्पं रुहा सारं समभागेन मिश्रितम्
कासार्त्तस्य समुद्दिष्टः क्वाथोऽयं त्रिफलात्मकः ।उत्साहवर्द्धकः सद्यस्तथा कायाग्निदीपकः
कुमारी शाल्मली पाठा मञ्जिष्ठा चेन्द्रवारुणी ।काकोली समभागेन क्वाथयेद् समभागतः
पलद्वयप्रमाणेन ततः पीतेन वाजिना ।मोहयेच्छूलजं दोषं मूत्रदोषं तत्क्षणात्
यवानी माक्षिकं कासं सौवर्च्चलयुताभया ।क्वाथयेदष्टमांशेन तत्पानाज्जायते हयः
प्रदीप्ताग्नेस्तु तेजस्वी सर्व्वरोगाद्विमुच्यते ।स शीघ्रमार्गगामी स्निग्धो रोगविवर्ज्जितः
सेफालिका रुहानीले वेणुका सिन्धुवारिका ।एतैः क्वाथः कृतः सम्यक् क्रमिनाशकरः परः
मातुलुङ्गस्य बीजानि चन्दनं सितसर्षपाः ।उशीरं पुष्करं ब्राह्मी लक्ष्मणा पुनर्नवा
क्वाथोऽयं शुण्ठिचूर्णेन धावितक्लेशनाशनः ।प्रकरोति तुरङ्गाणां सर्व्वदैव सुखं तथा
”इति श्रीनकुलकृतेऽश्वचिकित्सिते क्वाथा-ध्यायः पञ्चदशः
अथ विधम् ।“वारुणी माक्षिकी गौरी श्रीतालीबीजपूरकम् ।कृमिक्लेदविनाशाय क्वाथो नित्यं रुजाहरः
अश्वगन्धा घृतं क्षौद्रं विषदग्धस्य वाजिनः ।विषनाशं करोत्येव सर्व्वगात्रेषु तत्क्षणात्
सामान्येन प्रदिष्टोऽयमगदो विषनाशनः ।पृथक् पृथग्विभागेन कर्त्तव्यं साम्यतः परम्
त्रिविधं कीर्त्तितं चैव कृत्रिमञ्च ततःपरम् ।त्रिविधं कीर्त्तितं प्राज्ञैर्विषज्ञानवित्तक्षणैः
स्थावरं कन्दजं प्रोक्तं जङ्गमं सत्त्वसंस्थितम् ।कृत्रिमं योगजं प्रोक्तं त्रिविधं विषमुच्यते
यदा स्थिरं समश्नन्ति कदाचित्तुरगोत्तमाः ।तदा कार्य्यं विधानज्ञैरगदस्य प्रयोजनम्
केशरं पद्मनालञ्च सौपर्णी वदरीफलम्
तक्रमिश्रं हये दत्तं सर्व्वथा विषनाशनम्
सौपर्णी सिन्धुवारञ्च नागवल्ली जटा तथा ।विषार्त्तं प्राप्य संमिश्रं दुग्धे स्यादायुधी हयः
अश्वगन्धा रुहा एला घृतमिश्रा प्रयोजिता ।विषनाशं नयत्याशु जङ्गमं हयगात्रतः
मूलं चन्दनवृक्षस्य माषचूर्णपरिप्लु तम् ।जङ्गमस्य विषस्याशु प्रकरोति संक्षयम्
तक्रं केशरसंयुक्तं विषं सद्यो नवाभ्रकम् ।हयस्य जङ्गभं नाशं विषन्नयति तत्क्षणात्
सौपर्णी विषकङ्कोली पिष्ट्वा मद्येन भाविता ।जङ्गमं गात्रतः कृत्स्नं विषं नयति तत्क्षणात्
एला कङ्कोलिकामूलं सौपर्णीघृतमिश्रितम् ।विषनाशं करोत्याशु नस्यदानेन वाजिनाम्
कौसुम्भं केशरं लाक्षा माक्षिका नाकुली तथा ।कृत्रिमस्य विषस्याशु प्रकरोति संक्षयम्
चम्पकं मालतीमूलमुन्मत्तकरसं तथा ।अश्वानां नाशयत्याशु विषं जङ्गममाश्रितम्
”इति श्रीनकुलकृतेऽश्वचिकित्सिते विषयोगा-ध्यायः षोडशः
अथ अश्वशालाविधिः ।“नृपवेश्मवामभागे शुभदिने तु कारयेद्धयागारम् ।पूज्यश्रियं प्रयत्नादुच्चैःश्रवसं प्रतिष्ठाप्य
सुशुभे भूमिविभागे पूर्व्वोत्तरजलप्लवविधानात् ।तस्मिन् शालां क्षिण्णां दशहस्तसमुच्छ्रितां दृढांकुर्य्यात्
खादनकोष्ठकमस्मिन् हस्तद्बितयं समुच्छ्रितंकुर्य्यात् ।संस्थाप्य वृषभगावौ सप्ताहं वाजिशालायाम्
अत ऊर्द्धन्तु हुताग्निः प्रवेशयेद्बाजिनो यथा-योग्यम् ।कुशलैस्तरुणैर्दक्षैरनुकूलैः स्थानपालैश्च
कृतमङ्गलसंस्कारा बन्धव्यास्तेऽत्र चोत्तराभि-मुखाः ।नात्यायता शिथिलाः स्थाने वा दक्षिणाभि-मुखम्
वैद्यानां तुरगाय समीपं गृहं कारयेत् पूर्व्वम् ।कार्य्यामिकेन मूत्रेण माक्षिकाणां निवारणम्
गन्धैमाल्यैर्धूर्पैः स्थानानि विभूषयेदलङ्कारैः ।सविशेयं त्वद्यपीतौ हुत्वाग्निं पूरयेद्बिद्बान्
स्वच्छिद्रं नातियवमं यथा पश्यन्ति वाजिनः ।म्यानं चैव पृथक् प्राप्तं प्रयत्नं रोगिणां वै
कोष्ठी कुष्ठी ज्वरी यक्ष्मी परस्परं दूषयति क्षारैः ।तियिवारे कैशांश्च खुरांश्च प्रघ्नन्ति दीर्घान्
अश्वस्याङ्गे प्रलिपेद्धरिद्रया वरिष्ठया मङ्गन्न्यात्र ।सुपवित्रान् दोषघ्नैर्विभूषयेदलङ्कारैः
”इति श्रीनकुलकृतेऽश्वचिकित्सितेऽश्वशाला-विधिरष्टादशोऽध्यायः
सप्तदशाध्यायस्तु नाधि-गम्यते
अथ ग्रहनामलक्षणानि ।“दृश्यन्ते यानि लिङ्गानि ग्रहदोषेण वाजिनाम् ।तानि सम्यक् प्रवक्ष्यामि ग्रहनामानि यानि तु
लोहिताक्षो विरूपाक्षो हरिर्बलिस्तथैव ।सकाशी चैव विख्यातः सङ्काशी परः स्मृतः
सुसंस्थितश्च कौवेरो वैशाखश्च भृदुग्रहः ।ऊर्द्ध्वश्च दारुणश्चैव षड्विधो वरुणग्रहः
बृहस्पतिश्च सोमश्च तथा सूर्य्यग्रहोऽपरः ।एते प्रोक्ता ग्रहाः सर्व्वे दारुणा मुनिसत्तमैः
एतैदृष्टाः स्फुटं वाहा नैव जीवन्ति सर्व्वदा ।चिह्नं सर्व्वं प्रवक्ष्यामि यथा शास्त्रे व्यवस्थितम्
कम्पते पूर्व्वकायस्तु निश्चलो यस्य पश्चिमः ।पश्चाल्लङ्गी सकम्पश्च खिद्यते हरिपीडितः
भवन्ति विन्दवो रक्ता अकस्माद् यस्य चक्षुषः ।हरिताक्षगृहीतोऽश्वो ग्रासद्वेषी जायते
प्रस्विन्नगुरुगात्रश्च लुब्धचङ्क्रमणक्रियः ।मीलतोन्मीलता चाक्ष्णा स्वभावान्नित्यमेव
विरूपाक्षगृहीते तु कम्पः स्वेदश्च जायते ।उत्थितः सहसा यस्तु मूर्ध्ना पतति भूतले
स्तब्धाक्षो मुच्यते केशैस्तथा बालैः खुरैरपि ।बलिग्रहगृहीतोऽसौ स्तब्धकर्णशिरोधरः
अकस्माद् यस्य लोमानि शीर्य्यन्ते यश्च लङ्गति ।शूनपच्चिमपादस्य तस्य काशिग्रहं वदेत्
सहसा कुपितो वाजी स्वानि गात्राणि खादति ।प्रोथते सततञ्चैव सङ्काशिग्रहपीडितः
खिन्नाङ्गो वेपमानश्च जानुभ्यां यश्च तिष्ठति ।कौवेरग्रहसन्दुष्टं तं विद्यात् कष्टजीवितम्
ह्रेषते सततं यस्तु पश्चादात्मानमीक्षते ।सुसंस्थितग्रहाविष्टः विज्ञेयो मनीषिभिः
स्तब्धेन गुरुणा चैव वेपमानेन पण्डितः ।गात्रेण विद्याद् वाहं तु वैशाखग्रहसेवितम्
ग्रीवां चैव तथा जिह्वां परिवर्त्त्या मुहुर्मुहुः ।जृम्भते पूर्व्वकायेन शीतोच्छासी विशोचनः
नोद्विजेत्त्वाहतः पृष्ठे कशया पाणिनापि वा ।तं वै दीर्धस्वरग्रस्तं दृष्ट्वैव परिवर्जयेत्
श्यामं जिह्वामुखं यस्य नष्टदृष्टिस्मृतिर्भवेत् ।ऊर्द्धग्रहकृतं दोषं तस्य दीनस्य निर्द्दिशेत्
तालुजिह्वे नेत्रे वृषणौ मेढ्रमेव ।श्यावं रूपञ्च यस्य स्याद् गात्रगौरवमेव
तस्य स्वेदपरीतस्य बुद्धिमान् वरुणग्रहैः ।कृतं दोषं महाघोरं स्तब्धाङ्गस्य विनिर्द्दिशेत्
ह्रेषते सततं यस्तु हृष्टरोमा तुरङ्गमः ।स्तब्धाक्षो जृम्भतेऽत्यर्थं तस्यापि सलिलग्रहः
सुविस्फुरितसर्व्वाङ्गः सलिले निश्चलस्थितः ।ह्नेषते विस्तरं वाजी वरुणग्रहपीडितः
मुहूर्त्तावस्थितस्तोये जानुभ्यां योऽवगच्छति ।मुखपाकश्च यस्यान्ते तं विद्यादुदकग्रहम्
उद्वर्त्तिताक्षः खिन्नश्च संगृहीतहनुश्च यः ।कम्पमानश्च यो वाजी रविग्रहपीडितः
स्तब्धग्रीवो जानाति कशाघातं सुदुर्म्मनाः ।जलग्रहगृहीतोऽश्वो वामपार्श्वेन निश्चलः
शूनाक्षिकूटो रक्ताक्षः कृशः स्खलति यो मुहुः ।बृहस्पतिगृहीतोऽसौ नैव जीवति तादृशः
कम्पते पूर्व्वकायेन स्वल्पपानाशनश्च यः ।शेते प्रसार्य्य गात्राणि शीताङ्गः सोमपीडितः
रक्ताक्षः शूनकण्ठश्च कम्पमानश्च श्वासयुक् ।फेनतीव्राङ्गखेदश्च ग्रस्तः सूर्य्यग्रहेण सः
उदके तत्समीपे वा प्रायो गृह्णाति दारुणः ।तुरङ्गं सत्त्वहीनन्तु षड्विधो वारुणग्रहः
यज्ञभूमिचिताचैत्यशून्यवेश्मसुरालये ।लोहिताक्षादयो रोषाद् ग्रहा गृह्णन्ति वाजिनः
एवंविधैर्निदानैस्तु ग्रहदोषं विनिर्द्दिशेत् ।वातपित्तकफानान्तु निदानैर्व्याधिमादिशेत्
एकाकारेण रोगेण म्रियते वा हयो यदा ।तुरङ्गाणां तदा ज्ञेया उपसर्गाः सुदारुणाः
ग्रहदोषेषु सर्व्वेषु उपसर्गांस्तथैव ।अथोक्ताञ्च महाशान्तिं गान्धर्व्वीञ्च प्रयोजयेत्
अश्वरक्षाविधानाय ऋक्षं सम्मान्य पावकम् ।जुहुयाद्घृतसंयुक्तं शुचिः स्नात्वा सुपूजितः
शान्तिकं कारयेत् कर्म्म बलिञ्चापि प्रयोजयेत् ।ग्रहदोषेषु सर्व्वेषु शान्तिकर्म्माणि कारयेत्
देवद्विजप्रव्रजितगुरुवृद्धान् यतीनपि ।तोषयेद्भोजनैर्दानैर्वस्त्रगोकाञ्चनादिभिः
रात्रौ शालासमीपे तु बलिं दद्यात् चतुर्दिशम् ।मत्स्यमांसैश्च पक्वान्नैः कृशरैः पायसादिभिः
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा ।नीराजनविधिं कृत्वा नयेदश्वान् पृथक् पृथक्
”इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे ग्रह-गृहीतचिकित्सिते सप्तपञ्चाशत्तमोऽध्यायः
)
वाचस्पत्यम्
Sanskrit
घोट(क)
पु०
घुट--अच् ण्वुल् वा अश्वे तस्य भुति-वेष्टनाकारेण चेष्टनात्तथात्वम् स्त्रियां जातित्वात् ङीष् ।“घोटी ह्येपा बिकृतविरुतं तु हेतुहीनं हसन्ती”सा० द० तल्लक्षणादि अश्वशब्दे ४९८ पृ० दृश्यम्” भा०
Stchoupak
French
घोटक-
m.
cheval
-इका-
f.
jument.