| YouTube Channel

घृततैलादिकल्पः (ghRtatailAdikalpaH)

 
शब्दकल्पद्रुमः
Sanskrit
घृततैलादिकल्पः,
पुं,
(घृततैलादीनां रोगविना-शकपक्वघृततैलादीनां कल्पो बिधिः ।) रोग-नाशकनानौषधिपक्वघृततैलादिवर्गः यथा ।धन्वन्तरिरुवाच ।“घृततैलादि वक्ष्यामि शृणु सुश्रुत ! रागनुत् ।शङ्खपुष्पी वच सोमा ब्राह्मी ब्रह्मसुवर्च्चला
अभया गुडुची चैव अटरूषकवाकुची ।एतैरक्षसमैर्भागैर्घृतप्रस्थं विपात्तयेत्
कण्टकार्य्या रसप्रस्थक्षीरप्रस्थसमन्वितम् ।एतद्ब्राह्मीघृतं नाम श्रुतिमेधाकरं परम्
त्रिफलाचित्रकबलानिर्गुण्डीनिम्बवासकाः ।पुनर्नवा गुडूची बृहती शतावरी
एतैर्घृतं यथालाभं सर्व्वरोगविमर्द्दनम्
बलाशतकषाये तु तैलस्यार्द्धाढकं पचेत्
कल्कैर्म्मधुकमञ्जिष्ठाचन्दनोत्पलपद्मकैः ।सूक्ष्मैलापिप्पंलीकुष्ठत्वगेलागुरुकेशरैः
गन्धाश्मजीवनीयैश्च क्षीराढकसमाश्रितम् ।एतन्मृद्वग्निना पक्वं स्थापयेद्रजते शुभे
सर्व्ववातविकारांस्तु सर्व्वधात्वन्तराश्रयान् ।तैलमेतत् प्रशमयेद्बलाख्यं राजवल्लभम्
शतावरीरसप्रस्थं क्षीरप्रस्थं तथैव ।शतपुष्पा देवदारु मांसी शैलेयकं बला
चन्दनं तगरं कुष्ठं माला चांशुमती तथा ।एतैः कर्षसमैः कल्कैस्तैलप्रस्थं विपाचयेत्
कुब्जवामनपङ्गूनां वधिरव्यङ्गकुष्ठिनाम् ।वायुना भग्नगात्राणां ये सीदन्ति मैथुने
जराजर्ज्जरत्राणामाध्मानमुखशोषिणाम् ।त्वग्गताश्चापि ये वाताः शिरास्नायुगताश्च ये
सवस्तिं नाशयत्याशु तैश्चैव स्याद्दशाङ्गकम् ।नारायणमिदं तैलं विष्णुनोक्तं रुगर्द्दनम्
पृथक् तैलं धृतं कुर्य्यात् समस्तैरौषधैः पृथक् ।शतावर्य्या गुडूच्या वा चित्रकै रोचनायुतः
निर्गुण्ड्या वा प्रसारण्याः कण्टकार्य्या रसा-दिभिः
वर्य्या वानलया वापि वासकेन फलत्रिकैः ।ब्राह्म्या चैरण्डकेनापि भृङ्गराजेन मुण्डिना
मूषल्या दशमूलेन खदिरेण वटादिभिः ।वटिका मोदको वापि चूर्णं स्यात् सर्व्वरोगनुत्
घृतेन मधुना वापि युक्तं खण्डगुडादिभिः ।लवणैः कटुकैर्युक्तं यथालाभञ्च रोगनुत्
चित्रकर्कारुत्रिवृतामलघ्नहयमारकम् ।सुधाञ्च बालागणिकासप्तपर्णसुवर्च्चिकाम्
ज्योतिष्मतीञ्च संभृज्य तैलं धीरो विपाचयेत् ।एतन्निस्यन्दनं तैलं भृशं दद्याद्भगन्दरे
शोधनं रोचनञ्चैव सर्व्ववर्णकरं परम् ।चित्रकाद्यं महातैलं सर्व्वरोगप्रभञ्जनम्
अजमोदा ससिन्दूरा हरितालं निशाद्वयम् ।क्षारद्वयं फेनयुतमार्द्रकं सरलोद्भवम् ।इन्द्रवारुण्यपामार्गकदलैः कन्दलैः समैः
एभिः सर्षपजं तैलमजमूत्रैश्च योजितम् ।मृद्वग्निना पचेदेतदर्कक्षीरेण संयुतम्
अजमोदादिकं तैलं गण्डमालां व्यपोहति ।विदग्धस्तु पचेत् पक्वं पक्वञ्चैव विशोधयेत्
रोपणं मृदुभावञ्च तैलेनानेन कारयेत् ।अजमोदादिकं तैलं महावीर्य्यञ्च रोगनुत्
इत्यादिमहापुराणे गारुडे १७८ अध्याये