घृतः (ghRtaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritघृतः, पुं (जघर्त्ति क्षरतीति । घृ + “अञ्जि-घृसिभ्यः क्तः ।” उणां । ३ । ८९ । इति क्तः ।)पक्वनवनीतम् । घि इति भाषा ॥
तत्पर्य्यायः ।आज्यम् २ हविः ३ सर्पिः ४ । इत्यमरः । २ । ९ । ५२ ॥
पवित्रम् ५ नवनीतकम् ६ अमृतम् ७ अभि-घारः ८ होम्यम् ९ आयुः १० तैजसम् ११ ।इति राजनिर्घण्टः ॥
आजम् १२ । यथा, --“घृतोऽस्त्री चाजमाज्यञ्च सर्पिः स्यादमृतंहविः ।”इति जटाधरः ॥
तस्य गुणाः । बुद्ध्यग्निशुक्रौजोमेदःस्मृतिकफ-कारित्वम् । वातपित्तविषोन्मादरोगशोथालक्ष्मी-ज्वरनाशित्वम् । मांसादष्टगुणगुरुत्वञ्च । इतिराजवल्लभः ॥
रसायनत्वम् । स्वादुत्वम् । चक्षु-र्हितत्वम् । शीतवीर्य्यत्वम् । पापनाशित्वम् ।अल्पाभिस्यन्दित्वम् । कान्तितेजोलावण्यस्वरायु-र्हितबलकारित्वम् । पवित्रत्वम् । गुरुत्वम् । उदा-वर्त्तशूलानाहव्रणक्षयवीसर्परक्तनाशित्वम् । स्निग्ध-त्वम् । रूक्षत्वञ्च । इति भावप्रकाशः ॥
* ॥
अथगव्यघृतस्य गुणाः । विशेषेण चक्षुर्हितत्वम् ।शीतत्वम् । वातपित्तकफालक्ष्मीपापरक्षोनाशि-त्वम् । शुक्राग्निस्वादुपाकमेधालावण्यकान्त्योज-स्तेजोवृद्धिवयःस्थितिबलायुर्हितकारित्वम् । गुरु-त्वम् । पवित्रत्वम् । सुमङ्गल्यत्वम् । रसायनत्वम् ।सुगन्धित्वम् । रोचनत्वम् । चारुत्वम् । सर्व्वा-ज्येषु गुणाधिकत्वञ्च । इति भावप्रकाशः ॥
बुद्धिस्मृतिपुष्टिवपुःस्थैर्य्यकारित्वम् । श्रमोपशमन-त्वम् । हव्यतमत्वम् । बहुगुणत्वञ्च ॥
* ॥
माहिष-घृतगुणाः । उत्तमत्वम् । धृतिसौख्यकान्तिबलवर्ण-चक्षुर्हितकारित्वम् । वातश्लेष्मदुर्नामग्रहणी-विकारनाशित्वम् । मन्दानलोद्दीपनत्वम् । नव-गव्यतः परमहृद्यत्वम् । मनोहारित्वञ्च । इतिराजनिर्घण्टः ॥
स्वादुत्वम् । पित्तरक्तनाशित्वम् ।शीतत्वम् । श्लेष्मशुक्रवृद्धिकारित्वम् । गुरुत्वम् ।स्वादुपाकित्वञ्च ॥
* ॥
छागीघृतगुणाः ।अग्निचक्षुर्हितबलकारित्वम् । कासश्वासक्षयेषुहितत्वम् । कटुपाकित्वञ्च । इति भाव-प्रकाशः ॥
कफनाशित्वम् । इति राज-निर्घण्टः ॥
* ॥
मेषीघृतगुणाः । पित्तमेदस्कारि-त्वम् । योनिदोषे शोषे कफे अनिले च शस्त-त्वम् । रूक्षत्वम् । दुर्नामोन्मादनाशित्वञ्च । इतिराजवल्लभः ॥
पाके लघुत्वम् । पित्तकोपाकारि-त्वम् । शोफे कम्पे च हितत्वञ्च ॥
* ॥
भेडक-घृतगुणाः । अतिगौरवात् सुकुमारदेहिवर्ज्य-त्वम् । बुद्धिपाटवहरत्वम् । बलकारित्वम् । नृणांवपुषो विस्रगन्धकारित्वञ्च ॥
* ॥
हस्तिनीघृत-गुणाः । कफपित्तविषक्रमिनाशित्वम् । कषाय-त्वम् । लघुत्वम् । विष्टम्भित्वम् । तिक्तत्वम् ।वह्निकरत्वञ्च ॥
* ॥
अश्वाघृतगुणाः । कटु-त्वम् । मधुरत्वम् । कषायत्वम् । इषदग्निदीप-नत्वम् । बाल्यप्रदत्वम् । मूर्च्छाहारित्वम् । गुरु-त्वञ्च ॥
* ॥
गर्द्दभीघृतगुणाः । अग्निबलकारि-त्वम् । मूत्रदोषकफनाशित्वम् । पाके लघुत्वम् ।कषायत्वम् । उष्णवीर्य्यत्वञ्च ॥
* ॥
उष्ट्री-घृतगुणाः । मधुरत्वम् । विपाके कटुत्वम् ।शीतलत्वम् । कुष्ठकृमिविषवातकफगुल्मोदर-नाशित्वञ्च । इति राजनिर्घण्टः ॥
शोथनाशि-त्वम् । इति राजवल्लभः ॥
* ॥
नारीघृतगुणाः ।चक्षुर्हितरुचिकारित्वम् । पथ्यत्वम् । मन्दाग्नि-दीपनत्वम् । पाके लघुत्वम् । सर्व्वामयविष-नाशित्वञ्च । इति राजनिर्घण्टः ॥
प्रमेहनाशि-त्वम् । इति राजवल्लभः ॥
* ॥
दुग्धभवघृत-गुणाः । ग्राहित्वम् । शीतलत्वम् । नेत्र-रोगकारित्वम् । पित्तदाहास्रमदमूर्च्छाभ्रमा-निलनाशित्वञ्च ॥
* ॥
ह्यस्तनदधिजघृतं तदेवहैयङ्गवीनम् । तस्य गुणाः । चक्षुर्हितत्वम् ।दीपनत्वम् । रुचिबलकारित्वम् । बृंहणत्वम् ।वृष्यत्वम् । विशेषाज्ज्वरनाशित्वञ्च ॥
* ॥
वर्षा-दूर्द्ध्वं पुराणस्य तस्य गुणाः । त्रिदोषमूर्च्छाकुष्ठ-विषोन्मादापस्मारतिमिरनाशित्वम् । इति भाव-प्रकाशः ॥
मदशिरःकर्णादिजरोगभ्रान्तिनाशि-त्वम् । व्रणस्य शोधनत्वम् । रोपणत्वञ्च । आयु-र्वृद्धिशरीरदृढतासौकुमार्य्यकान्तिस्मृतिबलकारि-त्वम् । बाल्ये तरुणे वार्द्धके चातिबल्यत्वम् ।पथ्यत्वञ्च । इति राजनिर्घण्टः ॥
प्रतिश्यायाम-कासजीर्णज्वरसर्व्वरोगनाशित्वम् । श्रेष्ठत्वम् ।धातुसाम्यकारित्वञ्च ॥
* ॥
तस्य लक्षणम् ।“उग्रगन्धं पुराणं स्याद्दशवर्षस्थितम् घृतम् ।लाक्षारसनिभं शीतं प्रपुराणमतः परम् ।यथा यथा भवेज्जीर्णं गुणवत् स्यात्तथा तथा ॥
”कांस्यपात्रे दशदिनस्थितं घृतं त्याज्यम् । इतिराजवल्लभः ॥
औषधघटितपक्वघृतस्य पूर्णवीर्य्यंषण्मासपर्य्यन्तं तिष्ठति । इति वैद्यकपरिभाषा ॥
(“शस्तं धीस्मृतिमेघाग्नि-बलायुःशुक्रचक्षुषाम् ।बालवृद्धप्रजाकान्ति-सौकुमार्य्यस्वरार्थिनाम् ॥
क्षतक्षीणपरीसर्पशस्त्राग्निग्लपितात्मनाम् ।वातपित्तविषोन्मादशोषालक्ष्मीज्वरापहम् ॥
स्नेहानामुत्तमं शीतं वयसः स्थापनं परम् ।सहस्रवीर्य्यं विधिभिर्घृतं कर्म्मसहस्रकृत् ॥
”इति पूर्व्वखण्डे पञ्चमेऽध्याये शार्ङ्गधरेणोक्तम् ॥
“विपाके मधुरं वृष्यं वातपित्तकफापहम् ।चक्षुष्यं बलकृन्मेध्यं गव्यं सर्पिर्गुणोत्तरम् ॥
”इति गव्यघृतम् ॥
“आजं सन्दीपनीयञ्च चक्षुष्यं बलवर्द्धनम् ।कासे श्वासे क्षयेऽर्शःसु लघुपाके कफापहम् ॥
”इत्याजघृतम् ॥
“वातपित्तसमं सर्व्वं सुशीतं माहिषं घृतन् ।मधुरं गुरु विष्टम्भि भवत्यल्पगुणात्मकम् ॥
”इति माहिषघृतम् ॥
“औष्ट्रं कटु घृतं पाके शोषक्रिमिविषापहम् ।दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम् ॥
”इत्युष्ट्रीघृतम् ॥
“पाके लघ्वाविकं सर्पिः सर्व्वरोगविषापहम् ।वृद्धिं करोति चास्थ्नाञ्च वाश्मरीशर्करापहम् ॥
”इत्याविकं घृतम् ॥
“वृद्धिं करोति देहाग्नेर्लघु पाके विषापहम् ।चक्षुष्यं दीपनञ्चाग्नेर्वातदोषनिवारणम् ।वृद्धिं करोति चास्थीनां तत्प्रोक्तञ्च विषापहम् ॥
”इत्यश्वीघृतम् ॥
“कफेऽनिले योनिदोषे शोषे पित्तेषु तद्धितम् ।सात्म्यं स्त्रीणाञ्च चक्षुष्यं सर्पिः स्यादमृतोपमम् ॥
”इति नारीघृतगुणाः ॥
“तर्पणं नेत्ररोगघ्नं दाहहृत् पयसो घृतम् ॥
”इति क्षीरोद्भवघृतम् ॥
“दोषापहं वह्निसन्धुक्षणञ्चमूर्च्छाहिक्कोन्मादकर्णाक्षिशूले ।शोफार्शसोर्योनिदोषे व्रणेषुशस्तं सर्पिर्जीर्णमेव नृणां स्यात् ॥
उग्रगन्धं पुराणं स्याद्दशवर्षोषितं घृतम् ।यथा यथा जरां याति गुणवत् स्यात्तु तत्तथा ॥
”इति जीर्णघृतगुणाः ॥
इति हारीते प्रथमे स्थानेऽष्टमेऽध्याये ॥
“स्मृतिबुद्ध्यग्निशुक्रौजःकफमेदोविवर्द्धनम् ।वातपित्तविषोन्मादशोषालक्ष्मीज्वरापहम् ॥
सर्व्वस्नेहोत्तमं शीतं मधुरं रसपाकयोः ।सहस्रवीर्य्यं विधिभिर्घृतं कर्म्मसहस्रकृत् ॥
मदापस्मारमूर्च्छायशोफोन्मादगरज्वरान् ।योनिकर्णशिरःशूलं घृतं जीर्णमपोहति ॥
”इति चरके सूत्रस्थाने सप्तविंशेऽध्याये ॥
“विशेषतः पुराणञ्च घृतं तत् पाययेद्भिषक् ।त्रिदोषघ्नं पवित्रत्वात् विशेषाद्ग्रहमोक्षणम् ॥
गुणकर्म्माधिकं स्थानादास्वादात् कष्टुतिक्तकम् ।उग्रगन्धं पुराणं स्याद्दशवर्षस्थितं घृतम् ॥
लाक्षारसनिभं शीतं तद्धि सर्व्वग्रहापहम् ।मेध्यं विरेचनेष्वग्य्रं प्रपुराणमतः परम् ॥
नासाध्यं नाम तस्यास्ति यत् स्याद्वर्षशतस्थितम् ।दृष्टं स्पृष्टमथाघ्रातं तद्धि सर्व्वग्रहापहम् ।अपस्मारुग्रहोन्मादवतां शस्तं विशेषतः ॥
”इति चरके चिकित्सासास्थाने चतुर्द्दशेऽध्याये ॥
“घृतन्तु सौम्यं शीतवीर्य्यं मृदुमधुरमल्पाभिष्यन्दिस्नेहनमुदावर्त्तोन्मादापस्मारशूलज्वरानाहवात-पित्तप्रशसनमग्निदीपनं स्मृतिमतिमेधाकान्ति-स्वरलावण्यसौकुमार्य्यौजस्तेजोबलकरं आयुष्यंवृष्यं मेध्यं वयःस्थापनं गुरु चक्षुष्यं श्लेष्माभि-वर्द्धनं पापालक्ष्मीप्रशमनं विषहरं रक्षोघ्नञ्च ॥
विपाके मघुरं शीतं वातपित्तविषापहम् ।चक्षुष्यमग्र्यं बल्यञ्च गव्यं सर्पिर्गुणोत्तरम् ॥
आजं घृतं दीपनीयं चक्षुष्यं बलवर्द्धनम् ।कासे श्वासे क्षये चापि पथ्यं पाके च तल्लघु ॥
मधुरं रक्तपित्तघ्नं गुरुपाके कफावहम् ।वातपित्तप्रशमनं सुशीतं माहिषं घृतम् ॥
औष्ट्रं कटुरसं पाके शोफक्रिमिविषापहम् ।दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम् ॥
पाके लघ्वाविकं सर्पिर्न च पित्तप्रकोपणम् ।कफेऽनिले योनिदोषे शोषे कम्पे च तद्धितम् ॥
पाके लघूष्णवीर्य्यञ्च कषायं कफनाशनम् ।दीपनं वद्धमूत्रञ्च विद्यादैकशफं घृतम् ॥
चक्षुष्यमग्र्यं स्त्रीणान्तु सर्पिः स्यादमृतोपमम् ।वृद्धिं करोति देहाग्न्योर्लघुपाकं विषापहम् ॥
कषायं बद्धविन्मूत्रं तिक्तमग्निकरं लघु ।हन्ति कारेणवं सर्पिः कफकुष्ठविषक्रमीन् ॥
”क्षीरघृतं पुनः संग्राहि रक्तपित्तभ्रममूर्च्छा-प्रशमनं नेत्ररोगहितञ्च । सर्पिर्मण्डस्तु मधुरः सरोयोनिश्रोत्राक्षिशिरसां शूलघ्नो वस्तिनस्याक्षि-प्रपूरणेषूपदिश्यते । सर्पिः पुराणं सरं कटु-विपाकं त्रिदोषापहं मूर्च्छामेदोन्माद उदर-ज्वरगरशोफापस्मारयोनिश्रोत्राक्षिशिरःशूलघ्नंदीपनं बस्तिनस्याक्षिपूरणेषूपदिश्यते । भवन्तिचात्र ।“पुराणं तिमिरश्वासपीनसज्वरकासनुत् ।मूर्च्छाकुष्ठविषोन्मादग्रहापस्मारनाशनम् ॥
एकादशशतञ्चैव वत्सरानुषितं घृतम् ।रक्षोघ्नं कुम्भसर्पिः स्यात् परतस्तु महाघृतम् ॥
पेयं महाघृतं भूतैः कफघ्नं पवनाधिकैः ।बल्यं पवित्रं मेध्यञ्च विशेषात्तिमिरापहम् ॥
सर्व्वभूतहरञ्चैव घृतमेतत् प्रशस्यते ॥
”इति सुश्रुते सूत्रस्थाने ४५ अध्याये ॥
* ॥
सलिलम् । इति मेदिनी । ते । १७ ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
