| YouTube Channel

घूर्ण्ण (ghUrNNa)

 
वाचस्पत्यम्
Sanskrit
घूर्ण्ण भ्रमणे अक० तु०
उभ०
सेट् घूर्णति ते अचू-र्णीत् अघूर्णिष्ट जुषूर्ण जुघूर्णे “गुरुभारसमाक्रा-न्तश्चचाल जुवूर्ण्ण च” रामा० कि० “केचिदा-सिषते स्तब्धा भयात् केचिदवूर्णिषु” “अघूर्णिष्टांक्षतौ क्ष्माञ्च तावशिश्रियतामुभौ” इति भट्टिः ।घूर्णितः घूर्णितवान् “ततोरथो घूर्णितबान् न-रेन्द्र!” भा० क० ९० अ० “कादम्बरीमदविघूर्णितलोचनस्ययुक्तं हि लाङ्गलभृतः पतनं पृथिव्याम्” उद्भटः ।“भो वृक्षाः पर्वतस्थाः बहुकुसुमयुता वायुना घूर्ण-माना” महाना० वायुनेति हतौ तृतीया सयकारपठेण्यन्ताव् कर्मणि शानच् कर्त्तरि तृतीयेति भेदः णिचिघूर्णयन्नि ते अजुघूर्णत् “नयनान्यरुणानि घूर्णयन्”कुमा० “घूर्णयन् मदिरास्वादमदपाटलितद्युती”माघः कर्म्मणि घूर्ण्यते अघूर्णि घूर्ण्यमानः ।“वायुना घूर्ण्यमानाः” महाना० पाठान्तरम्
घूर्ण्ण
पु०
घूर्णयति अच् (गिमा) शाकभेदे ग्रीष्मसुन्दरकेशब्दच० भ्रान्ते
त्रि०
भावे घञ् भ्रमणे ।घूर्ण--णिच्--अच् घूर्णकारके रोगभेदे