| YouTube Channel

घिणि (ghiNi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
घिण्ण्
मूलधातुः:
घिणि
धात्वर्थः:
ग्रहणे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
घिण्णते
अनुबन्धादिविशेषः:
इदित्
धातुप्रदीपः
Sanskrit
घिणिँ घिणि
मानकरूपान्तरम् - घुणिँ
घुणि
मानकरूपान्तरम् - घृणिँ
घृणि ग्रहणे
- घिणते जिघिणे जेघिण्यते घुणते जुघुणे जोघुण्यते घृणते जघृणे जरीघृण्यते ।। 434-436 ।।
क्षीरतरङ्गिणी
Sanskrit
घिणिँ घिणि
मानकरूपान्तरम् - घुणिँ
घुणि
मानकरूपान्तरम् - घृणिँ
घृणि ग्रहणे
- इतः कम्वन्ताः (1300) दश सेट आत्मनेपदिनश्च घिण्णते, घिण्णितः घुण्णते घृण्णते 421-423
धातुवृत्तिः
Sanskrit
घिणिँ घिणि
मानकरूपान्तरम् - घुणिँ
घुणि
मानकरूपान्तरम् - घृणिँ
घृणि (अर्थः) ग्रहणे
एतदादयः कम्यन्ता उदात्ता अनुदात्तेतः ( घिण्णते जिघिण्णे घिण्णिता घिण्णिष्यते घिण्णिताम् अघिण्णत घिण्णेत आशिषि घिण्णिषीष्ट अघिण्णिष्ट अघिण्णिष्यत जिघिण्णिषते जेघिण्ण्यते जेघिण्णीति जेघिण्टि लङि अजेघिन् घिण्णयति अजीघिण्णत् घिण्णित्वा ) सर्वत्र नुमि ष्टुत्वम् यङ्लुकि लङि संयोगान्तलोपस्यासिद्धत्वात् नकारान्त एव ( घुण्णते घृण्णते जघृण्णे ) इत्यादि (जरिघृण्ण्यते ) "रीगृत्वतः'' इति रीक् ( जरीघृण्णीति (जर्घृण्णीति )इत्यादि (अजर्घृन् ) इत्यत्र संयोगान्तलोपस्यासिद्धत्वान्न गुणः, "पदान्तस्य'' इति णत्वं 433
कृदन्तरूपमाला
Sanskrit
1 {@“घिणि ग्रहणे”@} 2 3 घिण्णकः-ण्णिका, घिण्णकः-ण्णिका, जिघिण्णिषकः-षिका, जेघिण्णकः-ण्णिका
4 घिण्णिता-त्री, घिण्णयिता-त्री, जिघिण्णिषिता-त्री, जेघिण्णिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकक्लिन्दतिवत् 5 बोध्यानि।
6 प्रघिण्ण्य।
प्रासङ्गिक्यः
01
=>
(४६२)
02
=>
(१-भ्वादिः-४३४। सक। सेट्। आत्म।)
03
=>
[[४। ‘इदितो नुम् धातोः’ (७-१-५८) इति नुमि, ‘ष्टुना ष्टुः’ (८-४-४१) इति तस्य ष्टुत्वेन णकारे रूपम्।]]
04
=>
[पृष्ठम्०४५३+ २१]
05
=>
(२८४)
06
=>
[[आ। ‘प्रघिण्णय भूषाः परिघुण्ण्य मालिकाः प्रघृण्ण्य घोणापुटघूर्णिचन्दनम्।’ धा। का। १। ५७।]]