| YouTube Channel

घाबकः-विका (ghAbakaH-vikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“धूञ् कम्पने”@} 2 प्वादिः ल्वादिश्च।
‘धूनयति धवति धवते, धुनोति धुनुते, धुनाति धुनीते।
धूनोति धूनुते स्युः पदानि कम्पे, विधूनने धुवति।।’ 3 इति देवः।
घाबकः-विका, धूनकः-निका, दुधूषकः-षिका, दोधूयकः-यिका
इत्यादीनि सर्वाण्यपि रूपाणि पूर्वोक्तधूञ्धातुवत् 4 बोध्यानि।
5 धुनन्-ती, 6 धुनानः, धूनः, 7 धूनिः, इमानि रूपाणि अस्य धातोः भवन्तीति विशेषः।
8
प्रासङ्गिक्यः
01
=>
(९०७)
02
=>
(९-क्र्यादिः-१४८७। सक। वेट्। उभ।)
03
=>
(श्लो। २६)
04
=>
(९०६)
05
=>
[[२। शतरि, ‘क्र्यादिभ्यः--’ (३-१-८१) इति श्नाप्रत्यये, ‘प्वादीनां ह्रस्वः’ (७-३-८०) इति ह्रस्वे रूपम्। एवं शानजन्तेऽपि प्रक्रिया ज्ञेया।]]
06
=>
[[B। ‘नागं ददर्श पटपूर्णमुखं धुनानं कर्णों शृणन्तमखिलानभिपूर्तरोषम्।।’ धा। का। ३। ६।]]
07
=>
[[३। ‘ॠल्वादिभ्यः क्तिन् निष्ठावद् वक्तव्यः’ (वा। ८-२-४४) इति क्तिनस्तकारस्य नकारः।]]
08
=>
[पृष्ठम्०८०३+ २५]