| YouTube Channel

घातक (ghAtaka)

 
शब्दसागरः
English
घातक
mfn.
(-कः-का-कं) A murderer, a maimer, &c.
E.
हन् as above,
with ण्वुल्
aff.
हननकर्त्तरि.
Capeller Eng
English
घातक
f.
=
prec.
a.
m.
slayer, murderer.
Yates
English
घातक (कः) 1.
m.
A murderer.
Spoken Sanskrit
English
घातक - ghAtaka -
adj.
- murderer
घातिन् - ghAtin -
adj.
- murderer
घ्न - ghna -
adj.
- murderer
प्रमापण - pramApaNa -
adj.
- murderer
हन्तृ - hantR -
adj.
- murderer
मारक - mAraka -
m.
- murderer
वधक - vadhaka -
m.
- murderer
उन्माथ - unmAtha -
m.
- murderer
जीवान्तक - jIvAntaka -
m.
- murderer
ताडक - tADaka -
m.
- murderer
वधोद्यत - vadhodyata -
m.
- murderer
वृकति - vRkati -
m.
- murderer
शिरि - ziri -
m.
- murderer
स्त्रीहन्तृ - strIhantR -
m.
- murderer
आततायिन् - AtatAyin -
adj.
- a murderer
जायाघ्न - jAyAghna -
adj.
- wife-murderer
अहङ्घात - ahaGghAta -
m.
- self-murderer
बालघ्न - bAlaghna -
m.
- child-murderer
भ्रूणहन्तृ - bhrUNahantR -
m.
- any mean murderer
गुरुहन् - guruhan -
m.
- murderer of a Guru
ब्रह्महन् - brahmahan -
adj.
- murderer of a Brahman
स्त्रीबालघातिन् - strIbAlaghAtin -
m.
- murderer of women and children
पितृव्यघातिन् - pitRvyaghAtin -
m.
- murderer of his father's brother
घातक ghAtaka
adj.
killer
घ्न ghna
adj.
killer
हनन hanana
adj.
killer
हन् han
adj.
killer
घन ghana
adj.
killer
हन्तृ hantR
m.
killer
मारक mAraka
m.
killer
निहन्तृ nihantR
m.
killer
निषूदक niSUdaka
m.
killer
शमयितृ zamayitR
m.
killer
शमितृ zamitR
m.
killer
शिरि ziri
m.
killer
श्नथितृ znathitR
m.
killer
निहन् nihan
m.
killer
गोघात goghAta
m.
cow-killer
गोहन्तृ gohantR
m.
cow-killer
जनमरक janamaraka
m.
men-killer
परहन् parahan
m.
foe-killer
तृणकघ्न tRNakaghna
m.
weed killer [ herbicide ]
जन्तुमारिन् jantumArin
m.
worm-killer
घातक ghAtaka
adj.
deadly
कालकल्प kAlakalpa
adj.
deadly
कालतुल्य kAlatulya
adj.
deadly
नैधन naidhana
adj.
deadly
प्राणच्छिद् prANacchid
adj.
deadly
प्राणाद prANAda
adj.
deadly
प्राणापहारिन् prANApahArin
adj.
deadly
विषतुल्य viSatulya
adj.
deadly
विशसन vizasana
adj.
deadly
वधना vadhanA
f.
deadly weapon
वध vadha
m.
deadly weapon
हलाहल halAhala
n.
deadly poison
घातकविष ghAtakaviSa
n.
deadly poison
वधत्र vadhatra
n.
deadly weapon
मारक mAraka
m.
any deadly disease
कीदृक् मारात्मक-विचार kIdRk mArAtmaka-vicAra
m.
What a deadly idea.
हलाहल halAhala
m.
n.
kind of deadly poison
हहल hahala
n.
sort of deadly poison
हालहल hAlahala
n.
sort of deadly poison
वधस्नु vadhasnu
adj.
wielding a deadly weapon
शतघ्नी zataghnI
f.
particular deadly weapon
सौनधर्म्य saunadharmya
n.
state of deadly hostility
संविमर्द saMvimarda
m.
sanguinary or deadly battle
शतघ्नी zataghnI
f.
deadly disease of the throat
हालाहल hAlAhala
n.
deadly poison prepared from the roots of the halAhala plant
Wilson
English
घातक
m.
(-कः) A murderer, a maimer, &c.
E.
हन as above, with ण्वुल्
aff.
Apte
English
घातक [ghātaka],
a.
[इन्-णिच् ण्वुल्] Killing, destroying, a killer, destroyer, murderer
&c.
Ms.*
5.51.
Apte 1890
English
घातक a. [हन्-णिच् ण्वुल्] Killing, destroying, a killer, destroyer, murderer &c.
Monier Williams Cologne
English
घातक mf(ई,
Vet.
i, 19/20
इका)n. killing, killer, murderer,
Mn.
v, 51
MBh.
&c.
destroying, ruining, iii, 1277
(See विश्वास-)
घातक mf(ई)n. made of the Ghātaka (= Vadhaka) wood,
ĀśvŚr.
ix, 7, 8.
Monier Williams 1872
English
घातक, अस्, ई, अम्, killing, a killer, a murderer
destroying, a destroyer (used at the end of comp.
cf. विश्वास-घातक).
Benfey
English
घातक घातक, i. e. हन्, Caus.,
+ अक,
adj.
and s.,
f.
की।
1. A murderer,
Man. 5, 51
Lass. 12, 12.
2. Destroy-
ing, MBh. 3, 1277.
--
Comp.
विश्वास-,
m.
a traitor, Pañc. 52, 15.
Apte Hindi
Hindi
घातक
वि* - हन् - ण्वुल्
"मारनेवाला, संहार करने वाला, हत्यारा, संहारक, क़ातिल, वध करने वाला"
Shabdartha Kaustubha
Kannada
घातक
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಕೊಲ್ಲುವವನು
निष्पत्तिः - > हन (हिंसागत्योः) - "ण्वुल्" (३-१-१३३)
प्रयोगाः - > "अनुमन्ता विशसिता निहन्ता क्रयविक्रयी संस्कर्ता चोपहर्ता खादकश्चेति घातकाः ॥"
उल्लेखाः - > मनु० ५-५१
L R Vaidya
English
GAtaka {% a. (f. का) %} a killer, a destroyer, a murderer.
Kridanta Forms
Sanskrit
हन् (ह॒नँ꣡ हिंसागत्योः - अदादिः - अनिट्)
ल्युट् = हननम्
अनीयर् = हननीयः - हननीया
ण्वुल् = घातकः - घातिका
तुमुँन् = हन्तुम्
तव्य = हन्तव्यः - हन्तव्या
तृच् = हन्ता - हन्त्री
क्त्वा = हत्वा
ल्यप् = प्रहत्य
क्तवतुँ = हतवान् - हतवती
क्त = हतः - हता
शतृँ = घ्नन् - घ्नती
Schmidt Nachtrage zum Sanskrit Worterbuch
German
घातक , f. nur in der Bedeutung 1. c), sonst घातिका.
Wordnet
Sanskrit
Synonyms:
प्राणान्तक, प्राणघातक, घातक, प्राणहारक
adjective
यद् प्राणहरणे समर्थः।
"कैकय्या प्रार्थिताः वराः राज्ञे दशरथाय प्राणान्तकाः आसन्। "
अभिधानरत्नमाला
Sanskrit
शरारु
शरारु, घातक, हिंस्र, नृशंस, क्रूरकर्मकृत्
शरारुर्घातको हिंस्रो नृशंसः क्रूरकर्मकृत्
verse 2.1.1.372
page 0044
शब्दकल्पद्रुमः
Sanskrit
घातकः, त्रि, (हन्तीति हन् + ण्वुल् णिति-तान्तादेशे कुत्वम् ।) हननकर्त्ता यथा, --“गौरीमाघवयोर्भर्त्ता राधिका शिवसन्निघौ ।इन्दुः कुमुदहन्ता सूर्य्यः कमलघातकः
”इति विदग्धमुखमण्डनम्
(तथा मनुः ५१ ।“संस्कर्त्ता चोपहर्त्ता खादकश्चेतिघातकाः
”)
वाचस्पत्यम्
Sanskrit
घातक
त्रि०
घातयति हन--ण्वुल् हननकर्त्तरि “अनु-मन्ता विशसिता निहन्ता क्रयविक्रयी संस्कर्त्ता चोप-हर्त्ता खादकश्चेति धातकाः” मनुः अत्र खादक-स्यापि घातकत्वमुक्तं मिताक्षरायां तु कर्त्तप्रयोजका-दीनां घातकत्वं समर्थितं यथा“हन्तिरयं प्राणवियोगकरे व्यापारे रूढः यद्व्यापार-समनन्तरङ्कालान्तरे वा कारणान्तरनिरपेक्षः प्राण-वियोगो भवति ब्राह्मणं हतवानिति ब्रह्महा” ।“तथाशब्दः प्रकारवचनोऽनुग्राहकप्रयोजकादिकर्त्तृसंग्रहार्थः अनुग्राहकश्च यः पलायमानममित्रमुपरुन्धन्परेभ्यश्च हन्तारम्परिरक्षन् हन्तुर्द्रढिमानमुपजनयन्नुप-करोति उच्यते अतएव मनुना अनुग्राहकस्यहिंसाफलसम्बन्धो दर्शितः “बहूनामेककार्याणां सर्वे-षाम् शस्त्रधारिणाम् यद्येकोघातयेत्तत्र सर्वे ते घातकाःस्मृताः” इति तथा प्रयोजकादीनामप्यापस्तम्बेन फलसम्बन्ध उक्तः “प्रयोजयिताऽनुमन्ता कर्त्ता चेति स्वर्गनरंकफलेषु कर्म्मसु योभूय आरभते तस्मिन् फलविशेषः”इति तत्राप्रवृत्तस्य प्रवर्त्तकः प्रयोजकः त्रिप्रकारः आज्ञापयिताऽभ्यर्थयमान उपदेष्टेति तत्राज्ञा-पयिता नाम स्वयमुच्चः सन्नीचम्भृत्यादिकं यः प्रेषयतिमदीयममित्रञ्जहीति उच्यते अभ्यर्थयमानस्तु यःस्वयमसमर्थः प्रार्थनादिना मच्छत्रुं व्यापादयेति समर्थं प्रव-र्त्तयति सोऽभिधीयते अनयोश्च स्वार्थसिद्ध्यर्थमेव प्रयो-क्तृत्वम् उपदेष्टा पुनः त्वं शत्रुमित्थं व्यापादयेतिमर्मोद्घाटनाद्युपदेशपुरःसरम्प्रेरयन् कथ्यते तत्र चप्रयोज्यगतमेव फलमिति तेषाम्भेदः अनुमन्ता तुप्रवृत्तस्य प्रवर्त्तकः द्विप्रकारः कश्चित् स्वार्थसिद्ध्यर्थमनुजानाति कश्चित्परार्थमिति नन्वनुमननस्य कथंहिंसाहेतुत्वं तावत् प्राणवियोगोत्पादनेन, तस्यसाक्षात्कर्त्तृव्यापारजन्यत्वात् नापि प्रयोजकस्येव साक्षात्कर्तृप्रवृत्त्युत्पादनद्वारेण, प्रवृत्तस्य प्रवर्त्तकत्वात् चसाधु त्वया व्यवसितमिति प्रवृत्तमेवानुमन्यत इति शङ्क-नीयम् तादृशस्यानुमननस्य हिंसाम्प्रत्यहेतुत्वाद्व्यर्थ-त्वाच्च उच्यते यत्र हि राजादिपारतन्त्र्यात् स्वयं मनसाप्रवृत्तोऽपि प्रवृत्तिविच्छेदादागामिदण्डभयाद्वा शिथिलप्र-यत्नो राजाद्यनुमतिमपेक्षते तत्रानुमतिर्हन्तुः प्रवृत्तिमुपो-द्वोलयन्ती हिसाफलम्प्रति हेतुतां प्रतिपद्यते तथा योऽपिभर्त्सनेन ताडनधनापहारादिना परान् कोपयति सोऽ-पि मरणहेतुभूतमन्यूत्पादनद्वारेण हिंसाहेतुर्भवत्येव ।अतएव विष्णुनोक्तम् “आक्रुष्टस्ताडितोवापि धनैर्वापिवियोजितः यमुद्दिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्मघातकम्” ।तथा “ज्ञातिमित्रकलत्रार्थं सुहृत्क्षेत्रार्थमेव यमु-दिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्मघातकमिति” चकृतेष्वप्याक्रोशनादिषु कस्यचिन्मन्यूत्पत्त्यदर्शनादकारण-तेति शङ्कनीयम् पुरुषस्वभाववैचित्र्यात् येऽल्पतरे-णापि निमित्तेन जातमन्यबोभवन्ति तेष्वव्यभिचारइति नाकारणता एतेषाञ्चानुग्राहकप्रयोजकादीनांप्रत्यासत्तिव्यवधानापेक्षया व्यापारगतगुरुलाघवा-पेक्षया फलगुरुलाघवात् प्रायश्चित्तगुरुलाघवम्बोद्ध-व्यम् “यो भूय आरभते तस्मिन् फलविशेषः” इतिवचनात्तथाह्यनुग्राहकस्य तावत् स्वयमेव हिंसायां प्रवृत्त-त्वेन स्वतन्त्वकर्पृत्वे सत्यपि साक्षात्प्राणवियोग-फलकखङ्गप्रहारादिव्यापारयोगित्वाभावेन साक्षात्कर्पृ-वद्भूयो हिंसारम्भकत्वाभावादल्पफलत्वमल्पप्रायश्चित्तंच, प्रयोजकस्य तु स्वतन्त्रकर्तृप्रवृत्तिजनकत्वेन व्यव-हितत्वात्ततोऽल्पफलत्वं, प्रयोजकादीनां मध्ये परार्थप्रवृत्तेरुपदेष्टुरल्पफलत्वम् ननु प्रयोजकस्य हस्तस्था-नीयत्वात् प्रयोज्यस्य फलसम्बन्धो युक्तः यदि परप्रयुक्त्या प्रवर्त्तमानस्यापि फलसम्बन्धस्तर्हि स्थपतितडागखनितृप्रभृतीनामपि मूल्येन प्रवर्त्तमानानां स्वर्गादि-फलप्राप्तिप्रसङ्गः उच्यते “शास्त्रफलम्प्रयोक्तरीति”न्यायेनाधिकारिकर्तृगतफलजनका देवकुलतडागनि-र्माणादयः स्थपतितडागखनित्रादयी देवकुल-तडागादिकरणादिष्वधिकारिणोऽस्यर्गकामित्वात् अत्रपुनः परप्रयुक्त्या प्रवर्त्तमानानामप्यहिंसायामधि-कारित्वाद्भवत्येव तद्व्यतिक्रमनिबन्धनो दोषः ।अनुमन्तुस्तु प्रयोजकादप्यल्पफलत्वम्प्रयोजकव्यापारा-द्बहिरङ्गत्वाल्लघुत्वाच्च अनुमननस्य, निमित्तकर्त्तुः पुनरा-क्रोशकादेः प्रवृत्तिहतुभूतमन्युजनकत्वेन व्यवहितत्वा-न्मरणानुसन्धानं दिना प्रवृत्तत्वाच्चानुमन्तुः सकाशादल्प-फलत्वम् ननु यदि व्यवहितस्यापि कारणत्वन्तर्हिमातापित्रोरपि हन्तृपुरुषोत्पादनद्वारेण हननकर्वृत्वप्रसङ्गः उच्यते नहि पूर्वभावित्वमात्रेण कारणत्वम्अकारणस्यापि तथा भावित्वापत्तेः यत् खलु स्वरू-पातिरिक्तकार्योत्पत्त्यनुगुणव्यापारयोगि भवति तद्धि-कारणं, “यदि रथन्तरसामा सोमः स्यादैन्द्रवायवाग्रान्ग्रहान् गृह्णीयादिति” रथन्तरसामतैव क्रतीरैन्द्रवाय-वाग्रताक रणुं” हि तत्र सोमयागः स्वरूपेण कारणंव्यभिचारात् पित्रोस्तादृग्विधकारणलक्षणयोगित्वमिति नातिप्रसङ्गः अनेनैव न्यायेन धर्माभि-सन्धिना निर्मितकूपवाप्यादौ प्रमादपतितव्राह्मणादिमरणे खानयितुर्दोषाभावः हि कूपोऽनेन खानितःअतोऽहमात्मानं व्यापादयामीत्येवं कूपखननंनिमित्त-व्यापादनं यथाऽऽक्रोशादौ अतः कूपकर्तुरपि कारण-खमेव पुनर्हिंसाहेतुत्वमिति मातापिवृतुल्यतैव ।तथा क्वचिसत्यपि हिंसानिमित्ततायोगित्वे परोपकारार्थप्रवृत्तौ वचनाद्दोषाभावः यथाह संवर्त्तः “बन्धने गो-श्चिकित्सार्थे गूढगर्भविमोचने यत्ने कृते--विपत्तिश्चेत्प्रायश्चित्तं विद्यते ओषधं स्नेहमाहारन्ददद्गोब्राह्मणादिषु दीयमाने विपत्तिः स्यान्न पापेन लिप्यते ।दाहच्छेदसिराभेदप्रयत्नैरुपकुर्वताम् प्राणसन्त्राणसिद्ध्यर्थं, प्रायश्चित्तं विद्यते” इति एतच्चदानं निदाननिपुणभिषग्विषयम् इतरत्र “भिषग्मिथ्या चरन् दाप्यः”इत्यत्र दोषो दर्शितः यत्र तु मन्युनिमित्ताक्रोशनादिकमकुर्वतोऽपि नाम गृहीत्वोन्मादादिनात्मानं व्यापादयतितत्रापि दोषः “अकारणं तु यः कश्चित् द्विजः प्राणान्परित्यजेत् तस्यैव तत्र दोषः स्यान्नतु यम्परिकीर्त्तयेदिति”स्मरणात् तथा यत्राप्याक्रोशकादिजनितमन्युरात्मानंखङ्गादिना प्रहृत्य मरणादर्वागाक्रोशनादिकृता धनदा-नादिना सन्तोषितो यदि जनसमक्षमुच्चैः श्रावयति नात्रा-क्रोशकस्यापराध इति तत्रापि वचनान्न दोषः यथाहविष्णुः “उद्दिश्य कुपितो हत्वा तोषितः श्रावयेत्पुनः ।तस्मिन्मृते दोषो ऽस्ति द्वयोरुच्छ्रावणे कृते” इति ।एतेषाञ्च प्रयोजकादीनां दोषगुरुलघुभावपर्यालोचनयाप्रायश्चित्तविशेष’ वक्ष्यामः” मिता० ।प्राय० वि० तस्य पञ्चविधत्वमुक्तं यथा“प्राणवियोगफलकव्यापारोबधः तन्निष्पादकत्वञ्च साक्षात्परम्परोदासीनं स्मृतिकारपरिगणितं बधित्वम् अतोनेषुकारादिष्वतिव्याप्तिः तच्च पञ्चविधं स्मृतिस्वरसात्कर्त्ता प्रयोजकोऽनुमन्ता अनुग्राहको निमित्ती चेतियथा आपस्तम्बः “प्रयोजयिता अनुमन्ता कर्त्ता चेतिसर्व्वेस्वर्गनरकफलभोक्तारो योभूय आरभते तस्मिन्फलेविशेषः” अनुग्राहकमाह याज्ञवलक्यः “चरेद्व्रतमहत्वापि घातार्थञ्चेत् समागतः” तथा मनुः “वहू-नामेककार्य्याणां सर्व्वेषां शस्त्रधारिणाम् यद्येको-घातकस्तत्र सर्व्वते घातकाः स्मृताः” भविष्ये “यद्येकं-वहवो विप्रा घ्नन्ति विप्रमनागसम् तदेषां निष्कृतिं वच्मिशृणुष्वेकमना गुह! तेषां यस्य प्रहारेण विप्रोनिध-नंगतः सरस्वतीप्रतिस्रोतः सञ्चरेत् पापशुद्धये” सच-द्विविधः एकोबध्यप्रतिरोधकः अन्यः स्वल्पप्रहर्त्ता ।निमित्तिनमाह विष्णुः “अन्यायेन गृहीतस्वो न्याय-मर्थयते तु यः यमुद्दिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्मघा-तकम्” अत्र नरान्तरव्यापार व्यवधानेन बधनिष्पादकःकर्त्ता यः कर्त्तारं कारयति प्रयोजकः सोऽपि द्विविधः ।एकःस्वतोऽप्रवृत्तमेव पदातिं वेतनादिना बधार्थं प्रवर्त्तयतिअपरः स्वतःप्रवृत्तमेव मन्त्रोपायोपदेशादिना प्रोत्साह-यति अनुमतिदाता अनुमन्ता अनुमतिश्च द्विविधा ।एका यद्विरोधाद्धननं सम्भवति तस्य विरोधिनोमयानिरोधः कर्त्तव्यैति युक्तिरनुमतिः अपरा एनं हन्मी-तिवचने शक्तस्याप्रतिषेधः अतएव कात्यायनः “स्वं-द्रव्यं दीयमानन्तु यत् स्वामी निवारयेत् ऋक्थिभि-र्वा परेर्वापि दत्तं तेनैव तद्भृगुः” दत्तमिति दातुमनुमत-मित्यर्थः तथा “प्रार्थ्यमानोऽर्थिना यत्र योह्यर्थो नविघातितः दानकालेऽथवा तूष्णीं स्थितः सोऽर्थोऽनु-मोदितः” अत्राप्रतिषेध एवानुमतिरुक्ता अतएव“परवचनमप्रतिषिद्धमनुमतं भवतीति” न्यायविदः ।घध्यस्य पलायनादिरोधकोऽनुग्राहकः उद्देश्यत्वे सतिहन्तुर्मन्यूत्पादके निमित्ती तत्र प्रयोजकस्य कर्तृ-प्रयुक्तिद्वारेण बधकारणत्वम् अनुमन्तुश्च हन्तुर्निर्भयत्वेनदृढतरप्रहारोत्पत्तिद्वारेण, अनुग्राहकस्य पलायनाद्य-सम्भवेन हननीयस्थैर्य्यं कुर्व्वतः प्रहारस्वरूपोत्पत्तिद्वारेण कारणत्वं, निमित्तिनो हन्तृमन्यूत्पादनद्वारेणइति प्रयोजकादीनां चतुर्णां व्यवहितहननकारणानाम् अवान्तरव्यापारप्रकारभेदाद्भेदः अतःपञ्चविधं बधित्वम्”
ततोजिकनमतं प्रदर्श्य दूषयित्वा स्वमतं तेन दर्शितं यथा“तस्माच्चेतनान्तरव्यापाराव्यवधानेन धात्वर्थनिष्पादक-श्चेतनः कर्त्ता, कर्म्मकरणादिकारकचक्रप्रयोक्ता वा कर्त्तेतिसामान्येन कर्तृलक्षणः यश्च पदातिद्वारा व्राह्मणं-हन्ति तत्र पदातेः करणत्वं हननकर्म्मकाले कर्तृव्या-पारव्याप्यत्वाभाबात् वा तस्याव्यवधायकत्वं प्रमाणाभावात् खङ्गस्य तु व्यबधायकत्वेऽपि दोषः तस्य चेतनत्याभावात् वा तस्य व्यवधायकत्वं हन्तृव्यापारेहन्तुः साक्षादेव कारणत्वात् द्वैधीभावफलनिष्पत्तौ खङ्ग-व्यापारस्य सहकारितामात्रम् अतएवाश्वेन पदातिना चराजा सञ्चरतीति सत्यपि चेतनान्तरव्यापारे तस्य सह-कारितामात्रं तु व्यवधायकत्वं स्वव्यापारे राज्ञःसाक्षात्कारणत्वात् एवञ्च यजमानस्य स्वव्यापारे यागेदेवतोद्देशेन द्रव्यत्यागलक्षणे साक्षात्कारणत्वमेवप्रक्षेपादौ तदङ्गे ऋत्विगादिव्यापरः सत्रेऽपिसाधारणद्रव्यत्यागात् सप्तदशानामेब कर्त्तृत्वम् एकस्यतदसम्भबात् यागव्यतिरिक्तकर्म्मणि प्रत्येकं सप्तदशानांकर्म्मव्यबस्थ अथ बा “स्वर्गकामोयजेत” “सप्तदशावरा-ऋद्धिकामाः सत्रमुपासीरन्निति” वेदे कामिनां कर्तृत्वा-वगतेस्तदनुपपत्त्या ऋत्विग्व्यापारान्तर्भावो व्यव-धायकः आग्नेयादिकरणत्वानुपपत्तिकल्पितोत्पत्त्यपूर्व्व-मिव चेह तथा, कर्तृत्वे प्रमाणाभावात् तस्मात्पूर्व्वोक्तकर्तृलक्षणानाक्रान्तत्वादस्वतःप्रवृत्तपदातिप्रेरको नबधकर्त्ता किन्तु प्रयोजक एव अनुग्राहकोऽपि नकर्त्ता कर्तृलक्षणाव्याप्यत्वात् सत्रे तु विशेष उक्तएव पाक्षिकमरणानुमन्तृत्वान्निमित्तिनोऽनुमन्तृत्वमयु-क्तम् एवं प्रयोजकस्यानुमन्तृत्वापत्तेः अतो मन्यूत्पादनद्वारा योनिमित्तवान् निमित्तीत्यनुमन्तृतः प्रका-रान्तरएवायं प्रयोजकादिवत् अतो यथा कथञ्चिन्निमित्ततामात्रेण यदि निमित्तबधः तद मातापित्रोरिषुकारस्यापि निमित्तत्वं स्यादिति निरस्तं, ननुसत्यपि मन्यूत्पादने, निमित्तत्वं यथा वध्यस्य बध-कमन्यूत्पादकस्य, नह्यनुत्पादितमन्युः कश्चित् क-मपि व्यापादयति, असत्यपि मन्यूत्पादे निमित्तत्वं यथामरणाभिसन्धानेन अन्ने विषप्रक्षेप्तुर्नहि तस्य कर्त्तृत्वंसम्भवतिं नरान्तरविषभक्षणव्यापारव्यबधानात् अत-स्तत्रापि कर्त त्वमस्तीति भवदेवमतं निरस्तं सत्यं कर्त्त्रा-दिचतुष्टयविलक्षणो वाचनिकनिषिद्धनिमित्तमावएव नि-मित्तीति निमित्तिलक्षणं नेषुकारस्य बध्यस्य वा निमित्तभावो निषिद्धः अभक्ष्यान्नदातुश्च निषिद्ध एव अहितमाहारादिकं मरणफलकं हितनिश्चयेन क्रियमाणं पाप-हेतुरिति वदता अहितं मरणफलकमहितबुद्ध्या क्रिय-माणं पापहेतुरिति दर्शितं निमित्तबधापवादकवचनेन, एतच्च वक्ष्यते एवं यत्रामिसन्धानं नास्ति हेत्वनरव्यवस्था-पितं विषं खादित्वा कश्चिन्म्रियते तत्र बधित्वम् एवंव्याघ्रादिमारणार्थकृतयन्त्रादावन्यस्य मरणे बधित्वम्एवंकूपखातादावपि मरणाभिसन्धाने तु तत्रास्त्येव तथायः कश्चित् संशयस्थाने प्रस्थाप्यते बलवती मरणाशङ्काभवति तत्र प्रस्थापितोयदि म्रियते तत्र बधित्वं, पाक्षिकमरणाभिसन्धानात् अतएवेतरनिमित्तिनो विषक्षेप्तुर्जघन्य-त्वम् तथा याज्ञवल्क्यः “कृच्छ्रत्रयं गुरुः कुर्य्यातम्रियेत प्रहितो यदि” वौधायनः “गुरुः प्रयुक्तश्चेन्म्रियतेगुरुस्त्रीन् कृच्छ्रान् चरेत्” उपकाराचरणेन बधनिष्पत्तौनिमित्तबधापवादमाह संवर्त्तः” “औषधं स्नेहमाहारंददद्गोव्राह्मणेषु प्राणिनां प्राणवृत्त्यर्थं प्रायश्चित्तंन विद्यते” यन्त्रणे गोश्चिकित्सायां मूढगर्भविमोचने ।यत्ने कृते विपत्तिः स्यात् प्रायश्चित्तं विद्यते” मूढगर्भोऽन्तर्मृतगर्भः तथा “दाहच्छेदसिराभेदप्रयत्नैरुपकुर्व्व-ताम् द्विजानां गोहितार्ेषु प्रायश्चित्तं विद्यते” ।याज्ञवल्क्यः “क्रियमाणोपकारे तु मृते विप्रे पातकम् ।यिपाके गोवृषाणाञ्च भेषजाग्निक्रियासु च” विशेषमाहाङ्गिराः “औषधे तु दोषोऽस्ति स्वेच्छयापिवते यदि अन्यथा दीयमाने तु प्रायश्चित्तं सं-शयः” मन्यूत्पादने निमित्तवधमाह वृद्ध शातातर्पः“गोभूहिरण्यहरणे स्त्रीसम्बन्धकृतेऽपि यमु-द्दिश्य त्यजेत् प्राणांस्तमाहुर्व्रह्मघातकम्” विष्णुः“अन्थायेन गृहीतस्वो न्यायमर्थयते तु यः यमुद्दिश्यत्यजेत् प्राणांस्तमाहुर्ब्रह्मघातकम्” तथा वृहस्पतिनाम्ना पठितानि वचनानि “ज्ञातिमित्रकलत्रार्थं सुहृत्-क्षेत्रार्थमेव यमुद्दिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्मघातकम् गोभूहिरण्यहरणे स्त्रीणां क्षेत्रगृहस्य ।यमुद्दिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्मघातकम् गुर्व्वर्थंपितृमात्रर्थमात्मार्थमथ वा पुनः यमुद्दिश्य त्यजेत् प्राणांस्तग्राहुर्ब्रह्म घातकम्” षट्त्रिंशन्मतमिति कृत्वा पठितम्“आक्रोशितस्ताडितो वा धनै र्वा परिपीडितः यमुद्दिश्यत्यजेत् प्राणांस्तमाहुर्ब्रह्मघातकम्” अत्रोद्दिश्येतिसर्वत्र कीर्त्तनात् उद्देशाभावे निमित्ततामात्रेण बधित्वंनास्ति, अर्थादिहरणाक्रोशनताडनादीनां मन्युकारणा-नामुपात्तत्वादेतेषामभावे धनाद्यर्थं वृक्षारोहणादिनाये म्रियन्ते तत्र कीर्त्तनमात्रेण निमित्तबधोनास्तितथा पठन्ति “असम्बन्धेन यः कश्चित् द्विजः प्राणान्परित्यजेत् तस्यैव तद्भवेत् पापं तु यं परिकीर्त्तयेत्” ।असम्बन्धेनेति वाक्कृतादिसकलापराधसम्बन्धाभाव परम् ।यच्च “सम्बन्धेन विना देव! शुष्कवादेन कोपितः” ।इति भविष्यपुराणवचनं वार्पिकप्रायश्चित्तविधायकम् तत्वाक्कृतेतरापराधसम्बन्धाभाबपरं “शुष्कवादेन कोपितः”इत्यभिधानात् एवं यत्राक्रोशनादौ पश्चात्कृतेना-पराधः तत्रापि बधः यथा वृहस्पतिः “आक्रुष्टस्तु यदाऽऽक्रोशंस्ताडितः प्रतिताडयन् हत्वाततायिन-ञ्चैव नापराधी भवेन्नरः” शास्त्रविहितताडनादौ कृतेयत्र शिष्यादिर्म्रियते तत्रापि वधो नास्त्येव यथा भविष्यपुराणे “पत्रः शिष्यस्तथा भार्य्या शासितश्चेद्विनश्यति ।न शास्ता तत्र दोषेण लिप्यते देवसत्तम!” अशास्त्वायताडनादौ भवत्येव यथा मनुः “पुत्रः शिष्यस्तथा भार्य्यादासी दासस्तु पञ्चमः प्राप्तापराधास्ताड्याः स्यूरज्ज्वावेणुदलेन वा अधस्तात्तु प्रहर्त्तव्यं नोत्तमाङ्गे कदाचन ।अतोऽन्यथा तु प्रहरंश्चौरस्याप्नोति किल्विषम्” एवञ्चविहितदण्डाचरणे शास्त्रीयकरग्रहणे क्रियमाणे यदिम्रियते तदापि बधोनास्त्येव दण्डादिशास्त्रविधिविरो-धान्निषेधाप्रवृत्तेः सोमविक्रयणे तु रागादेव प्रवृत्तिसम्भवान्न विरोधः आततायिबधापवादमाह वृहस्पतिः“नाततायिवधे हन्ता किल्विषं प्राप्नुयात् क्वचित् विना-शिनमथायान्तं घातयन्नापराध्नुयात्” किल्विषाभावः प्राय-श्चित्तनिषेधार्थः अप्रराधाभावोदण्डनिषेधार्थः यतः“सर्व्वत एवात्मानं गोपायीत इति श्रुतिमूलमिदम् अतःपलायनादिनापि आत्मरक्षणाभावे इदं बोद्धव्यम् ।कात्यायनः “आततायिनमायान्तमपि वेदान्तपारगम् ।जिघांसन्तं जिघांसीयान्न ते ब्रह्महा भवेत्” जिघांसीसन् इयात् गच्छेदित्यर्थः देवलः “उद्यम्य शस्त्रमायान्तंभ्रूणमप्याततायिनम् निहत्य भ्रूणहा स्यादहत्वाभ्रूणहा भवेत्” भ्रूणो ब्राह्मणविशेषः दोषदर्शनंनियमार्थम् मनुविष्णू “गुरुं वा बालवृद्धौ वाब्राह्मणं वा वहुश्रुतम् आततायिनमायान्तं हन्यादेवा-विचारयन्” एवकारो नियमार्थः “तथा नात-तायिवधे दोषोहन्तुर्भवति कश्चन प्रकाशं वाऽप्रकाशंवा मन्युस्तन्मन्युमृच्छति” यस्माद्धन्तुर्मन्युर्हन्यमानमन्युं नाशयति पुनः पुरुषोहन्ति हन्यते वेतिहननबिधेरनुवादः “आततायिनमाह वशिष्ठः”“अग्निदोगरदश्चैव शस्त्रपाणिर्धनापहः क्षेत्रदारा-पहारी षडेते आततायिनः” विष्णुकात्या-यनौ “उद्यतासिविषाग्निञ्च शापोद्यतकरं तथा ।आथर्वणेन हन्तार पिशुनञ्चैव राजसु भार्य्याति-क्रमिणञ्चैत विद्यात् सप्ताततायिनः यशोवृत्तहृरान-ऽन्यानाहुर्धर्म्मार्थहारकान्” विशेषमाह कात्यायनः”“अनाक्षारितपूर्व्वोयस्त्वपराधे प्रवर्त्तते प्राणद्रव्या-पहारे प्रवृत्तस्याततायिता” अनाक्षारितोऽनपकृतः ।एतेन पूर्व्वकृतापकारस्य मारणोद्यतस्य नाततायितातेन प्रत्यपकारिबधे दोष एव ननु आततायिनोरपिगोब्राह्मणयोर्हनने दोषमाह सुमन्तुः “आततायिबधे नदोषोऽन्यत्र गोब्राह्मणात् यदा हन्यात् तदा प्रायश्चित्तंकुर्य्यात्” तथा भविष्ये “क्षिण्वानमपि गोविप्रं ह-न्याद्बै कदाचन” इति अतः पूर्व्ववचनविरोधः तत्र व्यव-स्थामाह कात्यायनः “आततायिनि चोत्कृष्टे तपःस्वा-ध्यायजन्मतः बधस्तव तु नैव स्यात् पापे हीने बधो-भृगुः” जन्मपदेन जातिः कुलञ्चोच्यते तेन हन्त्रपेक्षयातवोविद्याजातिकुलैरुत्कृष्टोनाततायी बध्यएव अतएवभगवद्गीतायामाह “पापमेवाश्रयेदस्मान् हत्वैताना-ततायिनः” इति एतान् भीष्मादीन् अत्यन्तोत्कृष्टगुणा-नित्यर्थः एवम्भूताततायिनश्चाहनने फलमप्याह वृह-स्पतिः “आततायिनमुत्कृष्टं वृत्तस्वाध्यायसंयुतम् ।यो हन्याद्बधप्राप्तं सोऽश्वमेधफलं लभेत्” यद्यपि “गुरुंबहुश्रुतंहन्यात्” इति श्रूयते तथापि गुरोः सकाशात्कुलविद्यातपोभिः शिव्यस्याऽप्युत्कर्षसम्भवात् एवं बहु-श्रुतादपि एवमधमवर्णस्योत्तमवर्णो बध्यः पूर्वकृता-पराधविषयं वा सुमन्तुवचनम् गौरातताय्यपि बध्यः“नखिनां शृङ्गिणां चैव दंष्ट्रिणामाततायिनाम् ।हस्त्यश्वानां तथान्येषां बधे हन्ता दोषभाग्”इति कात्यायनवचनं गोव्यतिरिक्तशृङ्गिविषयम् विशेष-माह कात्यायनः “उद्यतानान्तु पापानां हन्तुर्दोषोन विद्यते निवृत्तास्तु यदारम्भाद्ग्रहणंन बधः-स्मृतः” तन्त्रोक्ते ग्राह्यमन्त्रसाधकयोः शुभाशुभज्ञापकेराशिचक्रस्थे साधकराश्यपेक्षया साध्यराशेर्द्वादशाष्टचतुःसंख्यान्विते कोष्ठेऽवस्थाने चक्रशब्दे राशिचक्रंवक्ष्यते तत्र विवृतिः “वह्निरुद्रमुनयस्तु पोषका द्वाद-शाष्टचतुरस्तु घातकाः” एतच्च विष्णुविषयम् रामार्च्चन-चन्द्रिकाधृतत्वात्” कृष्णानन्दः
Capeller
German
घातक
f.
tötend, vernichtend
m.
Mörder.