| YouTube Channel

घर्णयमानः (gharNayamAnaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“घृणु दीप्तौ”@} 2 3 घर्णकः-र्णिका, घर्णकः-र्णिका, जिघर्णिषकः-षिका, 4 जरीघृणकः-णिका
घर्णिता-त्री, घर्णयिता-त्री, जिघर्णिषिता-त्री, जरीघृणिता-त्री
5 घृण्वन्-ती, घर्णयन्-न्ती, जिघर्णिषन्-न्ती
-- घर्णिष्यन्-न्ती-ती, घर्णयिष्यन्-न्ती-ती, जिघर्णिषिषिष्यन्-न्ती-ती
-- घृण्वानः, घर्णयमानः, जिघर्णिषमाणः, जरीघृण्यमानः
घर्णिष्यमाणः, घर्णयिष्यमाणः, जिघर्णिषिष्यमाणः, जरीघृणिष्यमाणः
6 घृण्-घृणौ-घृणः
-- -- -- 7 घृतम्-तः, घर्णितः, जिघर्णिषितः, जरीघृणितः-तवान्
घृणः, घर्णः, जिघर्णिषुः, जरीघृणः
घर्णितव्यम्, घर्णयितव्यम्, जिघर्णिषितव्यम्, जरीघृणितव्यम्
8 घर्णनीयम्, घर्णनीयम्, जिघर्णिषणीयम्, जरीघृणनीयम्
9 घृण्यम्, घर्ण्यम्, जिघर्णिष्यम्, जरीघृण्यम्
ईषद्घर्णः-दुर्घर्णः-सुघर्णः
-- -- घृण्यमानः, घर्ण्यमानः, जिघर्णिष्यमाणः, जरीघृण्यमानः
घर्णः, घर्णः जिघर्णिषः, जरीघृणः
घर्णितुम्, घर्णयितुम्, जिघर्णिषितुम्, जरीघृणितुम्
10 घृणा, 11 घृणिः 12, घर्णना, जिघर्णिषा, जरीघृणा
घर्णनम्, घर्णनम्, जिघर्णिषणम्, जरीघृणनम्
13 घर्णित्वा-घृत्वा, घर्णयित्वा, जिघर्णिषित्वा, जरीघृणित्वा
14 संघृत्य, संघर्ण्य, सञ्जिघर्णिष्य, सञ्जरीघृण्य
घर्णम् २, घर्णित्वा २। घ्र्त्वा २, घर्णम् २, घर्णयित्वा २, जिघर्णिषम् २, जिघर्णिषित्वा २, जरीघृणम्
जरीघृणित्वा २।
प्रासङ्गिक्यः
01
=>
(४७९)
02
=>
(८-तनादिः-१४६९। अक। सेट्। उभ।)
03
=>
[[२। ‘पुगन्तलघूपधस्य च’ (७-३-८६) इति ऋकारस्य गुणः।]]
04
=>
[[३। ‘रीगृदुपधस्य च’ (७-४-९०) इत्यभ्यासस्य रीगागमः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
05
=>
[[४। ‘तनादिकृञ्भ्य उः’ (३-१-७९) इति उः विकरणप्रत्ययः। ‘इको यणचि’ (६-१-७७) इति यण्। एवं ‘घृण्वानः’ इत्यत्रापि ज्ञेयम्।]]
06
=>
[[५। विचि प्रत्यये रूपमेवम्। क्विपि तु अनुनासिकस्य, ‘गमादीनामिति वक्तव्यम्’ (वा। ६-४-४०) इत्यनेन लोपे, ‘ह्रस्वस्य--’ (६-१-७१) इति तुकि ‘घृत्-घृतौ- घृतः’ इति रूपं भवति।]]
07
=>
[[६। उदित्त्वेन क्त्वायामिडूविकल्पनात्, ‘यस्य विभाषा’ (७-२-१५) इति निष्ठाया इण्णिषेधे, ‘अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति’ (६-४-३७) इत्यनुनासिकलोपे रूपम्।]]
08
=>
[पृष्ठम्०४६४+ २४]
09
=>
[[१। ‘ऋदुपधाच्चाकॢपिचृतेः’ (३-१-११०) इति क्यप्।]]
10
=>
[[२। भिदादेः (३-३-१०४) आकृतिगणत्वात् स्त्रियाम् अङ्।]]
11
=>
[[३। ‘इक् कृष्यादिभ्यः’ (वा। ३-३-१०८) इति स्त्रियां इक्। घृणिः = दीप्तिः।]]
12
=>
[[आ। ‘कंसस्तृणीकृतरिपुर्घृणिमान् वताप्तिं मन्वान एकमथ मञ्चमलञ्चकार।।’ धा। का। ३।४।]]
13
=>
[[४। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इट्पक्षे, ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधात् गुणः। इडभावपक्षेऽनुनासिकलोपः।]]
14
=>
[[५। ‘वा ल्यपि’ (६-४-३८) इत्यत्र व्यवस्थितविभाषाश्रयणेन तनोत्यादीनां नित्यमनुनासिकलोपो भवति ल्यपि परतः। अनन्तरं तुक्।]]