| YouTube Channel

घण्टाकर्ण्ण (ghaNTAkarNNa)

 
वाचस्पत्यम्
Sanskrit
घण्टाकर्ण्ण
पु०
शिवानुचरभेदे (घेँटु) ख्याते “घण्टाकर्णो-गणः श्रीमान् शिवस्यातीव बल्लभः” शिवपु० मीनसंक्रा-न्तौ तस्य पूज्यतामाह कृत्यचिन्तामणौ “चैत्रे मासिच संपूज्यो घण्टाकर्णो घटात्मकः आरोग्यायस्नुहीमूले संक्रान्त्यां तत्र कारयेत्” पूजामन्त्रः ।“घण्टाकर्ण! महावीर! सर्व्वव्याधिविनाशन! वि-स्फोटकभये प्राप्ते रक्ष रक्ष महाबल!” ति० त० ।२ काशीस्थे ह्रदभेदे “इयञ्च चित्रघण्टेशी घण्टाकर्ण-स्त्वयं ह्रदः” काशी० ३३ अ०