| YouTube Channel

घण्टाकर्णः (ghaNTAkarNaH)

 
Apte Hindi
Hindi
घण्टाकर्णः
पुं*
- -
शिव का एक गण
घण्टाकर्णः
पुं*
- -
एक राक्षस का नाम
शब्दकल्पद्रुमः
Sanskrit
घण्टाकर्णः,
पुं,
(घण्टावत् कर्णो यस्य ।) शिव-गणविशेषः घेँटु इति ख्यातः यथा, --“घण्टाकर्णो गणः श्रीमान् शिवस्यातीवल्लभः
”इति शिवपुराणम्
तस्य पूजाविधिर्यथा, --“चैत्रे मासि संपूज्यो घण्टाकर्णो घटात्सकः ।आरोग्याय स्नुहीमूलं संक्रान्त्यां तत्र कारयेत्
”पूजामन्त्रो यथा, --“घण्टाकर्ण ! महावीर ! सर्व्वव्याधिविनाशन ! ।विस्फोटकभये प्राप्ते रक्ष रक्ष महाबल !
”इति तिथ्यादितत्त्वे रविसंक्रान्तिप्रकरणम्
(काशीस्थह्रदविशेषः यथा, काशीखण्डे ।३३ १७५ ।“इयं हि चित्रघण्टे शी घण्टाकर्णस्त्वयं ह्रदः
”)