| YouTube Channel

घण्टकः (ghaNTakaH)

 
शब्दकल्पद्रुमः
Sanskrit
घण्टकः,
पुं,
(घण्ट + संज्ञायां कन् ।) क्षुपविशेषः ।घेँट्कोण इति भाषा अस्य मूलगुणाः कफ-नाशित्वम् कटुपाकित्वम् पित्तकारित्वञ्च ।इति राजवल्लभः
घण्टकर्णोऽपि पाठः
द्यराटा, स्त्री (द्यण्टयति दीप्यते पूजादिकालेवाद्येन शाभत, घण्टयति शब्दायते वा घटिदीप्तौ + अच् ततष्टाप् ।) कांस्यनिर्म्मितवाद्य-विशेषः यथा, स्मृतिः ।“सर्व्ववाद्यमयी घण्टा वाद्याभावे नियोजयेत्
”“शङ्खो यस्य गृहे नास्ति घण्टा वा गरुडान्विता ।पुरतो वासुदेवस्य भागवतः कलौ
”इति पद्मपुराणे पातालखण्डम्
अथ घण्टामाहात्म्यमुक्तञ्च स्कान्दे श्रीब्रह्म-नारदसंवादे यथा, --“स्नानार्च्चनक्रियाकाले घण्टानादं करोति यः ।पुरतो वासुदेवस्य तस्य पुण्यफलं शृणु
वर्मकोटिसहस्राणि वर्षकोटिशतानि ।वसते देवलोके तु अप्सरोगणसेवितः
सर्व्ववाद्यमयी वण्टा केशवस्य सदा प्रिया ।वादनाल्लभते पुण्यं यज्ञकोटिसमुद्भवम्
वादित्रनिनदैस्तूर्य्यगीतमङ्गलनिःखनैः ।यः स्नापयति गोविन्दं जीवन्मुक्तो भवेद्धि सः
वादित्राणामभावे तु पूजाकाले हि सर्व्वदा ।घण्टाशब्दो नरैः कार्य्यः सर्व्ववाद्यमयी यतः
सर्व्ववाद्यमयी घण्टा देवदेवस्य वल्लभा ।तस्मात् सर्व्वप्रयत्नेन घंण्टानादन्तु कारयेत्
मन्वन्तरसहस्राणि मन्वन्तरशतानि ।घण्टानादेन देवेशः प्रीतो भवति केशवः
*
तथा, विष्णुधर्म्मोत्तरे श्रीभगवत्प्रह्लादसंवादे ।“शृणु दैत्येन्द्र ! वक्ष्यामि घण्टामाहात्म्यमुत्तमम् ।प्रह्लाद ! त्वत्समो नास्ति मद्भक्तो भुवनत्रये
मम नामाङ्किता घण्टा पुरतो मम तिष्ठति ।अर्च्चिता वैष्णवगृहे तत्र मां विद्वि दैत्यज !
वैनतेयाङ्कितां घण्टां सुदर्शनयुतां यदि ।ममाग्रे स्थापयेद्यस्तु देहे तस्य वसाम्यहम्
यस्तु वादयते घण्टां वैनतेयेन चिह्निताम् ।धूपे नीराजने स्नाने पूजाकाले विलेपने
मामाग्रे प्रत्यहं वत्स ! प्रत्येकं लभते फलम् ।मखायुतं गोयुतञ्च चान्द्रायणशतोद्भवम्
विधिवाह्यकृता पूजा सफला जायते नृणाम् ।घण्टानादेन तुष्टोऽहं प्रयच्छामि स्वकं पदम्
नागारिचिह्निता घण्टा रथाङ्गेन समन्विता ।वादनात् कुरुते नाशं जन्ममृत्युभयस्य
गरुडेनाङ्कितां घण्टां दृष्ट्वाहं प्रत्यहं सदा ।प्रीतिं करोमि दैत्येन्द्र ! लक्ष्मीं प्राप्य यथाधनः
दृष्ट्वानृतं यथा देवाः प्रीतिं कुर्व्वन्त्यहर्निशम् ।सुपर्णे तथा प्रीतिं घण्टाशिखरमास्थिते
स्वकरेण प्रकुर्व्वन्ति घण्टानादं सुभक्तितः ।मदीयार्च्चनकाले तु फलं कोट्यैन्दवं कलौ
”अन्यत्र ।“घण्टादण्डस्य शिखरे सचक्रं स्थापयेत्तु यः ।गरुडं वै प्रियं विष्णोः स्थापितं भुवनत्रयम्
सचक्रघण्टानादन्तु मृत्युकाले शृणोति यः ।पापकोटियुतस्यापि नश्यन्ति यमकिङ्कराः
सर्व्वे दोषाः प्रलीयन्ते घण्टानादे कृते हरौ ।देवतानां मुनीन्द्राणां पितॄणामुत्सवो भवेत्
अभावे वैनतेयस्य चक्रस्यापि संशयः ।घण्टानादेन भक्तानां प्रसादं कुरुते हरिः
गृहे यस्य भवेन्नित्यं घण्टा नागारिसंयुता ।न सर्पाणां तत्र भयं नाग्निविद्युत्समुद्भवम्
यस्य घण्टा गृहे नास्ि शङ्खश्च पुरतो हरेः ।कथं भागवतं नाम गीयते तस्य देहिनः
”“अतो भगवतः प्रीत्यै घण्टा श्रीगरुडान्विता ।संग्राह्या वैष्णवैर्यत्नाच्चक्रेणोपरि मण्डिता
गीतं नृत्यं पुराणादिपठनञ्च प्रशस्यते
”इति श्रीहरिभक्तिविलासे विलासः
(घण्टयति दीप्यते कुसुमादिभिरिति घटि +अच् स्त्रियां टाप् ।) घण्टापाटलिवृक्षः इतिशब्दरत्नावली
अतिबला नागबला इतिराजनिर्घण्टः
(अतिबलानागबलाघण्टापाटलि-शब्देष्वासां विवृति र्यथायथं ज्ञातव्या
)