| YouTube Channel

घट्टकः-ट्टिका (ghaTTakaH-TTikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“घट्ट चलने”@} 2 ‘घट्टयेद् घट्टते द्वे स्तां चलने णौ शपि क्रमात्’।
3 इति देवः।
घट्टकः-ट्टिका, घट्टकः-ट्टिका, जिघट्टिषकः-षिका, जाघट्टकः-ट्टिका
अित्यादीनि सर्वाण्यपि रूपाणि भौवादिककड्डधातुवत् 4 बोध्यानि।
अस्य धातोः अनुदात्तेत्त्वात् शानचि--घट्टमानः, घट्टिष्यमाणः, जिघट्टिष- माणः, जिघट्टिषिष्यमाणः
इत्यादीनि रूपाणि भवन्तीति विशेषः।
‘घट्टि- वन्दिविदिभ्यश्च’ 5 इति वचनेन घट्टना इति रूपं स्त्रियां भवति।
ल्युटि घट्टनम् 6।
7 घट्टितम्।
प्रासङ्गिक्यः
01
=>
(४५८)
02
=>
(१-भ्वादिः-२५९। सक। सेट्। आत्म।)
03
=>
(श्लो। ७३)
04
=>
(१५६)
05
=>
(वा। ३-३-१०७)
06
=>
[[B। ‘तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनया मणीनाम्।’ शिशुपालवधे ३-६।]]
07
=>
[[C। ‘तत्केलिसङ्गोष्टितलोष्टमानमद् वने मरुद्घट्टितपोस्फुटद्द्रुमे।।’ धा। का। १-३४।]]
1 {@“घट्ट चलने”@} 2 ‘घट्टयेद् घट्टते द्वे स्तां चलने णौ शपि क्रमात्’।
3 इति देवः।
घट्टकः-ट्टिका, जिघट्टयिषकः-षिका
इत्यादीनि सर्वाण्यपि चौरादिक- कुट्टधातुवत् 4 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(४५९)
02
=>
(१०-चुरादिः-१६३१। अक। सेट्। उभ।)
03
=>
(श्लो। ७३)
04
=>
(२०७)