घटोत्कचः (ghaTotkacaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishघटोत्कचः [ghaṭōtkacḥ], of a son of Bhīma by a female demon named हिडिम्बा
9.22.3-31. He was a very powerful person and fought valiantly in the great war between the Pāṇḍavas and Kauravas on the side of the former, but was slain by Karṇa with the Śakti or missile he had received from Indra
2.15. The derivation of the name is given in the आदिपर्व of महाभारत as follows: घटो हास्योत्कच इति माता तं प्रत्यभाषत । अब्रवीत्तेन नामास्य घटोत्कच इति स्म ह ॥ * 1.155.38.
Apte 1890
EnglishApte Hindi
Hindiघटोत्कचः
- -
हिडिंबा नाम की राक्षसी से उत्पन्न भीम का एक पुत्र
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit घटोत्कचः, हैडिम्बः
भीमसेनस्य हिडिम्बायाः गर्भात् जातः पुत्रः।
"महाभारते युद्धे कर्णेन घटोत्कचः हतः।"
शब्दकल्पद्रुमः
Sanskritघटोत्कचः, (घट इव उद्गतःकचोऽस्य ।)राक्षसविशेषः । स तु हिडिम्बाराक्षसीगर्भेभीमसेनाज्जातः ॥
इति महाभारतम् ॥
(अस्यनामनिरुक्त्या सह जन्मादिविवरणं यथा, महा-भारते । १ । १५६ । २१--६३ ।“तथेति तत् प्रतिश्रुत्य हिडिम्बा राक्षसी तदा ।भीमसेनमुपादाय सोर्द्ध्वमाचक्रमे ततः ॥
शैलशृङ्गेषु रम्येषु देवतायतनेषु च ।मृगपक्षिविधुष्टेषु रमणीयेषु सर्व्वदा ॥
कृत्वा च रूपं परमं सर्व्वाभरणभूषिता ।सञ्जल्पन्ती सुमधुरं रमयामास पाण्डवम् ॥
तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु ।सरःसु रमणीयेषु पद्मोत्पलयुतेषु च ॥
नदीद्वीपप्रदेशेषु वैदूर्य्यसिकतासु च ।सुतीर्थवनतोयासु तथा गिरिनदीषु च ॥
काननेषु विचित्रेषु पुष्पितद्रुमवल्लिषु ।हिमवद्गिरिकुञ्जेषु गुहासु विविधासु च ॥
प्रफुल्लशतपत्रेषु सरःस्वमलवारिषु ।सागरस्य प्रदेशेषु मणिहेमचितेषु च ॥
पत्तनेषु च रम्येषु तथैवोपवनेषु च ।देवारण्येषु पुण्येषु तथा पर्व्वतसानुषु ॥
गुह्यकानां निवासेषु तापसायतनेषु च ।सर्व्वर्त्तुफलपुष्पेषु मानसेषु सरःसु च ॥
विभ्रती परमं रूपं रमयामास पाण्डवम् ।रमयन्ती तथा भीमं तत्र तत्र मनोजवा ॥
प्रजज्ञे राक्षसीपुत्त्रं भीमसेनात् महाबलम् ।विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् ॥
भीमनादं सुताम्रौष्ठं तीक्ष्णदंष्ट्रं महारवम् ।महेष्वासं महावीर्य्यं महासत्त्वं महाभुजम् ॥
महाजवं महाकायं महामायमरिन्दमम् ।दीर्घघोणं महोरस्कं विकटोद्बद्धपिण्डिकम् ॥
अमानुषं मानुषजं भीमवेगं महाबलम् ।यः पिशाचानतीवान्यान् बभूवातीव राक्षसान् ॥
बालोऽपि यौवनं प्राप्तो मानुषेषु विशाम्पते ! ।सर्व्वास्त्रेषु परं वीरः प्रकर्षमगमद् बली ॥
सद्यो हि गर्भान् राक्षस्यो लभन्ते प्रसवन्ति च ।कामरूपधराश्चैव भवन्ति बहुरूपिकाः ॥
प्रणम्य विकचः पादावगृह्णात् स पितुस्तदा ।मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः ॥
घटो हास्योत्कच इति माता तं प्रत्यभाषत ।अब्रवीत्तेन नामास्य घटोत्कच इति स्म ह ॥
”असौ हि कुरुक्षेत्रयुद्धे कर्णनिक्षिप्तैकपुरुष-घातिन्या वासवदत्तया शक्त्या आहतोमृतश्च । यथा, महाभारते । ७ । १७७ ।४८--६३ ।“ततोऽब्रुवन् कुरवः सर्व्व एवकर्णं दृष्ट्वा घोररूपाञ्च मायाम् ।शक्त्या रक्षो जहि कर्णाद्य तूर्णंनश्यन्त्येते कुरवो धार्त्तराष्ट्राः ॥
करिष्यतः किञ्च नो भीमपार्थौतपन्तमेनं जहि पापं निशीथे ।यो नः संग्रामाद्घोररूपाद्विमुच्येत्स नः पार्थान् सबलान् योधयेत ॥
तस्मादेनं राक्षसं घोररूपंजहि शक्त्या वै दत्तया वासवेन ।मा कौरवाः सर्व्व एवेन्द्रकल्पारात्रियुद्धे कर्ण ! नेशुः सयोधाः ॥
स वध्यमानो रक्षसा वै निशीथेदृष्ट्वा रालंस्त्रास्यमानं बलञ्च ।महच्च श्रुत्वा निनदं कौरवाणांमतिं दध्रे शक्तिमोक्षाय कर्णः ॥
स वै क्रद्धः सिंह इवात्यमर्षीनामर्षयत् प्रतिघातं रणे तम् ।शक्तिं श्रेष्ठां वैजयन्तीमसह्यांसमाददे तस्य वधं चिकीर्षन् ॥
याऽसौ राजन् ! निहिता वर्षपूगान्वधायाजौ सत्कृता फाल्गुनस्य ।यां वै प्रादात् सूतपुत्त्राय शक्रःशक्तिं श्रेष्ठां कुण्डलाभ्यां निनाय ॥
तां वै शक्तिं लेलिहानां प्रदीप्तांपाशैर्युक्तामन्तकस्येव रात्रिम् ।मृत्योः स्वसारं ज्वलितामिवोल्कांवैकर्त्तनः प्राहिणोद्राक्षसाय ॥
तामुत्तमां परकायावहन्त्रींदृष्ट्वा सौतेर्ब्बाहुसंस्थां ज्वलन्तीम् ।भीतं रक्षो विप्रदुद्राव राजन् !कृत्वात्मानं विन्ध्यतुल्यप्रमाणम् ॥
दृष्ट्वा शक्तिं कर्णबाह्वन्तरस्थांनेदुर्भू तान्यन्तरीक्षे नरेन्द्र ! ।ववुर्वातास्तुमुलाश्चापि राजन् !सनिर्घाता चाशनिर्गां जगाम ॥
सा तां मायां भस्म कृत्वा ज्वलन्तीभित्वा गाढं हृदयं राक्षसस्य ।ऊर्द्ध्वं ययौ दीप्यमाना निशायांनक्षत्राणामन्तराण्याविशन्ती ॥
युद्ध्वा चित्रैर्विविधैः शस्त्रपूगै-र्दिव्यैर्वीरो मानुषै राक्षसैश्च ।बदन्नादान् विविधान् भैरवांश्चप्राणानिष्टांस्त्याजितः शक्रशक्त्या ॥
इदञ्चान्यच्चित्रमाश्चर्य्यरूपंचकारासौ कर्म्म शत्रुक्षयाय ।तस्मिन् काले शक्तिनिर्भिन्नमर्म्माबभौ राजन् ! शैलमेघप्रकाशः ॥
ततोऽन्तरीक्षादपतद्गतासुःस राक्षसेन्द्रो भुषि भिन्नदेहः ।अवाक् शिरास्तब्धगात्रो विजिह्वोघटोत्कचो महदास्थाय रूपम् ॥
स तद्रूपं भैरवं भीमकर्म्माभीमं कृत्वा भैमसेनिः पपात ।हतोऽप्येवं तव सैन्यैकदेश-मपोथयत् स्वेन देहेन राजन् ! ॥
ततो मिश्राः प्राणदन् सिंहनादै-र्भेर्य्यश्च शङ्खा मुरजाश्चानकाश्च ।दग्धां मायां निहतं राक्षसञ्चदृष्ट्वा हृष्टाः प्राणदन् कौरवेयाः ॥
ततः कर्णः कुरुभिः पूज्यमानोयथा शक्रो वृत्रवधे मरुद्भिः ।अन्वारूढस्तव पुत्त्रं रथस्थंहृष्टश्चापि प्राविशत् स्वं स्वसैन्यम् ॥
”)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
