| YouTube Channel

घटीयन्त्रं (ghaTIyantraM)

 
शब्दकल्पद्रुमः
Sanskrit
घटीयन्त्रं,
क्ली,
(घट्याः यन्त्रम् ।) कूपाज्जलो-त्तोलनार्थरज्जुसहितघटः जलतोला कल इतिभाषा तत्पर्य्यायः उद्थाटनम् इत्यमरः ।२ १० २७
(यथा, मार्कण्डेयपुराणे १२ २० ।“तान्येव तत्र चक्राणि घटीयन्त्राणि चान्यतः
”घटी क्षुद्रघटस्तदधस्तनार्द्धाकारं यन्त्रम् यद्वाघट्याः दण्डरूपकालस्य ज्ञापकं यन्त्रम् काल-परिमाणज्ञापको यन्त्रविशेषः घडी इतिख्यातः
सूर्य्यसिद्धान्ते कालमानज्ञापकयन्त्राणिबहुविधान्युक्तानि तत्र शङ्कुयष्ट्यादिकं दिवा-कालमानज्ञापकमुक्तवान् घटीयन्त्रादिकन्तुअहर्निशं कालज्ञानसाधनमिति घटीयन्त्रादिकंसूर्य्यसिद्धान्ते रङ्गनाथेन विस्तीर्य्य प्रदर्शितम् ।यथा, --“अथ घटीयन्त्रादिभिश्चमत्कारियन्त्रैर्वा सर्व्वोप-जीव्यं कालं सूक्ष्मं साधयेदिति कालसाधन-मुपसंहरति
”“तोययन्त्रकपालाद्यैर्मयूरनरवानरैः ।ससूत्ररेणुगर्भैश्च सभ्यक् कालं प्रसाधयेत्
”इति सूर्य्यसिद्धान्तः
अत्र रङ्गनाथकृतटीका यथा, --“जलयन्त्रञ्च तत् कपालञ्च कपालाख्यं जलयन्त्रंवक्ष्यमाणं तदाद्यं प्रथमं तेषां तैर्यन्त्रैर्वालुका-यन्त्रप्रभृतिभिः सापेक्षघटीयन्त्रैर्मयूरनरवानरैः ।मयूराख्यं स्वयंवहयन्त्रं निरपेक्षं नरयन्त्रं शङ्-क्वाख्यं छायायन्त्रं पूर्व्वोद्दिष्टं वानरयन्त्रं स्वयं-वहं निरपेक्षमेतैः ससूत्ररेणुगर्भैः सूत्रसहितारेणवो धूलयो गर्भे मध्ये येषां तैः सूत्रप्रोताःषष्टिसंख्यका मृद्घटिका मयूरोदरस्था मुखात्घटिकान्तरेण स्वत एव निःसरन्तीति लोक-प्रसिद्ध्या तादृशैर्यन्त्रैरित्यर्थः यद्वा सूत्रा-कारेण रेणवः सिकतांशा गर्भे उदरे यस्यै-तादृशं यन्त्रं बालुकायन्त्रं प्रसिद्धम् तेन सहितै-र्मयूरादियन्त्रमयूराद्युक्तयन्त्रैर्बालुकायन्त्रेण चेतिसिद्धोऽर्थः चकारस्तोययन्त्रकपालाद्यैरित्यनेनसमुच्चयार्थकः कालं दिनगतादिरूपं सम्यक्सूक्ष्मं प्रसाधयेत् प्रकर्षेण सूक्ष्मत्वेनातिसूक्ष्मत्वेने-त्यर्थः जानीयादित्यर्थः
*
ननु मयूरादि-स्वयंवहयन्त्राणि कथं साध्यानीत्यतस्तत्साधन-प्रकारा बहवो दुर्गमाश्च सन्तीत्याह
”“पारदाराम्बुसूत्राणि शुल्वतैलजलानि ।बीजानि पांशवस्तेषु प्रयोगास्तेऽपि दुर्लभाः
”अत्र रङ्गनाथकृतटीका यथा, --“तेषु मयूरादियन्त्रेषु म्वयंवहार्थमेते प्रयोगाःप्रकर्षण योज्याः प्रकर्षस्तु यावदभिमतसिद्धेः ।एते इत्यत आह पारदाराम्बुसूत्राणोतिपारदयुक्ता आराः यथा सिद्धान्तशिरोमणौ ।लघु काष्ठजसमचक्रे समसुषिराराः समान्तरानेभ्याम् ।किञ्चिद्वक्रा योज्याः सुषिरस्यार्द्धे पृथक् तासाम्
रसपूर्णे तच्चक्रं द्व्याधाराक्षस्थितं स्वयं भ्रमति
अम्बु जलस्य प्रयोगः सूत्राणि सूत्रसाधन-प्रयोगः शुल्वं शिल्पनैपुण्यम् तैलजलानितैलयुक्तजलस्य प्रयोगः चकारात् तयोः पृथक्प्रयोगोऽपि यथा सिद्धान्तशिरोमणौ ।उत्कीर्य्यनेमिमथवा परितो मदनेन संलग्नम् ।तदुपरि तालदलाद्यं कृत्वा सुषिरे रसं क्षिपेत्तावत्
यावद्रसैकपार्श्वे क्षिप्तजलं नान्यतो याति ।पिहितच्छिद्रं तदतश्चक्रं भ्रमतिस्वर्य जलाकृष्टम्
ताम्रादिमयस्याङ्कुशरूपनलस्याम्बुपूर्णस्य ।एकं कुण्डजलान्तर्द्वितीयमग्रं त्वधोमुखं वहिः
युगपन्मुक्तं चेत् कं नलेन कुण्डाद्बहिः पतति ।नेम्यां वद्धा घटिकाश्चक्रं जलयन्त्रवत् तथाधार्य्यम्
नलकप्रच्युतसलिलं पतति यथा तद्घटीमध्ये ।भ्रमति ततस्तत् सततं पूर्णघटीभिः समाकृष्टम्
चक्रच्युतं तदुदकं कुण्डे याति प्रणालिकया
बीजानि केवलं तुङ्गबीजप्रयोगः पांसवो धूलि-प्रयोगास्तैर्युक्ताः प्रयोगाः अपिशब्दात् प्रयो-गेषु सुगमतरा इत्यर्थः दुर्लभा असाधारणत्वेनमनुष्यैः कर्त्तुमशक्या इत्यर्थः अन्यथा प्रतिगृहंस्वयंवहानां प्राचुर्य्यापत्तेः इयं स्वयंवहविद्यासमुद्रान्तर्निवासिजनैः फिरङ्गाख्यैः सम्यग-भ्यस्तेति कुहकविद्यात्वादत्र विस्तारानुद्योगइति संक्षेपः
*
अथ कपालाख्यजलयन्त्रमाह ।“ताम्रपात्रमधश्छिद्रं न्यस्तं कुण्डेऽभलाम्भसि ।षष्टिर्मज्जत्यहोरात्रे स्फुटं यन्त्रं कपालकम्
”अत्र रङ्गनाथकृतटीका यथा, --“यत् ताम्रघटितं पात्रमधश्छिद्रं अधोभागे छिद्रंयस्य तत् अमलाम्भसि निर्म्मलं जलं विद्यतेयस्मिन् तादृशे कुण्डे बृहद्भाण्डे न्यस्तं धारितंसत् अहोरात्रे नाक्षत्राहोरात्रे षष्टिः षष्टिवार-मेव न्यूनाधिकं मज्जति अधश्छिद्रमार्गणजलागमनेन जलपूर्णतया निमग्नं भवति तत्-कपालकं कपालमेव कपालकं घटखण्डानांकपालपदवाच्यत्वात् घटाधस्तनार्द्धाकारं यन्त्रघटीयन्त्रं स्फुटं सूक्ष्मम् तद्घटनन्तु ।शुल्वस्य दिग्भिर्विहितं पलैर्यत्षडङ्गुलोच्चं द्विगुणायतास्यम् ।तदम्भसा षष्टिपलैः प्रपूर्य्यंयात्रं घटार्द्धप्रतिमं घटी स्यात्
सत्त्र्यंशमाषत्रयनिर्म्मिता याहेम्नः शलाका चतुरङ्गुला स्यात् ।विद्धं तया प्राक्तनमत्रपात्रंप्रपूर्य्यते नाडिकयाम्बुभिस्तत्
तथाच सिद्धान्तशिरोमणौ, --“घटदलरूपा घटिता घटिका ताम्री तलेपृथुच्छिद्रा ।द्युनिशनिमज्जनमित्याभक्तं द्युनिशं घटीमानम्
”“अत्र दशभिः शुल्बस्य पलैरित्यादि यद्घटी-लक्षणं कैश्चित् कृतं तद्युक्तिशून्यं दुर्घटं चेत्येतदु-पेक्षितम् इष्टप्रमाणाकारसुषिरं पात्रं घटी-संज्ञमङ्गीकृतम् द्युनिशनिमज्जनसङ्ख्यया यदिषट्त्रिंशच्छतानि पानीयपलानि लभ्यन्ते तदै-केन निमज्जनेन किमिति त्रैराशिकम् ।” इतिघटीयन्त्रम्
अन्यानि कालमानयन्त्राणि तुयन्त्रशब्दे द्रष्टव्यानि
)