घटीयन्त्र (ghaTIyantra)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishघटीयन्त्र - ghaTIyantra - - kind of machine to indicate the time with the help of water
घटीयन्त्र - ghaTIyantra - - buckets of a well or any machine for raising water
घटीयन्त्र - ghaTIyantra - - diarrhoea
Wilson
EnglishMonier Williams Cologne
EnglishApte Hindi
Hindiघटीयन्त्रम्
घटी- यन्त्रम् -
"पानी ऊपर उठाने वाली रहट की घड़िया, कुएँ पर पड़ा हुआ रस्सी-डोल"
घटीयन्त्रम्
घटी- यन्त्रम् -
दिन का समय जानने का एक साधन
घटीयन्त्रम्
- -
"रहट, पानी निकालने का यन्त्र"
घटीयन्त्रम्
- -
अतिसार
Shabdartha Kaustubha
Kannadaघटीयन्त्र
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಕಾಲವನ್ನು ಅಳೆಯಲು ನೀರಿನಿಂದ ತುಂಬಿದ ಒಂದು ಯಂತ್ರ
घटीयन्त्र
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಏತ /ಬಾವಿಯಿಂದ ತೋಟಕ್ಕೆ ನೀರನ್ನು ಹಾಯಿಸಲು ಉಪಯೋಗಿಸುವ ಯಂತ್ರ
प्रयोगाः - > "किं कनिष्ठाः किमु ज्येष्ठाः घटीयन्त्रस्य दुर्जनाः"
L R Vaidya
Englishअभिधानचिन्तामणिः
Sanskritउद्घाटकं घटीयन्त्रं पादावर्तोऽरघट्टकः ॥ १०९३ ॥
उद्घाटक (क्ली), घटीयन्त्र (क्ली), पादावर्त (पुं), अरघट्टक (पुं)
अभिधानरत्नमाला
Sanskritउद्घाटक
उद्घाटक, घटीयन्त्र
उद्घाटकं घटीयन्त्रं पादावर्तोऽरघट्टकः ।
verse 3.1.1.685
page 0078
शब्दकल्पद्रुमः
Sanskritघटीयन्त्रं, (घट्याः यन्त्रम् ।) कूपाज्जलो-त्तोलनार्थरज्जुसहितघटः । जलतोला कल इतिभाषा । तत्पर्य्यायः । उद्थाटनम् २ । इत्यमरः ।२ । १० । २७ ॥
(यथा, मार्कण्डेयपुराणे । १२ । २० ।“तान्येव तत्र चक्राणि घटीयन्त्राणि चान्यतः ॥
”घटी क्षुद्रघटस्तदधस्तनार्द्धाकारं यन्त्रम् । यद्वाघट्याः दण्डरूपकालस्य ज्ञापकं यन्त्रम् । काल-परिमाणज्ञापको यन्त्रविशेषः । घडी इतिख्यातः ॥
सूर्य्यसिद्धान्ते कालमानज्ञापकयन्त्राणिबहुविधान्युक्तानि । तत्र शङ्कुयष्ट्यादिकं दिवा-कालमानज्ञापकमुक्तवान् । घटीयन्त्रादिकन्तुअहर्निशं कालज्ञानसाधनमिति घटीयन्त्रादिकंसूर्य्यसिद्धान्ते रङ्गनाथेन विस्तीर्य्य प्रदर्शितम् ।यथा, --“अथ घटीयन्त्रादिभिश्चमत्कारियन्त्रैर्वा सर्व्वोप-जीव्यं कालं सूक्ष्मं साधयेदिति कालसाधन-मुपसंहरति ॥
”“तोययन्त्रकपालाद्यैर्मयूरनरवानरैः ।ससूत्ररेणुगर्भैश्च सभ्यक् कालं प्रसाधयेत् ॥
”इति सूर्य्यसिद्धान्तः ॥
अत्र रङ्गनाथकृतटीका यथा, --“जलयन्त्रञ्च तत् कपालञ्च कपालाख्यं जलयन्त्रंवक्ष्यमाणं तदाद्यं प्रथमं तेषां तैर्यन्त्रैर्वालुका-यन्त्रप्रभृतिभिः सापेक्षघटीयन्त्रैर्मयूरनरवानरैः ।मयूराख्यं स्वयंवहयन्त्रं निरपेक्षं नरयन्त्रं शङ्-क्वाख्यं छायायन्त्रं पूर्व्वोद्दिष्टं वानरयन्त्रं स्वयं-वहं निरपेक्षमेतैः ससूत्ररेणुगर्भैः सूत्रसहितारेणवो धूलयो गर्भे मध्ये येषां तैः सूत्रप्रोताःषष्टिसंख्यका मृद्घटिका मयूरोदरस्था मुखात्घटिकान्तरेण स्वत एव निःसरन्तीति लोक-प्रसिद्ध्या तादृशैर्यन्त्रैरित्यर्थः । यद्वा सूत्रा-कारेण रेणवः सिकतांशा गर्भे उदरे यस्यै-तादृशं यन्त्रं बालुकायन्त्रं प्रसिद्धम् । तेन सहितै-र्मयूरादियन्त्रमयूराद्युक्तयन्त्रैर्बालुकायन्त्रेण चेतिसिद्धोऽर्थः । चकारस्तोययन्त्रकपालाद्यैरित्यनेनसमुच्चयार्थकः । कालं दिनगतादिरूपं सम्यक्सूक्ष्मं प्रसाधयेत् । प्रकर्षेण सूक्ष्मत्वेनातिसूक्ष्मत्वेने-त्यर्थः । जानीयादित्यर्थः ॥
* ॥
ननु मयूरादि-स्वयंवहयन्त्राणि कथं साध्यानीत्यतस्तत्साधन-प्रकारा बहवो दुर्गमाश्च सन्तीत्याह ॥
”“पारदाराम्बुसूत्राणि शुल्वतैलजलानि च ।बीजानि पांशवस्तेषु प्रयोगास्तेऽपि दुर्लभाः ॥
”अत्र रङ्गनाथकृतटीका यथा, --“तेषु मयूरादियन्त्रेषु म्वयंवहार्थमेते प्रयोगाःप्रकर्षण योज्याः । प्रकर्षस्तु यावदभिमतसिद्धेः ।एते क इत्यत आह । पारदाराम्बुसूत्राणोतिपारदयुक्ता आराः । यथा सिद्धान्तशिरोमणौ ।लघु काष्ठजसमचक्रे समसुषिराराः समान्तरानेभ्याम् ।किञ्चिद्वक्रा योज्याः सुषिरस्यार्द्धे पृथक् तासाम् ॥
रसपूर्णे तच्चक्रं द्व्याधाराक्षस्थितं स्वयं भ्रमति ॥
अम्बु जलस्य प्रयोगः । सूत्राणि सूत्रसाधन-प्रयोगः । शुल्वं शिल्पनैपुण्यम् । तैलजलानितैलयुक्तजलस्य प्रयोगः । चकारात् तयोः पृथक्प्रयोगोऽपि । यथा च सिद्धान्तशिरोमणौ ।उत्कीर्य्यनेमिमथवा परितो मदनेन संलग्नम् ।तदुपरि तालदलाद्यं कृत्वा सुषिरे रसं क्षिपेत्तावत् ॥
यावद्रसैकपार्श्वे क्षिप्तजलं नान्यतो याति ।पिहितच्छिद्रं तदतश्चक्रं भ्रमतिस्वर्य जलाकृष्टम् ॥
ताम्रादिमयस्याङ्कुशरूपनलस्याम्बुपूर्णस्य ।एकं कुण्डजलान्तर्द्वितीयमग्रं त्वधोमुखं च वहिः ॥
युगपन्मुक्तं चेत् कं नलेन कुण्डाद्बहिः पतति ।नेम्यां वद्धा घटिकाश्चक्रं जलयन्त्रवत् तथाधार्य्यम् ॥
नलकप्रच्युतसलिलं पतति यथा तद्घटीमध्ये ।भ्रमति ततस्तत् सततं पूर्णघटीभिः समाकृष्टम् ॥
चक्रच्युतं तदुदकं कुण्डे याति प्रणालिकया ॥
बीजानि केवलं तुङ्गबीजप्रयोगः । पांसवो धूलि-प्रयोगास्तैर्युक्ताः प्रयोगाः । अपिशब्दात् प्रयो-गेषु सुगमतरा इत्यर्थः । दुर्लभा असाधारणत्वेनमनुष्यैः कर्त्तुमशक्या इत्यर्थः । अन्यथा प्रतिगृहंस्वयंवहानां प्राचुर्य्यापत्तेः । इयं स्वयंवहविद्यासमुद्रान्तर्निवासिजनैः फिरङ्गाख्यैः सम्यग-भ्यस्तेति । कुहकविद्यात्वादत्र विस्तारानुद्योगइति संक्षेपः ॥
* ॥
अथ कपालाख्यजलयन्त्रमाह ।“ताम्रपात्रमधश्छिद्रं न्यस्तं कुण्डेऽभलाम्भसि ।षष्टिर्मज्जत्यहोरात्रे स्फुटं यन्त्रं कपालकम् ॥
”अत्र रङ्गनाथकृतटीका यथा, --“यत् ताम्रघटितं पात्रमधश्छिद्रं अधोभागे छिद्रंयस्य तत् । अमलाम्भसि निर्म्मलं जलं विद्यतेयस्मिन् तादृशे कुण्डे बृहद्भाण्डे न्यस्तं धारितंसत् अहोरात्रे नाक्षत्राहोरात्रे षष्टिः षष्टिवार-मेव न न्यूनाधिकं मज्जति । अधश्छिद्रमार्गणजलागमनेन जलपूर्णतया निमग्नं भवति तत्-कपालकं कपालमेव कपालकं घटखण्डानांकपालपदवाच्यत्वात् घटाधस्तनार्द्धाकारं यन्त्रघटीयन्त्रं स्फुटं सूक्ष्मम् । तद्घटनन्तु ।शुल्वस्य दिग्भिर्विहितं पलैर्यत्षडङ्गुलोच्चं द्विगुणायतास्यम् ।तदम्भसा षष्टिपलैः प्रपूर्य्यंयात्रं घटार्द्धप्रतिमं घटी स्यात् ॥
सत्त्र्यंशमाषत्रयनिर्म्मिता याहेम्नः शलाका चतुरङ्गुला स्यात् ।विद्धं तया प्राक्तनमत्रपात्रंप्रपूर्य्यते नाडिकयाम्बुभिस्तत् ॥
तथाच सिद्धान्तशिरोमणौ, --“घटदलरूपा घटिता घटिका ताम्री तलेपृथुच्छिद्रा ।द्युनिशनिमज्जनमित्याभक्तं द्युनिशं घटीमानम् ॥
”“अत्र दशभिः शुल्बस्य पलैरित्यादि यद्घटी-लक्षणं कैश्चित् कृतं तद्युक्तिशून्यं दुर्घटं चेत्येतदु-पेक्षितम् । इष्टप्रमाणाकारसुषिरं पात्रं घटी-संज्ञमङ्गीकृतम् । द्युनिशनिमज्जनसङ्ख्यया यदिषट्त्रिंशच्छतानि पानीयपलानि लभ्यन्ते तदै-केन निमज्जनेन किमिति त्रैराशिकम् ।” इतिघटीयन्त्रम् ॥
अन्यानि कालमानयन्त्राणि तुयन्त्रशब्दे द्रष्टव्यानि ॥
)
वाचस्पत्यम्
Sanskritघटीयन्त्र घट्याः दण्डरूपकालस्य ज्ञापकं यन्त्रम् ।कालमानज्ञापके यन्त्रभेदे । (घडि) तच्च यन्त्रं नाना-विधं सू० सि० रङ्गनाथयोर्दर्शितं तत्र दिवसे काल-ज्ञानस्य शङ्कुच्छायादियन्त्रैकसाध्यत्थमुक्त्वा घटीयन्त्रा-दिकं तु अहर्निशतज्ज्ञानसाधनमिति घटीयन्त्रादिक-मेवात्रतत्रोक्तं प्रदर्श्यते यथा“अथ घटीयन्त्रादिमिश्चमत्कारियन्त्रैर्वा सर्वोपजीव्यं कालंसूक्ष्मं साधयेदिति कालसाधनमुपसंहरति”“तोययन्त्रकपालाद्यैर्मयूरनरवानरैः । ससूत्ररेणुगर्भैश्चसम्यक् कालं प्रसाधयेत्” सू० सि० ।“जलयन्त्रं तत् कपालं च कपालाख्यं जलयन्त्रं वक्ष्यमाणंतदाद्यं प्रथमं येषां तैर्यन्त्रैर्वालुकायन्त्रप्रभृतिभिः सा-पेक्षघटीयन्त्रैर्मयूरनरगनरैः । मयूराख्यं स्वयंवहयन्त्रंनिरपेक्षं नरयन्त्रं शङ्क्वाख्यं छायायन्त्रं पूर्वोद्दिष्टंवानरयन्त्रं स्वयंवहं निरपेक्षमेतैः ससूत्ररेणुगर्मैः सूत्र-सहिता रेणवो धूलयो गर्भे मध्ये येषां तैः सूत्रप्रोताःषष्टिसङ्ख्याका मृद्वटिता मयूरोदरस्था मुखाद् घटिका-न्तरेण स्वत एव निःसरन्तीति लोकप्रसिद्ध्या तादृशैर्यन्त्रै-रित्यर्थः । यद्वा सूत्राकारेण रेणवः सिकतांशा गर्भेउदरे यस्यैतादृशं यन्त्रं वालुकायन्त्रं प्रसिद्धम् । तेनमहितैर्मयूरादियन्त्रैर्मयूराद्युक्तयन्त्रैर्वालुकायन्त्रेण चेतिसिद्धोऽर्थः । चकारस्तोययन्त्रकपालाद्यैरित्यनेन समु-च्चयार्थकः । कालं दिनगतादिकं सम्यक् सूक्ष्मं प्रसा-धयेत् । प्रकर्षेण सूक्ष्मत्वेनातिसूक्ष्मत्वेनेत्यर्थः । जानी-यादिव्यर्थः । ननु मयूरादिस्वयंवहयन्त्राणि कथं साध्या-नीत्यतस्तसाधनप्रकारा वहवो दुर्गमाश्च सन्तीत्याह” र० ना०“पारदाराम्बुसूत्राणि शुल्वतैलजलानि च । वीजानिपांसवस्तेषु पयोगास्तेऽपि दुर्लभाः” सू० । “तेषु मयूरादि-यन्त्रेषु स्वयंवहार्थमेते प्रयोगाः प्रकर्षेण योज्याः । प्र-कर्षस्तु यावदभिमतसिद्धेः । एते क इत्यत आह । पार-दाराम्बुसूत्राणीति । पारदयुक्ता आराः । तथा च सि-द्धान्तशिरोमणौ” लघुकाष्ठगसमचक्रे समसुषिराराः समा-न्तरा नेम्याम् । किञ्चिद्वक्रा योज्याः सुषिरस्यर्धि पृथक्तासाम् । रसपूर्णे तच्चक्रं द्व्याधाराक्षस्थितं स्वयंभ्र-मति” । (१) इति । अब्धु जलस्य प्रयोगः । सूत्राणिसूत्रसाचनप्रयोगः । शुल्वं ताम्रम् । तैलजलानितैलयुक्तजलस्य प्रयोगः । चकारात् तयोः पृथक् प्रयो-गोऽपि । तथा च सिद्धान्तशिरोमणौ “उत्कीर्य नेमि(२)मथवा परितो मदनेन संलग्नम् । तदुपरि तालदलाद्यंकृत्वा सुषिरे रसं क्षिपत् तावत् । यावद्रसैकपार्श्वे क्षि-प्तजलं नान्यतो याति । पिहितच्छिद्रं तदतश्चक्रं भ्र-मति स्वयं जलाकृष्टम् । (३) ताम्रादिमयस्याङ्कुशरूपनल-स्य म्बुपूर्णस्य । एकं कुण्डजलान्तर्द्वितीयमग्रं त्वधो-मुखं च बहिः । युगपन्मुक्तं चेत् कं नलेन कुण्डाद्बहिःपतति । नेम्यां बद्ध्वा घटिकाश्चक्रं जलयन्त्रवत् तथाधार्य्यम् । नलकप्रच्युतसलिलं पतति यथा तद्वटीमध्ये ।भ्रमति ततस्तत् सततं पूर्णघटीभिः समाकृष्टम् । चक्र-च्युतं स्वमुदकं कुण्डे याति प्रणालिकया” इति । बीजानिकेवलं तुङ्गवीजप्रयोगाः । पांसवो घूलिप्रयोगास्तैर्युक्ताः ।अपिशब्दात् प्रयोगेषु सुगमतरा इत्यर्थः । दुर्लभाः साधा-रणत्वेन मनुष्यैः कर्तुमशक्या इत्यर्थः । अन्यथा प्रतिगृहंस्वयंवहानां प्राचुर्यापत्तेः । इयं स्वयंवहविद्या समु-द्रान्तर्निवासिजनैः फिरङ्ग्याख्यैः सम्यगभ्यस्तेति । कु-हकविद्यात्वादत्र विस्तारानुद्योग इति संक्षेपः । अथकपालाख्यं जलयन्त्रमाह” रङ्गन० । “ताम्रपात्रमधश्छिद्रं-न्यस्तं कुण्डेऽमलाम्भसि । षष्टिर्मज्जत्यहोरात्रे स्फुटंयन्त्रंकपालकम्” सू० “यत् ताम्रघटितं पात्रमधश्छिद्रमधोभागेछिद्रं यस्य तत् । अमलाम्भसि निर्मलं जलं विद्यतेयस्मिन् तादृशे कुण्डे वृहद्भाण्डे न्यस्तं धारितं सदहो-रात्रे नाक्षत्राहोरात्रे षष्टिः षष्टिवारमेब न न्यूनाधिकंमज्जति अधश्छिद्रमार्गेण जलागमनेन जलपूर्ण्णतयानिमग्नं भवति । तत् कपालकं कपालमेव कपालकंघटखण्डानां कपालपदवाच्यत्वात् घटाधस्तनार्धाकारंयन्त्रं घटीयन्त्रं स्फुटं सूक्ष्मम् तद्घटनं तु । “शुल्बस्यदिग्भिर्विहितं पलैर्यत् षडङ्गुलोच्चं द्विगुणायतास्यम् ।तदम्भसा षष्टिपलैः प्रपूर्यं पात्रं घटार्धप्रतिमं घटी स्यात् ।सत्र्यंशमाषत्रयनिर्मिता या हेम्नः शलाका चतुरङ्गुलास्यात् । विद्धं तया प्राक्तनमत्र पात्रं प्रपूर्यते नाडिकया-म्बुभिस्तत्” इति व्यक्तम् । भगवता तु सूक्ष्ममुक्तम् ।अथ शङ्कुयन्त्रं दिवैव कालज्ञानार्थं नान्यदेत्याह”रङ्गन० “नरयन्त्रं तथा साधु दिवा च विमले रवौ ।छायासंसाधनैः प्रोक्तं कालसाधनमुत्तमम्” सू० सि० ।रङ्गनाथ धतसि० शि० वाक्यानि प्रमि० व्याख्यातानि यथालघुदार्व्विव्यादि (१) ग्रन्थिकीलरहिते लघुदारुमये भ्रम-सिद्धे चक्रे आराः । किंविशिष्टाः । समप्रमाणाः सम-सुषिराः समतौल्याः समोन्तरा नेम्यां योज्याः । ताश्चनद्यावर्तवदेकत एव सर्वाः किञ्चिद्वक्रा योज्याः । ततस्ता-सामाराणां सुषिरेषु पारदस्तथा क्षेप्यो यथा सुषिरार्धमेवपूर्ण्णं भवति । ततो मुद्रिताराग्रं तच्चक्रमयस्कारशाण-वद्द्व्याधारस्थं स्वयं भ्रमति । अत्र युक्तिः । यन्त्रै-कभागे रसो ह्यारामूलं प्रविशति । अन्यभागे त्वाराग्रंधावति । तेनाकृष्टं तत् स्वयं भ्रमतीति” प्रमि० ।उत्कीर्य्येत्यादि “(२) यन्त्रनेमिं भ्रमयन्त्रेण समन्तादुत्कीर्यद्व्यङ्गुलमात्रं सुषिरस्य वेघो विस्तारश्च यथा भवति तत-स्तस्यु सुषिरस्योपरि तालषत्रादिक मदनादिना संलग्नंकार्य्यम् । तदपि चक्रं द्व्याधाराक्षस्थितं कृत्वोपसिनेम्यां तालदलं बिद्ध्वा सुषिरे रलस्तावत् क्षेप्यो यावत्सुषिरस्याधोभागो रसेन मुद्रितः । पुनरेकपार्श्वे जलंप्रक्षिपेत् । तेन जलेन द्रवोऽपि रसो गुरुत्वात् परतःसारयितुं न शक्यते । अतो मुद्रितच्छिद्रं तच्चक्रंजलेनाकृष्टं खयं भ्रमतीति” प्रमि० ।ताम्रादिमयस्येत्यादि (३) “ताम्रादिधातुमयस्याङ्कुशरूपस्यवक्रीकृतस्य नलस्य जलपूर्णस्यैकमग्रं जलभाण्डेऽन्य-दग्रं बहिरधोमुखं चैकहेलया यदि विमुच्यते तदाभाण्डजलं सकलमपि नलेन बहिः क्षरति । तद्यथाछिन्नकमलस्य कमलिनीनलस्य जलभृद्भाण्डे क्षिप्तस्यजलपूर्णसुषिरस्यैकमग्रं भाण्डाद्बहिरधोमुखं द्रुतंयदि ध्रियते तदा भाण्डजलं सकलमपि नलेन बहि-र्याति । इदं कुक्कुटनाडीयन्त्रमिति शिल्पिनां हर-मेखलिनां च प्रसिद्धम् । अनेन बहवश्चमत्काराः सि-द्ध्यन्ति । अथ चक्रनेम्यां घटीर्बद्धा जलयन्त्रवत् द्व्या-धाराक्षसंस्थितं तथा निवेशयेद्यथा नलकप्रच्युतजलंतस्य घटीमुखे पतति । एवं पूर्णघटीभिराकृष्टं तद्-भ्रमत् केन निवार्य्यते । अथ चक्रच्युतस्योदकस्याधः-प्रणालिकया कुण्डगमने कृते कुण्डे पुनर्जलप्रक्षेपनैर-पेक्षम्” प्रमि० ।विष्णु अन्यथा तन्निर्माणप्रकार उक्तो यथा“नाडिका तु प्रमाणेन कला दश च पञ्च च । उन्माने-नाम्भसः सा तु पलान्यर्द्धत्रयोदश । हेममाषैः कृतच्छिद्राचतुर्भिश्चतुरङ्गुलेः । मागधेन प्रमाणेन जलप्रस्थस्तु सं-स्मृतः” विष्णु० ।“अम्भस उन्मानेन उन्मीयतेऽनेनेत्युन्मानं पात्रम् ।अर्द्धेन योगे त्रयोदश सार्द्धद्वादशेत्यर्थः । उन्मानरूपेणघटितानि सार्द्धद्वादशपर्वाणि सा नाडिका सार्द्धद्वादश-पलताम्रनिर्मितपात्रेण सा नाडिका ज्ञातव्येत्यर्थः ।किं प्रमाणं तत् पात्रं कार्य्यं तदाह । सार्द्धद्वादशपलजले-न हि मागधदेशप्रस्थः पूर्यते तत्प्रमाणं पात्रं कार्य्यम्इत्यर्थात् सिद्धम् । ननु तथापि पात्रेण कथं नाडिका-ज्ञानं क्रियापरिच्छेद्यत्वात् कालस्येत्याशङ्क्य क्रियासि-द्धये प्रस्थादि विशिनष्टि हेमेति । माषः पञ्चगुञ्जः ।हेम्नोमाषैश्चतुर्भिश्चतुरङ्गुलेन शलाकारूपेण रचितैःकृतच्छिद्रा । एतदुक्तं भवति । सार्द्धद्वादशपलताम्र-मयं मागधप्रस्थसंमितमूर्द्ध्वायतं पात्रं चतुर्माषचतुरङ्गुलहेमशलाकया कृताधश्छिद्रं जले स्थापितं तेनछिद्रेण यावता कालेन पूर्यते तावान् कालो नाडिवति ।तथाच शुकः “द्वादशार्द्धपलोन्मानं चतुर्भिद्यतुरङ्गुलैः ।स्वर्णमाषैः कृतच्छिद्रं यावत् प्रस्थजलप्लुतमिति” ।श्रीधरव्याख्या । ६ त० । ङ्यपोः संज्ञायां ह्रस्वः ।घटियन्त्रमप्यत्र “ततः संसारचक्रेऽस्मिन् भ्राम्यते घटि-यन्त्रवत्” मार्क० । वट्या कूपात् उद्धारणार्थं यन्त्रम् ।२ कूपात् कुम्भोद्धारणार्थे यन्त्रमेदे । घटीयुक्तं यन्त्रं घ-टीयन्त्रं तच्च घटीयुक्तजलोद्धारणयन्त्रं पश्चिमदेशे प्रसि-द्धम् । (जलतोलार कल) । “कमलपत्रपुटघटितवटीयन्त्र-काणि” काद० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
