| YouTube Channel

घटिता-त्री (ghaTitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“घट चेष्टायाम्”@} 2 घटादिः, षिच्च।
चेष्टा = ईहा इति क्षीरस्वामी।
‘घाटयेद् घण्टयेत् सङ्घभाषयोर्घटते मितः।’ 3 इति देवः।
4 घाटकः-टिका, 5 घटकः-टिका, जिघटिषकः-षिका, 6 जाघटकः-टिका
घटिता-त्री, घटयिता-त्री, जिघटिषिता-त्री, जाघटिता-त्री
-- घटयन्-न्ती, 7 विघटयन्, घटयिष्यन्-न्ती-ती
घटमानः, घटयमानः, जिघटिषमाणः, जाघट्यमानः
घटिष्यमाणः, घटयिष्यमाणः, जिघटिषिष्यमाणः, जाघटिष्यमाणः
घट्-घटौ-घटः
-- -- -- घटितम्-तः, घटितः, जिघटिषितः, जाघटितः-लवान्
8 घटः-घटी, 9 घटनः, घटः, जिघटिषुः, जाघटः
घटितव्यम्, घटयितव्यम्, जिघटिषितव्यम्, जाघटितव्यम्
10 घटनीयम्, घटनीयम्, जिघटिषणीयम्, जाघटनीयम्
घाट्यम्, घट्यम्, जिघटिष्यम्, जाघट्यम्
ईषद्घटः-दुर्घटः-सुघटः
-- -- घट्यमानः, घट्यमानः
जिघटिष्यमाणः, जाघट्यमानः
घाटः, घटः, जिघटिषः, जाघटः
घटितुम्, घटयितुम्, जिघटिषितुम्, जाघटितुम्
11 घटा, 12 घटना, जिघटिषा, जाघटा
घटनम्, घटनम्, जिघटिषणम्, जाघटनम्
घटित्वा, घटयित्वा, जिघटिषित्वा, जाघटित्वा
विघट्य, 13 विघटय्य, विजिघटिष्य, विजाघट्य
घाटम् २, घटित्वा २, 14 घाटम् २, घटम् २, घटयित्वा २, जिघटिषम् २, जिघटिषित्वा २, जाघटम्
जाघटित्वा
15 इति क्वुनि रूपञ्।]] घटिकः-घटिका।
प्रासङ्गिक्यः
01
=>
(४५४)
02
=>
(१-भ्वादिः-७६३। अक। सेट्। आत्म।)
03
=>
(श्लो। ७०)
04
=>
[[१। ‘अत उपधायाः’ (७-२-११६) इत्यनेन, उपधाभूतस्याकारस्य वृद्धिः। एवं घञि ण्यति णमुल्यपि ज्ञेयम्।]]
05
=>
[[२। ‘घटादयो मितः’ (गणसूत्रं भ्वादौ) इति मित्त्वे, ‘मितां ह्रस्वः’ (६-४-९२) इति णौ उपधाया ह्रस्वः। एवं ण्यन्ते सर्वत्र ज्ञेयम्।]]
06
=>
[[३। ‘सन्यङोः (६-१-९) इति द्वित्वे, ‘दीर्घोऽकितः’ (७-४-८३) इत्यभ्यासस्य दीर्घे, ‘यस्य हलः’ (६-४-४९) इति यकारस्य लोपे, अल्लोपे रूपम्। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
07
=>
[[४। अर्थनिर्देशस्योपलक्षणत्वेन, अर्थान्तरेऽपि मित्त्वं भवति। अतः वियोजनार्थस्यापि मित्त्वं बोध्यम्।]]
08
=>
[[५। ‘कर्मणि घटोऽठच्’ (५-२-३५) इति निर्देशबलात्, पचाद्यच् (३-१-१३४) सर्वत्र भवतीति ज्ञायते। स्त्रियाम्, ‘जातेरस्त्रीविषयादयोपधात्’ (४-१-६३) इति टाबपवादो ङीप्।]]
09
=>
[[६। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति ताच्छीलिको युच्।]]
10
=>
[पृष्ठम्०४४९+ २५]
11
=>
[[१। ‘घटादयः षितः’ (गणसूत्रं भ्वादौ) इति षित्त्वेन, ‘षिद्भिदादिभ्योऽङ्’ (३-३-१०४) इति क्तिनोऽपवादः स्त्रियामङ्।]]
12
=>
[[आ। ‘गोपी घटाः प्रव्यथितास्तदानीं पृथूपतापप्रसमानचिन्ताः।’ धा। का। २।४।]]
13
=>
[[२। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
14
=>
[[३। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति दीर्घविकल्पः।]]
15
=>
[[४। ‘क्वुन् शिल्पिसंज्ञयोः’ [द। उ। ३।५]