| YouTube Channel

घटादिष्वेव (ghaTAdiSveva)

 
कृदन्तरूपमाला
Sanskrit
1 {@“स्खद स्खदने”@} 2 3 घटादिष्वेव द्विः स्खदेः पाठात् पूर्वपाठ आत्मनेपदार्थः-आत्मनेपदप्रकरणात्
उत्तरपाठस्तु ‘शेषात् कर्तरि--’ 4 इति परस्मैपदार्थ इति स्यात्।
वस्तुतः पूर्वं पठितस्यैव स्खदेः उपसर्गविशेषवशात् मित्त्वामित्त्वव्यवस्थार्थं पुनः पाठः इति न्याय्यम्।
काशकृत्स्नधातुपाठे तु ‘स्खदिर् अवत्यां च’ इति घटादिषु पठ्यते।
तस्यायमर्थः-अवत्याम् = अवधात्वर्थभूते रक्षणे स्खदिर्धातुर्मित्संज्ञकः।
चकारात् पूर्वस्मिन् गणसूत्र उपात्तस्य ‘परिवेषणे’ इत्यर्थेऽपि मिदयमिति।]] घटादिः।
5 ‘स्खदिर्--’ इति धातुकाव्यव्याख्यायां 6 पाठः।
‘स्खदनम् = विद्रावणम्’ इति स्वामी।
‘विदारणम्’ इति क्षीरस्वामी।
स्खादकः-दिका, 7 स्खदकः- 8 अवस्खादकः-परिस्खादकः- 9 अपस्खादकः- 10 प्रस्खादकः- दिका, चिस्खदिषकः-षिका, चास्खदकः-दिका
इत्यादीनि रूपाणि यथासम्भवं भौवादिकध्वनतिवत् 11 ऊह्यानि।
12 अवस्खादितम्।
प्रासङ्गिक्यः
01
=>
(१९२७)
02
=>
(१-भ्वादिः-७६८। सक। सेट्। आत्म।)
03
=>
[[[अ]
04
=>
(१-३-७८)
05
=>
[पृष्ठम्१३८५+ ३०]
06
=>
(२-१९)
07
=>
[[१। धातोरस्य घटादिषु पाठात् मित्त्वे उपधाह्रस्वो णिजन्तेषु निरुपसृष्टेषु बोध्यः।]]
08
=>
[[२। ‘स्खदिरवपरिभ्यां च’ (ग। सू। भ्वादिः) इति निषेधप्रकरणे घटादिषु वचनात् अवपूर्वकात् परिपूर्वकाच्च स्खदतेः मित्त्वम्।]]
09
=>
[[३। ‘अपावपरिभ्यः स्खदेः’ (बोधिन्यासे एवं घटादिषु वचनमिति धातुवृत्तिः) इति पक्षे अत्रापि अपपूर्वकस्य स्खदेः मित्त्वनिषेधात् उपधाह्रस्वो नेति बोघ्यम्।]]
10
=>
[[४। “स्खदेः पूर्वं (= घटादिष्वेव इतः पूर्वं) पाठात् सामान्येन प्राप्तं मित्त्वं उपसृष्टात् यदि भवति तर्हि--अवाद्युपसृष्टादेव” इति मन्वानाः क्षीरस्वाम्यादयः प्रपूर्वकादपि मित्त्वाभावेन रूपमिच्छन्ति। तत्तु काशिकादिषु ‘न’ इत्यनुवर्त्य अवाद्युपसृष्टात् स्खदेरेव मित्त्वं न--अन्यत्र मित्त्वमस्त्येव--इति व्याख्यातत्वात् अनाकरमिति बोध्यम्।]]
11
=>
(९४०)
12
=>
[[आ। ‘इत्याद्यवस्खादितमानसास्ता बालाः परिस्खादितधैर्यबन्धाः। दुष्टान् अपस्खादयितुं प्रयाते कृष्णे विलेपुः फणिता विमोहम्।।’ धा। का। २-१९।]]