घटप्रक्षेप (ghaTaprakSepa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaघटप्रक्षेप
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪ್ರಾಯಶ್ಚಿತ್ತ ನಡೆದ ಬಳಿಕ ಪುಣ್ಯತೀರ್ಥಸ್ನಾನ ಮಾಡಿ ಬಂದು ಬಂಧುಗಳ ಮುಂದೆ ಆ ತೀರ್ಥದಿಂದ ತುಂಬಿದ ಬಿಂದಿಗೆಯನ್ನು ಎಸೆಯುವುದು
व्युत्पत्तिः - > घटस्य प्रक्षेपः
वाचस्पत्यम्
Sanskritघटप्रक्षेप ६ त० । “कृतप्रायश्चित्तेन महापुण्यजलाशयेस्नानोत्तरं सपिण्डसमीपे पुण्यजलपूर्ण्णघटस्यापवर्जनेतद्विघिः मिता० दर्शितो यथा“यदा तु वन्धुत्यागादन्यथा वा जातबैराग्यः प्रायश्चित्तंकुर्य्यात्तदा किं कार्य्यमित्याह “चरितव्रत आयातेविनयेरन्नवं घटम् । जुगुप्सेरन्न चाप्येनं संवसेयुश्चसर्वशः” या० । “कृतप्रायश्चित्ते वन्धुसमीपम्पुनरायातेतत्सपिण्डाद्यास्तेन सहिता नवममुपहतं घटमुदकपूर्णंनिनयेयुः । एतच्च निनयनं पुण्यह्रदादिस्नानो त्तरकालन्द्रष्टव्यम् । “प्रायश्चित्ते तु चरिते पूर्णकुम्भमपां नवम् ।तेनैव सार्द्धभ्प्रास्येयुः स्नात्वा पुण्वजलाशये” इति मनुस्मरणात् । गोतमेन तु विशेष उक्तः “यस्तु प्रायश्चित्ते-न शुध्येत्तस्मिंश्छुद्धे शातकुम्भमयस्पात्रं पुण्यतमाद्ध्रदा-त्पूरयित्वा स्रवन्तीभ्यो वा त एनमप्युपस्पर्शयेयुरथास्मै-तत्पात्रन्दद्युस्तत्सम्प्रतिगृह्य जपेत् शान्ता द्यौः शान्तापृथिवी शान्तं शिवमन्तरिक्षं योरोचनस्तमिह गृह्णा-मीत्येतैर्यजुर्भिः पावमानीभिस्तरत्समन्दीभिः कूष्माण्डै-श्चाज्यं जुहुयाद्धिरण्यं दद्याद्गाञ्चाचार्याय यस्य तुप्राणात्तिकम्प्रायश्चित्तं स मृतः शुध्येदेतदेव शान्त्युदकंसर्वेषूपपातकेप्विति तत एनङ्कृतप्रायश्चित्तन्तं नैवकुत्सयेयुस्तथा सर्वकार्य्येषु क्रयविक्रयादिषु तेन सहसंव्यवहरेयुः” । “प्रकृतएव चरितव्रतविधौ विशेषमाह“घटेऽपवर्जिते ज्ञातिमध्यस्थो यवसं गवाम् । प्रदद्यात् प्रथमंगोभिः सत्कृतस्य हि सत्क्रिया” या० मिताक्ष०अत्रेदं बोध्यम् घटेऽपवर्जिते इत्यादि याज्ञ० वचनस्यप्रायश्चित्ते तु चरिते इत्यादि मनुवचनस्य च प्रकरणात्घटप्रक्षेपस्य पतितविषयकत्वावधारणे “स्वशिरसा यवस-मादाय गोभ्योदद्यात्” इति हारीतवचनस्य गोग्रास-मात्रदानप्रतिपादकत्वेन तस्य सर्वप्रायश्चित्तशेषत्वेनावधा-रणेऽपि “एवं हारीतयाज्ञवल्क्यवचनैकवाक्यतयावक्ष्यमाणमनुवचनद्वयमपि सामान्यप्रायश्चित्तोत्तरकर्त्त-व्यतापरं न तु प्रकरणादसत्प्रतिग्रहमात्रपरं तस्या-सत्प्रतिग्रहमात्रपरतया यत् कुल्लूक भट्टव्याख्यानं तत्-प्रदर्शनमात्रम् एवं घटापवर्जनमपि न पतितमात्रविष-यम् यथाह मनुः “उपवासकृशं तं तु गोव्रजात् पुन-रागतम् । प्रणतं परिपृच्छेयुः साभ्यं सौम्येच्छसी-ति किम् । सत्यमुक्ता तु विप्रेषु विकिरेत् यवसं गवाम्” ।इत्यन्तेन प्रा० त० यद् घटापवर्जनस्यापि सर्वप्रायश्चित्त-शेपतया व्यवस्थापितम् तच्चिन्त्यम् दर्शितहारीतवाक्ये“उपवासकृशमित्यादिमगुवाक्ये च घटापवर्जनस्यानुक्तेःपतितविषये च प्रागुक्तमनुयाज्ञवल्क्यवाक्ययोर्घटापवर्जन-स्योक्तेः उभयस्येकविषयत्वाभावात् ततश्च सर्वप्रायश्चित्तेकेबलं गोग्रासदानमात्रं शेषकर्त्तव्यं पतितप्रायश्चित्ते तुघटापवर्जमरूपविशेषकार्य्यसहितगोग्रासदानमिति विषयविवेकसम्भवे मनुयाज्ञवल्क्यवचनसङ्कोचस्मायुक्तत्वात्किञ्च हारीतवचनस्य गोग्रासदानविषयकत्वेन श्रवणे-ऽपि याज्ञवल्क्यवाक्ये “घटेऽपवर्जिते इत्यनेन प्राप्तपतितविषयकघटापवर्जनमनूद्य गोग्रासमात्रविधायकत्वात्न सामान्यपरत्वं यद्विषये घटापवर्जनं विहितंतद्विपयेऽपि गोग्रासदानाधिक्यविधानार्थं तस्य प्रवृत्तेःघटापवर्जनं तु पतितविषयकं प्रकरणादवगस्यते ।किञ्च पतितविषये दासीपदा घटप्रक्षेपपूर्व्वकं निरुदकघटकरणं घटपर्य्यसनशब्दे मन्वादिवाक्येन दर्शितम्तदुत्तरमेव मनुयाज्ञवल्क्याभ्यां घटापवर्जनं विहितमितितस्य तद्विषयकत्वौचित्यात् न तु तत्सङ्कोचः इति ।वस्तुतस्तु घटपर्य्यसनशब्दे दर्शितगौतमवाक्ये “एतदेवशान्त्युदकं सर्व्वेषू पपातकेषु” इत्युक्तेः शान्त्युदकग्रहणस्यसर्वोपपातक प्रायश्चित्तशेषत्वावधारणात् शान्त्युदकग्रह-णस्य च पूर्ण्णघटनिनयनपूर्वकत्वौचित्येन सर्व्वोपपातकप्राय-श्चित्ते शान्त्युदकग्रहणार्थं घटनिनयनं कार्य्यमितिसुधीभिर्भाव्यमिति । घटापवर्जनघटनिनयनादयोऽप्यत्र ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
