| YouTube Channel

घटपर्यसन (ghaTaparyasana)

 
Apte Hindi
Hindi
घटपर्यसनम्
नपुं*
घटः- पर्यसनम् -
पतित व्यक्ति का अन्त्येष्टि संस्कार करना
Shabdartha Kaustubha
Kannada
घटपर्यसन
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಪತಿತನಾದ ಬ್ರಾಹ್ಮಣನು ಪ್ರಾಯಶ್ಚಿತ್ತ ಮಾಡಿಕೊಳ್ಳಲು ಹಿಂಜರಿಯದೆ ಸಮಾಜದಿಂದ ಬಹಿಷ್ಕರಿಸಲು ಅವನು ಜೀವಿಸಿರುವಾಗಲೇ ಮಾಡುವ ಘಟಶ್ರಾದ್ಧ
L R Vaidya
English
Gawa-paryasana {% n. %} the ceremony of performing the obsequies of an apostate while he is yet alive.
वाचस्पत्यम्
Sanskrit
घटपर्य्यसन
न०
त० प्रायश्चित्ते पराङ्मुखस्य पतितस्यत्यागार्थं जीवतएव तस्य प्रेतकार्य्यार्थं ज्ञातिभिःक्रियमाणे दास्याः पादेन कुम्भस्य निरुदककरणेततद्विधिः मनुना दर्शितो यथा“पतिस्योदकं कार्य्यं सपिण्डैर्बान्धवैर्बहिः निन्दि-तेऽहनि सायाह्ने ज्ञात्य त्विग्गुरुसन्निधौ दासी घटमपांपूर्णं पर्य्यस्येत् प्रेतवत् पदा अहोरात्रमुपासीरन्नशौचंबान्धवैः सह निवर्त्तेरंश्च तस्मात्तु सम्भापणसहासने ।दायाद्यस्य प्रदानञ्च यात्रा चैव हि लौकिकी ज्येष्ठता चनिवर्त्तेत ज्येष्ठाबाप्यञ्च यद्धनम् ज्येष्ठांशं प्राप्नुयाच्चास्ययवीयान् गुणतोऽधिकः” “पतितस्येति महापातकिनोजीवतएव प्रेतस्योदकक्रिया वक्ष्यमाणरीत्या सपिण्डैःसमानोदकैश्च ग्रामाद्वहिर्गत्वा ज्ञात्यृत्विग्गुरुसन्निधानेरिक्तायां नवम्यादौ तिथौ दिनान्ते कर्त्तव्या दासीति ।सपिण्डसमानोदकप्रयुक्ता दासी उदकपूर्णं वटं प्रेतव-दिति दक्षिणाभिमुखीभूय पादेन क्षिपेत् यथा निरु-दको भवति तदनु ते सपिण्डाः समानोदकैः सहाहो-रात्रमशौचमाचरेयुः निवर्त्तेरन्निति तस्मात् पति-तात् सपिण्डादीनां सम्भाषणमेकासनोपवेशनं तस्मैरिक्थदानं सांवत्सरिकादौ निमन्त्रणादिरूपो लोक-व्यवहारः एतानि निवर्त्तेरन् ज्येष्ठतेति ज्येष्ठस्ययत् स्तुत्युत्थानादिकं कार्य्यं तत्तस्य कार्य्यं ज्येष्ठ-लभ्यं तस्य विंशोद्धारादिकं घनं देयं यद्यपिरिक्थप्रदानप्रतिषेधादेवाप्युद्धारप्रतिषेधः सिद्धः तथापियवीयसस्तत्प्राप्त्यर्थमनूद्यते तस्यैव ज्येष्ठस्य सम्बन्धिधनं सोद्ध्वारांशं तदनुजो गुणाधिको लभते” कुल्लू० ।विस्तरस्तु मिताक्षरायामुक्तोयथा“यस्त्वौद्धत्यादेतन्न चिकीर्षति तस्य किं कार्य्यमित्याह“दासीकुम्भं बहिर्ग्रामान्निनयेरन् स्वबान्धवाः पतितस्यवहिः कुर्युः सर्वकार्येषु चैव तम्” या० “जीवतएवपतितस्य स्वज्ञातयोबान्धवाः मातृपक्षाश्च ते सर्वे सन्निपत्यदासी प्रेष्या तया सपिण्डादिप्रेषितयाऽऽनीतं कुम्भमपा-म्पूर्णं ग्रामाद्बहिर्निनयेयुः एतच्चतुर्थ्यादिरिक्ततिथिष्वह्रःपञ्चमे भागे गुर्वादिसन्निधौ कार्यम् “पतितस्योदकङ्कार्यंसपिण्डैर्वान्धवैःसह निन्दितेऽहनि सायाह्ने ज्ञात्यृ-त्विग्गुरुसन्निधाविति” मनुस्मरणात् अथ वा दास्येवसपिण्डादिप्रयुक्ता निनयेत् यथाह मनुः “दासी घटमपाम्पूर्णम्पर्यस्येत् प्रेतवत्तदा अहोरात्रमुपासीरन्नशौचंवान्धवैः सहेति” प्रेतवदिति दक्षिणामुखापसव्यत्वयोःप्राप्त्यर्थम् तच्च निनयनमुदकपिण्डदानादिप्रेतक्रियो-त्तरकालं द्रष्टव्यम् “तस्य विद्यागुरुयोनिसम्बन्धांश्चसन्निपात्य सर्वाण्युदकादीनि प्रेतकर्म्माणि कुर्युः पात्र-ञ्चास्य विपरिषिञ्चेयुर्दासः कर्म्मकरोवावचारात्पात्रमा-नीय दासी घटं पूरयित्वा दक्षिणामुखी पदा विपर्थ-स्येदगुदकमुदकङ्करोति नामग्राहान्तं सर्वे त्वालभेरन्प्राचीनावीतिनोमुक्तशिखा विद्यागुरवो योनिसम्बन्धाश्चवीक्षेरन्नपौपस्पृश्य ग्रामम्प्रविशेयुरिति” गौतमस्मरणात् ।अयञ्च त्यागोयदि बन्धुमिः प्रेर्यमाणोऽपि प्रायश्चित्तंन करोति तदा द्रष्टव्यः “तस्य गुरोर्बान्धवानां राज्ञश्चसमक्षन्दोषानप्रिख्याप्यानुभाय्य पुनः पुनराचारं लभ-स्वेति यद्येवमप्यनवस्थितमतिः स्यात्ततोऽस्य पात्रं वि-पर्यस्येदिति” शङ्खस्मरणात् ततस्तं लब्धोदकम्पतितंसर्वकार्येषु सम्भाषणसहासनादिषु वहिःकुर्युर्वर्ज-येयुः तथा मनुः “निर्बर्त्तेरंस्ततस्तस्य सम्भाषण-सहासने दायाद्यस्य प्रदानञ्च यात्रा चैव हि लौकिकी” ।यदि स्नेहादिना सम्भाषणङ्करोति तदा प्रायश्चित्तंकार्यम् “अत ऊर्द्धन्तेन सह सम्भाष्य तिष्ठेदेकरात्रंजपन् सावित्रीमज्ञानपूर्व्वं ज्ञानपूर्व्वं त्रिरात्रमिति” ।घटनिनयनादयोऽप्यत्र