| YouTube Channel

घटकः (ghaTakaH)

 
Apte Hindi
Hindi
घटकः
पुं*
- -
वह वृक्ष जिसके फूल दिखाई देकर फल ही लगे
घटकः
पुं*
- -
"सगाई, विवाह तय कराने वाला, एक अभिकर्ता जो वंशावली मिला कर विवाह- सम्बन्ध तय कराये"
घटकः
पुं*
- -
वंशावली को जानने वाला
Wordnet
Sanskrit
Synonyms:
अङ्गम्, शाखा, घटकः, अवयवः
noun
कस्यापि तत्त्वस्य विषयस्य वा अवयवस्य तदीयप्रधानफलजनकव्यापारजनकत्वे सति तदीयप्रधानफलाजनकत्वम्।
"वेदस्य षट् अङ्गानि सन्ति।"
शब्दकल्पद्रुमः
Sanskrit
घटकः,
पुं,
(घटयति परस्परसम्बन्धादिकमिति ।घट् + णिच् + ण्वुल् ।) कुलाचार्य्यः तस्या-स्पृश्यत्वम् यथा, --“वरं चाण्डालसंस्पर्शं कुर्य्यात्तु साधकोत्तमः ।तथाप्यस्पृश्यगणकं सर्व्वदा तं परित्यजेत्
दूषिताः कलिकालेषु भारते विविधाः प्रजाः ।अतएव महेशानि ! सर्व्वे संसर्गदूषिताः
घटकं ब्राह्मणं देवि ! संस्पर्शे यत्नतस्त्यजेत्
”इति शाक्तानन्दतरङ्गिण्यां षोडशोल्लासे महिषमर्द्दिनीतन्त्रवचनम्
*
योजकः तत्पर्य्यायः ।त्र्यक्षरः इति त्रिकाण्डशेषः
तस्य लक्षणंयथा, कुलदीपिकायाम् ।“धावको भावकश्चैव योजकश्चांशकस्तथा ।दूषकस्तावकश्चैव षडेते घटकाः स्मृताः
”अन्यच्च ।“के नो विदन्ति पुरुषा पुरुषानुपूर्व्वी-मुर्व्वीतले कुलभृतां परिवर्त्तनं वा ।अत्यन्तसूक्ष्ममपि ये कुलतारतम्यंजानन्ति ते हि घटका तु योजकाद्याः
”वनस्पतिः पुष्पेण विना यः फलति सः इतिभूरिप्रयोगः
(घटयति योजयति परार्थहिता-दिकं साधयतीत्यर्थः योजके, त्रि यथाहभर्त्तृहरिः ६६ ।“ते ते सत्पुरुषाः परार्थघटकाः स्वार्थस्यवाधेन येमध्यस्थाः परकीयकार्य्यकुशलाः स्वार्थाविरोधेनये ।ते वै मानुषराक्षसाः परहितं यैः स्वार्थतो हन्यतेये घ्नन्ति निरर्थकं परहितं ते के जानी-महे
”)