ग्लायमानः (glAyamAnaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“ग्लै हर्षक्षये”@} 2 हर्षक्षयः = धातुक्षयः।
3 ग्लायकः-यिका, 4 ग्लपकः-ग्लापकः-प्रग्लापकः-पिका, 5 जिग्लासकः-सिका, जाग्लायक-यिका
6 ग्लाता-त्री, ग्लपयिता-ग्लापयिता-त्री, जिग्लासिता-त्री, जाग्लायिता-त्री
7 ग्लायन् 8 -न्ती, ग्लपयन्-ग्लापयन्-न्ती, जिग्लासन्-न्ती
-- ग्लास्यन्-न्ती-ती, ग्लपयिष्यन्-ग्लापयिष्यन्-न्ती-ती, जिग्लासिष्यन्-न्ती-ती
-- -- ग्लपयमानः-ग्लापयमानः, -- जाग्लायमानः
-- ग्लपयिष्यमाणः-ग्लापयिष्यमाणः, -- जाग्लायिष्यमाणः
सुग्लाः-सुग्लौ-सुग्लाः
-- -- 9 ग्लानः- 10 ग्लानम्-ग्लानवान्, 11 ग्लपितः-ग्लापितः, जिग्लासितः, जाग्लायितः-तवान्
12 सुग्लः, प्रग्लः 13, 14 ग्लायः, 15 ग्लास्नुः 16 ग्लपः-ग्लापः, जिग्लासुः, 17 जाग्लः
18 ग्लातव्यम्, ग्लपयितव्यम्-ग्लापयितव्यम्, जिग्लासितव्यम्, जाग्लायितव्यम्
19 प्रणिग्लानीयम्-प्रनिग्लानीयम्, ग्लपनीयम्-ग्लापनीयम्, जिग्लासनीयम्, जाग्लायनीयम्
20 ग्लेयम्, ग्लप्यम्-ग्लाप्यम्, जिग्लास्यम्, जाग्लाय्यम्
21 ईषद्ग्लानः-दुर्ग्लानः-सुग्लानः
-- -- ग्लायमानः, ग्लप्यमानः-ग्लाप्यमानः-प्रग्लाप्यमानः, जिग्लास्यमानः, जाग्लाय्यमानः
ग्लायः, ग्लपः-ग्लापः, जिग्लासः, जाग्लायः
ग्लातुम्, ग्लपयितुम्-ग्लापयितुम्, जिग्लासितुम्, जाग्लायितुम्
22 ग्लानिः, 23 प्रग्ला, ग्लपना-ग्लापना, जिग्लासिषा, जाग्लाया
ग्लानम्, ग्लपनम्-ग्लापनम्, जिग्लासनम्, जाग्लायनम्
ग्लात्वा, ग्लपयित्वा-ग्लापयित्वा, जिग्लासित्वा, जाग्लायित्वा
प्राग्लाय, 24 प्रग्लाप्य, प्रजिग्लास्य, प्रजाग्लाय्य
ग्लायम् २, ग्लात्वा २, 25 ग्लपम् २ -ग्लापम् २, ग्लपयित्वा २ -ग्लापयित्वा २, जिग्लासम् २, जिग्लासित्वा २, जाग्लायम् २
जाग्लायित्वा २। 26 ग्लौः।
27
01 (४५२)
02 (१-भ्वादिः-९०३। अक। अनि। पर।)
03 [[१। ‘आदेच उपदेशेऽशिति’ (६-१-४५) इत्यनेनानैमित्तिके आत्वे, ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं घञि णमुल्यपि ज्ञेयम्।]]
04 [[२। अनैमित्तिके आत्त्वे, ‘अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां--’ (७-३-३६) इति पुगागमे ‘ग्लास्नावनुवमां च’ (गणसूत्रम्-भ्वादिः) इत्यनेनानुपसृष्टस्य ग्लाधातोर्मित्त्वं- वैकल्पिकम्। मित्त्वपक्षे, ‘मितां ह्रस्वः’ (६-४-९२) इति णौ उपधाह्रस्वः। एवं ण्यन्ते सर्वत्र बोध्यम्। उपसर्गसमभिव्याहारे तु मित्त्वं न
\n\n तेन ‘प्रग्लापकः’ इत्येव।]]
05 [[३। धातोरस्यानुदात्तत्वात्, ‘एकाच उपदेशेऽनुदात्तात्’ (७-२-१०) इत्यनेन सनः इडभावे, ‘सन्यङोः’ (६-१-९) इति द्वित्वे, अभ्यासे, ‘सन्यतः’ (७-४-७९) इतीत्त्वम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
06 [पृष्ठम्०४४६+ २६]
07 [[१। शित्परकत्वेनात्वाभावे, ‘एचोऽयवायावः’ (६-१-७८) इत्यायादेशः।]]
08 [[आ। ‘ततो रावणमाख्याय द्विषन्तं पततां वरः। व्रणवेदनया ग्लायन् ममार गिरिकन्दरे।।’ भ। का। ६-४३।]]
09 [[२। ‘संयोगादेरातो धातोर्यण्वतः’ (८-२-४३) इति निष्ठातकारस्य नकारः।]]
10 [[B। ‘धयन् दृशा ग्लानरुचिं स कृष्णं म्लानिं त्यजन् द्यानमले जलान्ते।’ धा। का। २-३०।]]
11 [[C। ‘आजिघ्रैः पुष्पगन्धानां पतङ्गैर्ग्लपिता वयम्।।’ भ। का। ६-७८।]]
12 [[३। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कर्तरि कप्रत्ययः। ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपः।]]
13 [[ड्। ‘अज्ञो यो यस्य वा नास्ति प्रियः प्रग्लो भवेन्न सः।।’ भ। का। ६। ७७।]]
14 [[४। ‘श्याऽऽद्व्यधाश्रु--’ (३-१-१४१) इति कर्तरि णप्रत्यये युगागमः।]]
15 [[५। ‘ग्लाजिस्थश्च ग्स्नुः’ (३-२-१३९) इति तच्छीलादिषु कर्तृषु ग्स्नुप्रत्ययः। ‘श्रयुकः क्किति’ (७-२-११) इति इण्णिषेधः।]]
16 [[E। ‘तान् विलोक्यासहिष्णुः सन् विललापोन्मदिष्णुवत्। वसन् माल्यवति ग्लास्नू रामो जिष्णुरधृष्णुवत्।।’ भ। का। :७। ४।]]
17 [[६। ‘न धातुलोप आर्धधातुके’ (१-१-४) इति सूत्रस्य भाष्यकृता प्रत्याख्यानपक्षे, पृथगल्लोपे, ‘यङोऽचि च’ (२-४-७४) इत्यनेन यकारस्य लुकि, अकारस्य लुकि, अकारस्य स्थानिवद्भावेन अजाद्यार्धधातुकङित्परकत्वात् ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपे च ‘जाग्लः’ इति रूपम्। साम्भावनिकस्य ङित्त्व- स्यातिदेशलभ्यत्वादेव ‘यातिः’ इत्यत्र यङन्तात् क्तिचि अल्लोपस्य स्थानिवद्भा- वादुत्तरखण्डे आकारलोपो भवतीति बोध्यम्। ‘यङोऽचि च’ (२-४-७२) इत्यनेना- नैमित्तिके लुकि तु आकारलोपाभावे जाग्लाः इत्येव।]]
18 [पृष्ठम्०४४७+ १८]
19 [[१। ‘शेषे विभाषाऽकस्वादावषान्त उपदेशे’ (८-४-१८) इति णत्वविकल्पः।]]
20 [[२। आत्वे, ‘ईद्यति’ (६-४-६५) इत्याकारस्य ईकारे गुणः।]]
21 [[३। ‘आतो युच्’ (३-३-१२८) इति ईषदाद्युपपदेषु खलपवादो युच्।]]
22 [[४। ‘ग्लाम्लाज्याहाभ्यो निः (वा। ३-३-९५) इति स्त्र्यधिकारे क्तिनपवादो नि- प्रत्ययः।]]
23 [[५। ‘आतश्चोपसर्गे’ (३-३-१०६) इति स्त्रियामङ्।]]
24 [[६। उपसृष्टस्य धातोः मित्त्वाभावात् ‘मितां ह्रस्वः’ (६-४-९२) इति ह्रस्वो न।]]
25 [[७। मित्त्वपक्षे, ‘चिण्णमुलोः--’ (६-४-९३) इति णमुल्परे णौ दीर्घविकल्पः।]]
26 [[८। ‘ग्लानुदिभ्यां डौः’ (द। उ। २-१२) इति डौप्रत्ययः। ग्लौः = चन्द्रः। ग्लायतीति ग्लौः।]]
27 [पृष्ठम्०४४८+ २९]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
