ग्लहः (glahaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishग्लहः [glahḥ], [cf. III.3.7]
A dice-player
तावकानां जये भीष्मो ग्लह आसीद्विशांपते * 6.114.44.
A stake, wager, bet
प्राणग्लहो$यं समरः 6.12.17
व्यात्युक्षीम- भिसरणग्लहामदीव्यन् 8.32.
A die.
Gambling, playing.
A dice box.
Cast of the dice, game at dice
ग्लहे शतिकवृद्धेस्तु 2.199.
A chess-man.
Apte 1890
EnglishApte Hindi
Hindiग्लहः
- ग्लह् - अप्
पासे से खेलने वाला
ग्लहः
- ग्लह् - अप्
"दाव, बाजी लगाना, शर्त लगाना"
ग्लहः
- ग्लह् - अप्
पासा
ग्लहः
- ग्लह् - अप्
जूआ खेलना
ग्लहः
- ग्लह् - अप्
बिसात
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit शारी, खेलनी, सारी, ग्लहः, शारिः, सारिः
चतुरङ्गक्रीडायाः गुलिका।
"सः शारेः त्राणाय प्रायतत।"
पणः, पणितम्, ग्लहः
तद् धनं वस्तु वा यस्य कृते जनाः अक्षक्रीडादीन् क्रीडन्ति।
"युधिष्ठिरेण द्यूतक्रीडायां द्रौपदीं पणेषु व्यदेवीत्।"
ग्लहः, पणः, पणबन्धः
सा क्रीडा यत्र जयः पराजयो वा भवति यस्यां देवनं च वर्तते।
"श्यामेन अन्तिमसमये पणः जीतः।"
शब्दकल्पद्रुमः
Sanskritग्लहः, (ग्लह + “अक्षेषु ग्लहः ।” ३ । ३ । ७० ।अक्षशब्देन देवनं लक्ष्यते तत्र यत् पणरूपेणग्राह्यं तत्र ग्लह इति निपात्यते । इति वार्त्ति-कोक्त्या च निपातनात् तथात्वम् ।) अक्ष-क्रीडासु पणः । इत्यमरः । २ । १० । ४५ ॥
आड इति वाजि इति च भाषा ॥
(यथा, महा-भारते । २ । ६७ । ६ ।“पाञ्चालस्य द्रुपदस्यात्मजामिमांसभामध्ये यो व्यदेवीद् ग्लहेषु ॥
”)
कृदन्तरूपमाला
Sanskrit1 {@“ग्रह उपादाने”@} 2 ग्रह्यादिः।
उपादानम् = स्वीकारः।
‘ण्यन्तस्य ग्रहणे गृहेर्गृहयते, तत्रानदन्ताद् गृहेः भूवादेः शपि गर्हते, श्नि तु पदे गृह्णात्यगृह्णीत च।
3 गर्हेर्वा णिचि निन्दनार्थविषये गर्हेत् तथा, गर्हयेद् भूवादेः शपि कुत्सनार्थविषये गर्हेर्भवेद् गर्हते।।’ 4 इति देवः।
ग्राहकः-हिका, ग्राहकः-हिका, 5 जिघृक्षकः-क्षिका, 6 जरीगृहकः-हिका
7 ग्रहीता-त्री, ग्राहयिता-त्री, जिघृक्षिता-त्री, 8 जरीगृहिता-त्री
9 गृह्णन्-ती, विगृह्णन्, ग्राहयन्-न्ती, जिघृक्षन्-न्ती
-- ग्रहीष्यन्-न्ती-ती, ग्राहयिष्यन्-न्ती-ती, जिघृक्षिष्यन्-न्ती-ती
-- गृह्णानः, ग्राहयमाणः, जिघृक्षमाणः, जरीगृह्यमाणः
ग्रहीष्यमाणः, ग्राहयिष्यमाणः, जिघृक्षिष्यमाणः, जरीगृहिष्यमाणः
10 विघृट्-विघृड्-विगृहौ-विगृहः
-- -- 11 गृहीतम्-तः, 12 पाणिगृहीती-पाणिगृहीता, ग्राहितः, जिघृक्षितः, जरीगृहितः-तवान्
13 14 ग्राही, 15 गुणग्राही, 16 ग्राहः- 17 ग्रहः, 18 गृहम्-गृहाः, 19 शक्तिग्रहः, लाङ्गलग्रहः, अङ्कुशग्रहः, यष्टिग्रहः, तोमरग्रहः, घटग्रहः, घटी ग्रहः घनुर्ग्रहः, 20 सूत्रग्रहः, 21 फलेग्रहिः 22, ग्राहः, 23 जिघृक्षुः, 24 विजिग्राहयिषुः, जरीगृहः
ग्रहीतव्यम्, ग्राहयितव्यम्, जिघृक्षितव्यम्, जरीगृहितव्यम्
ग्रहणीयम्, ग्राहणीयम्, जिघृक्षणीयम्, जरीगृहणीयम्
ग्राह्यम्, 25 प्रतिगृह्यम्-अपिगृह्यम्, 26 प्रगृह्यम् 27 28, गृह्यकाः 29 30, अगृह्या, ग्रामगृह्या नगरगृह्या, 31, ग्रामग्राह्यः, वासुदेवगृह्या, अर्जुनगृह्या-देवगृह्या, 32, ग्राह्यम्, जिघृक्ष्यम्, जरीगृह्यम्
ईषद्-ग्रहः-दुर्ग्रहः-सुग्रहः
-- -- गृह्यमाणः, ग्राह्यमाणः, जिघृक्ष्यमाणः, जरीगृह्यमाणः
33 ग्रहः, 34 उद्ग्राहः 35, 36 सङ्ग्राहः 37, सङ्ग्रहः, 38 अवग्राहः-निग्राहः, अवग्रहः 39, निग्रहः 40, 41 प्रग्राहः, 42 परिग्राहः, परिग्रहः 43, 44 अवग्राहः-अवग्रहः, 45 46 तुलाप्रग्राहः- 47 तुलाप्रग्रहः, 48 49 प्रग्राहः-प्रग्रहो वा, 50 51 ग्लहः, 52 ग्राहः, जिघृक्षः, जरीगृहः
53 ग्रहीतुम्, ग्राहयितुम्, जिघृक्षितुम्, जरीगृहितुम्
54 निगृहीतिः, ग्राहणा, जिघृक्षा, जरीगृहा
ग्रहणम्, ग्राहणम्, जिघृक्षणम्, जरीगृहणम्
55 गृहीत्वा, ग्राहयित्वा, जिघृक्षित्वा, जरीगृहित्वा
विगृह्य, विग्राह्य, विजिघृक्ष्य, विजरीगृह्य
56 जीवग्राहं, 57 58, 59 नामग्राहं, 60 61
62 हस्तग्राहं, 63, 64 यष्टिग्राहं 65, 66 केशग्राहं युध्यन्ति
ग्राहम् २, गृहीत्वा २, ग्राहम् २, जिघृक्षम् २, जरीगृहम् २
ग्राहयित्वा २, जिघृक्षित्वा २, जरीग्र्हित्वा २। 67
01 (४४१)
02 (९-क्र्यादिः-१५३३। सक। सेट्। उभ।)
03 [पृष्ठम्०४३६+ २५]
04 (श्लो। १९४)
05 [[१। ‘सन्यङोः’ (६-१-९) इति द्वित्वे, अभ्यासकार्ये, ‘सनि ग्रहगुहोश्च’ (७-२-१२) इतीण्णिषेधः। ‘रुदविदमुषग्रहिस्वपिप्रच्छः संश्च’ (१-२-८) इति कित्त्वे ‘ग्रहि- ज्या--’ (६-१-१६) इति सम्प्रसारणे, उत्तरखण्डे हकारस्य ढत्वे, भष्भावे च कृते, ‘षढोः कः सि’ (८-२-४१) इति कत्वे षत्वे च रूपम्। एवं सन्नन्ते सर्वत्र प्रक्रिया बोध्या।]]
06 [[२। यङ्निमित्तके सम्प्रसारणे द्वित्वे, अभ्यासस्य ‘रीगृत्वत इति वक्तव्यम्’ (वा। ७-४-९०) इति रीगागमे यलोपाल्लोपयोः रूपम्। एवं यङन्ते सर्वत्रापि ज्ञेयम्।]]
07 [[३। ‘ग्रहोऽलिटि दीर्घः’ (७-२-३७) इतीटो दीर्घः। एवं इडागमे सर्वत्र दीर्घो बोध्यः।]]
08 [[४। ‘ग्रहोऽलिटि दीर्घः’ (७-२-३७) इति दीर्घः नात्र प्रवर्तते। अल्लोपस्य स्थानिवद्भा- वात्। एवं सर्वत्र यङन्तस्थले बोध्यम्।]]
09 [[५। ‘क्र्यादिभ्यः--’ (३-१-८१) इति श्नाप्रत्यये, ‘सार्वधातुकमपित्’ (१-२-४) इत्यनेन श्नाप्रत्ययस्य ङिद्वद्भावात् ‘ग्रहिज्यावयि--’ (६-१-१६) इत्यादिना सम्प्र- सारणे, ‘श्नाऽभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपे, ‘ऋवर्णान्नस्य--’ (वा। ८-४-१) इति णत्वे च रूपम्। एवं शानजन्तेऽपि ज्ञेयम्।]]
10 [[६। क्विपि, ‘ग्रहिज्या--’ (६-१-१६) इत्यादिना सम्प्रसारणे पूर्वरूपे च, हस्य ढत्वे भष्भावे, चर्त्वविकल्पे च रूपम्।]]
11 [[७। सम्प्रसारणे पूर्वरूपे, इटो दीर्घे चं रूपम्।]]
12 [[८। ‘पाणिगृहीती भार्यायाम्’ (वा। ४-१-५२) इति ङीषन्तो निपात्यते। भार्याया अन्यत्र पाणिगृहीता।]]
13 [पृष्ठम्०४३७+ ३४]
14 [[१। ‘नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः’ (३-१-१३४) इत्यनेन ग्रह्यादित्वात् णिनिः।]]
15 [[२। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
16 [[३। ‘विभाषा ग्रहः’ (३-१-१४३) इति कर्तरि णो वा। पक्षे पचाद्यच् (३-१-१३४)। अत्र व्यवस्थितविभाषाश्रयणात् जलचरे जन्तौ ग्राहः इत्येव। ज्योतिषि बाच्ये ग्रहः इति बोध्यम्। ‘देवत्रातो गलो ग्राह इतियोगे च सद्विधिः। मिथस्ते न विभाष्यन्ते गवाक्षः संशितव्रतः।।’ (भाष्यम्-७-४-४१) इति व्यवस्थितविभाषा।]]
17 [[आ। ‘समाविष्टं ग्रहेणेव ग्राहेणेवोत्तमार्णवे। दृष्ट्वा गृहान् स्मरस्येव वनान्तान्मम मानसम्।।’ भ। का। ६-८३।]]
18 [[४। ‘गेहे कः’ (३-१-१४४) इति कर्तरि कः। कित्त्वात् सम्प्रसारणम्। गृहाः = गृहिणी। तात्स्थ्यात् ताच्छब्द्यम्।’ गृहाः पुंसि च भूम्न्येव--’ इत्यमरः।]]
19 [[५। ‘शक्तिलाङ्गलाङ्कुशयष्टितोमरघटधटीधनुःषु ग्रहेरुपसंख्यानम्’ (वा। ३-२-९) इति कर्मण्युपपदेऽच् प्रत्ययः। कर्मण्यणोऽपवादः।]]
20 [[६। ‘सूत्रे च धार्येऽर्थे’ (वा। ३-२-९) इति अच्। कर्मण्यणोऽपवादः।]]
21 [[७। ‘फलेग्रहिरात्मम्भरिश्च’ (३-२-२६) इति इन्प्रत्ययान्तो निपात्यते। उपपदस्य एदन्तत्वं निपातनाद्भवति। फलानि गृह्णातीति फलेग्रहिः ‘रजोग्रहिः मलग्राहिरिति केचित्।’ इति प्रक्रियाकौमुदी।]]
22 [[B। ‘आत्मम्भरिस्त्वं पिशितैर्नराणां फलेग्रहीन् हंसि वनस्पतीनाम्। शौवस्तिकत्वं विभवा न येषां व्रजन्ति तेषां दयसे न कस्मात्।।’ भ। का। २-३३।]]
23 [[C। ‘विदित्वा शक्तिमात्मीयां रावणं विजिघृक्षवः। उक्तं पिपृच्छिषूणां वो मा स्म भूत सुषुप्सवः।।’ भ। का। ७-९८।]]
24 [[ड्। ‘खरदूषणयोर्भ्रात्रोः पर्यदेविष्ट सा पुरः। विजिग्राहयिषू रामं दण्डकारण्यवासिनोः।।’ भ। का। ४-३४।]]
25 [[८। ‘प्रत्यपिभ्यां ग्रहेः’ (३-१-११८) इति क्यपू। ‘छन्दसीति वक्तव्यम्’ (वा। ३-१-११८) इति वचनात् छन्दसि विषये प्रतिगृह्यम्-अपिगृह्यम् इति रूपे ज्ञेये। ‘भाषायां वा’ इति केचित् -- इति प्रक्रियाकौमुदी।]]
26 [[९। ‘पदास्वैरिबाह्यापक्ष्येषु च’ (३-१-११९) इति क्यपू। ‘बाह्या’ इति स्त्रीलिङ्ग- निर्देशात् लिङ्गान्तरे मा भूदिति, तेन ‘ग्रामग्राह्यश्चण्डालः’ इत्यत्र ण्यदेव भवतीति मा। धा। वृत्तिः।]]
27 [[E। ‘प्रगृह्यपदवत् साध्वीं स्पष्टरूपामविक्रियाम्। अगृह्यां वीतकामत्वात् देवगृह्यामनिन्दिताम्।।’ भ। का। ६-६१।]]
28 [पदम्]
29 [पृष्ठम्०४३८+ ३०]
30 (परतन्त्राः शुकाः)
31 [ग्रामात् नगराद्वा बाह्या सेना]
32 [तत्पक्षाश्रिता]
33 [[१। ‘ग्रहवृदृनिश्चिगमश्च’ (३-३-५८) इत्यप्। घञ्पवादः।]]
34 [[२। ‘उदि ग्रहः’ (३-३-३५) इति घञ्। अबपवादः।]]
35 [मल्लस्य]
36 [[३। ‘समि मुष्टौ’ (३-३-३६) इति घञ्। अबपवादः। अन्यत्र ‘द्रव्यस्य सङ्ग्रहः’ इत्येव।]]
37 [द्रव्यस्य]
38 [[४। ‘आक्रोशेऽवन्योर्ग्रहः’ (३-३-४५) इति घञ्। आक्रोशादन्यत्र, ‘अवग्रहः पदस्य, निग्रहः चोरस्य’ इत्यत्र अबेव।]]
39 [पदस्य]
40 [चोरस्य]
41 [[५। ‘प्रे लिप्सायाम्’ (३-३-४६) इति घञ्। ‘पात्रप्रग्राहेण चरति भिक्षुः’ इत्यत्र लिप्सा गम्यते।]]
42 [[६। ‘परौ यज्ञे’ (३-३-४७) इति घञ्। ‘उत्तरं परिग्राहं परिगृह्णाति’ इति श्रुतिः। यज्ञविषयादन्यत्र परिग्रहः इत्येव। ‘पत्नीपरिजनादानमूलशापाः परिग्रहाः।’ इति अमरः।]]
43 [धान्यस्य]
44 [[७। ‘अवे ग्रहो वर्षप्रतिबन्धे’ (३-३-५१) इति वा घञ्। पक्षेऽप्।]]
45 [[आ। ‘रावणावग्रहक्लान्तम् इति वागमृतेन सः। अभिवृष्य मरुत्सस्यं कृष्णमेघस्तिरोदधे।।’ रघुवंशे १०-४८।]]
46 [[८। ‘प्रे वणिजाम्’ (३-३-५२) इति वा घञ्। तुलाप्रग्राहेण चरति वणिक्।]]
47 [[B। ‘वणिक् प्रग्राहवान् यद्वत् काले चरति सिद्धये। देशापेक्षास्तथा यूयं यातादायाङ्गुलीयकम्।।’ भ। का। ७-४९।]]
48 [अश्वस्य]
49 [[९। ‘रश्मौ च’ (३-३-५३) इति वा घञ्। ‘प्रग्राहः = खलीसूत्रम्।’ इति प्रक्रियाकौमुदीव्याख्यायाम्।]]
50 [अक्षः]
51 [[१०। ‘अक्षेषु ग्लहः’ (३-३-७०) इत्यनेन ग्रहेः अप्प्रत्ययसन्नियोगेन रेफस्य लत्वं निपात्यते। यत् पणरूपेण ग्राह्यं तत् ग्लहः इति बोध्यम्।]]
52 [[C। ‘मुग्धत्वादविदितकैतवप्रयोगा गच्छन्त्यः सपदि पराजयं तरुण्यः। ताः कान्तैः सह करपुष्करेरिताम्बु व्यात्युक्षीमभिसरणग्लहामदीव्यन्।।’ शिशुपालवधे ८-३२।]]
53 [पृष्ठम्०४३९+ २२]
54 [[१। ‘तितुत्रेष्वग्रहादीनामिति वक्तव्यम्’ (वा। ७-२-९) इति वचनात् इण्णिषेधो न। दीर्घः, सम्प्रसारणम्।]]
55 [[२। ‘रुदविदमुषग्रहिस्वपिप्रच्छः संश्च’ (१-२-८) इति कित्त्वम्। ‘न क्त्वा सेट्’ (१-२-१८) इत्यस्यापवादः। सम्प्रसारणादिकं ज्ञेयम्।]]
56 [[३। ‘समूलाकृतजीवेषु हङ्कृञ्ग्रहः’ (३-४-३६) इति णमुल्। ‘कषादिषु यथा- विधि--’ (३-४-४६) इत्यनुप्रयोगः। जीवन्तं गृह्णातीत्यर्थः।]]
57 [[आ। ‘भिन्नानस्त्रैर्मोहभाजोऽभिजातान् हन्तुं लोलं वारयन्तः स्ववर्गम्। जीवग्राहं ग्राहयामासुरन्ये योग्येनार्थः कस्य न स्याज्जनेन।।’ शिशुपालवधै १८-६६।]]
58 [गृह्णाति]
59 [[४। ‘नाम्न्यादिशिग्रहोः’ (३-४-५८) इति द्वितीयान्ते उपपदे णमुल्।]]
60 [[B। ‘सम्प्राप्य राक्षससभं चक्रन्द क्रोधविह्वला। नामग्राहमरोदीत् सा भ्रातरौ रावणान्तिके।।’ भ। का। ५-५।]]
61 [आह्वयति]
62 [[५। ‘हस्ते वर्तिग्रहोः’ (३-४-३९) इति करणे उपपदे णमुल्। हस्तेन गृह्णातीत्यर्थः। हस्तशब्दः अर्थग्रहणार्थः। तेन करग्राहं गृह्णातीत्यपि उदाहार्यम्। कषादित्वात् (३-४-४६) पूर्ववत् यथाविध्यनुप्रयोगः।]]
63 [गृह्णाति]
64 [[६। ‘द्वितीयायां च’ (३-४-५३) इति परीप्सायां गम्यमानायां णमुल्। एवं नाम त्वरन्ते, यदायुधग्रहणमपि नाद्रियन्ते, यष्ट्यादिकं यत्किञ्चिदासन्नं तद्गृहीत्वा युष्यन्तीत्यर्थः।]]
65 [युध्यन्ति]
66 [[७। ‘समासत्तौ’ (३-४-५०) इति सप्तम्यां तृतीयायां चोपपदे समासत्तौ गम्यमानायां णमुल्।]]
67 [पृष्ठम्०४४०+ २५]
1 {@“ग्लह गर्हणे”@} 2 3 ‘ग्लहू ग्रहणे’ इति क्षीरस्वामी पपाठ।
धातुकाव्यव्याख्यानेऽप्येवम्।
तेषां मते ऊदित्त्वप्रयुक्तः इड्विकल्पः वलाद्यार्धधातुकेषु ऊह्यः, यथा ग्लाढा, ग्लहिता, इत्यादिकम्।]] ग्लाहकः-हिका, ग्लाहकः-हिका, जिग्लहिषकः-षिका, जाग्लहकः-हिका
ग्लहिता-त्री, ग्लाहयिता-त्री, जिग्लहिषिता-त्री, जाग्लहिता-त्री
-- ग्लाहयन्-न्ती, ग्लाहयिष्यन्-न्ती-ती
-- ग्लहमानः, ग्लाहयमानः, जिग्लहिषमाणः, जाग्लह्यमानः
ग्लहिष्यमाणः, ग्लाहयिष्यमाणः, जिग्लहिषिष्यमाणः, जाग्लहिष्यमाणः
4 विध्लट्-विध्लड्-विग्लहौ-विग्लहः
-- -- 5 ग्लहितम्-तः, ग्लाहितः, जिग्लहिषितः, जाग्लहितः-तवान्
ग्लहः, 6 ग्लहनः, ग्लाहः, जिग्लहिषुः, जाग्लहः
ग्लहितव्यम्, ग्लाहयितव्यम्, जिग्लहिषितव्यम्, जाग्लहितव्यम्
ग्लहनीयम्, ग्लाहनीयम्, जिग्लहिषणीयम्, जाग्लहनीयम्
ग्लाह्यम्, ग्लाह्यम्, जिग्लहिष्यम्, जाग्लह्यम्
ईषद्ग्लहः-दुर्ग्लहः-सुग्लहः
-- -- ग्लह्यमानः, ग्लाह्यमानः, जिग्लहिष्यमाणः, जाग्लह्यमानः
ग्लाहः, ग्लाहः, जिग्लहिषः, जाग्लहः
ग्लहितुम्, ग्लाहयितुम्, जिग्लहिषितुम्, जाग्लहितुम्
7 ग्लाढिः, ग्लाहना, जिग्लहिषा, जाग्लहा
8 ग्लहनम्, ग्लाहनम्, जिग्लहिषणम्, जाग्लहनम्
ग्लहित्वा, ग्लाहयित्वा, जिग्लहिषित्वा, जाग्लहित्वा
संग्लह्य, संग्लाह्य, सञ्जिग्लहिष्य, सञ्जाग्लह्य
ग्लाहम् २, ग्लहित्वा २, ग्लाहम् २, ग्लाहयित्वा २, जिग्लहिषम् २, जिग्लहिषित्व २, जाग्लहम् २
जाग्लहित्वा २।
01 (४४५)
02 (१-भ्वादिः-६५१। सक। सेट्। आत्म।)
03 [[[अ]
04 [[३। पदान्ते हकारस्य, ‘हो ढः’ (८-२-३१) इति ढत्वे, ‘एकाचो बशो भष्--’ (८-२-३७) इति भष्भावे चर्त्वविकल्पः।]]
05 [पृष्ठम्०४४३+ २६]
06 [[१। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति ताच्छीलिको युच्।]]
07 [[२। हकारस्य ‘हो ढः’ (८-२-३१) इति झल्निमित्तके ढत्वे, ‘झषस्तथोर्धोऽधः’ (८-२-४०) इति धत्वे, ‘ष्टुना ष्टुः’ (८-४-४१) इति धकारस्य ढत्वे, ‘ढो ढे लोपः’ (८-३-१३) इति ढकारस्य लोपे, ‘ढ्रलोपे पूर्वस्य’ (६-३-१११) इति दीर्घः।]]
08 [[आ। ‘गाढमैत्ररसगृह्यमाणधीर्भूषणग्लहनघुंषितो बलः।।’ धा। का। १-८२।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
