ग्रीष्मः (grISmaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiग्रीष्मः
- -
"गर्मी का मौसम, गरम ऋतु"
ग्रीष्मः
- -
"गर्मी, उष्णता"
ग्रीष्मः
- -
ग्रीष्म ऋतु
Wordnet
Sanskrit ग्रीष्मः, ग्रीष्मकालः, ग्रीष्मसमयः, निदाघकालः, निदाघः, उष्णकालः, उष्णः, उष्णकः, उष्मः, उष्मा, तपः, तपाः
उष्णस्य समयः।
"ग्रीष्मे तृष्णा वर्धते।"
ग्रीष्मः
एकः पुरुषः ।
"ग्रीष्मः अश्वादिगणे परिगणितः"
वैजयन्तीकोषः
SanskritWord: ग्रीष्मः
Root: ग्रीष्म
Gender: पुं
Number: all
अर्थः ⇒ ज्येष्ठाषाढाभ्याम् ऋतुः
Meaning(s):
⇒ Summer season consisting of the months Jyaiṣṭha and Āṣāḍha
Shloka(s):
2|1|88|1 ► पुष्पकालोऽपीध्ममस्त्री ग्रीष्मस्त्वारखोर ऊष्मकः। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
2|1|88|2 ► शुचिरुष्णागमः पात्म उष्ण ऊष्माऽप्यथ क्षरी॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
➠ 2|1|88|1 ⇢ ग्रीष्मः (ग्रीष्म) (पुं) ⇒ Summer season consisting of the months Jyaiṣṭha and Āṣāḍha ⇒ ज्येष्ठाषाढाभ्याम् ऋतुः
➠ 2|1|88|1 ⇢ आखोरः (आखोर) (पुं) ⇒ Epithet of Griṣma season ⇒ ज्येष्ठाषाढाभ्याम् ऋतुः
➠ 2|1|88|1 ⇢ ऊष्मकः (ऊष्मक) (पुं) ⇒ Epithet of Griṣma season ⇒ ज्येष्ठाषाढाभ्याम् ऋतुः
➠ 2|1|88|2 ⇢ शुचिः (शुचि) (पुं) ⇒ Epithet of Griṣma season ⇒ ज्येष्ठाषाढाभ्याम् ऋतुः
➠ 2|1|88|2 ⇢ उष्णागमः (उष्णागम) (पुं) ⇒ Epithet of Griṣma season ⇒ ज्येष्ठाषाढाभ्याम् ऋतुः
➠ 2|1|88|2 ⇢ पात्मः (पात्म) (पुं) ⇒ Epithet of Griṣma season ⇒ ज्येष्ठाषाढाभ्याम् ऋतुः
➠ 2|1|88|2 ⇢ उष्णः (उष्ण) (पुं) ⇒ Epithet of Griṣma season ⇒ ज्येष्ठाषाढाभ्याम् ऋतुः
➠ 2|1|88|2 ⇢ ऊष्मा (ऊष्मन्) (पुं) ⇒ Epithet of Griṣma season ⇒ ज्येष्ठाषाढाभ्याम् ऋतुः
Related word(s):
अवयव_अवयवीसंबन्धः ➡ ज्यैष्ठः
परा_अपरासंबन्धः ➡ ऋतुः
जातिः ➡ कालः
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritग्रीष्मः, (ग्रसते रसान् इति । ग्रसु अदने +“ग्रीष्मः ।” उणां । १ । १४९ । इति मक्ग्रीभावश्च घातोः षुगागमश्च निपात्यते ।) ऋतु-विशेषः । (यथा, मनुः । ६ । २३ ।“ग्रीष्मे पञ्चतपास्तु स्याद्वर्षास्वभ्रावकाशिकः ॥
”)स तु ज्यैष्ठाषाढौ । तत्पर्य्यायः । उष्णकः २निदाघः ३ उष्णोपगमः ४ उष्णः ५ उष्मागमः ६तपः ७ । इत्यमरः । १ । ४ । १९ ॥
घर्म्मः ८तापनः ९ उष्णागमः १० उष्णकालः ११ ।“ग्रैष्मिकन्त्वनभिस्यन्दि जलमित्येष निश्चयः ॥
”इति राजनिर्घण्टः ॥
(“दीर्घवासरकं तीक्ष्णं ज्वालामालाकुलं जगत् ।दिशि ग्रीष्मे मृगतृष्णाः स्विन्नाः स्युर्मृगवाजिनः ॥
नैरृतो मारुतो रूक्षः शीर्णपर्णा महीरुहाः ।दग्धं तृणाकुलारण्यं दावाग्निश्च दिशो दश ॥
एवं लक्षणके ग्रीष्मे पित्तरक्तमुदीर्य्यते ।तस्मात् क्रिया प्रतीकारं कुर्य्यात् संशमनं भिषक् ॥
जलक्रीडा दिवानिद्रा सेवनं सुखसाधनम् ।श्यामारामारतं शस्तं कुञ्जकिञ्जल्कशीतलम् ॥
नीलनालदलोपेतः श्रमघ्नो व्यजनानिलः ।केतक्या मोदकुसुमचन्दनोशीरशीतलैः ॥
लेपनं शीतलं सम्यक् धारागाराश्रयः पुनः ।एवं क्रिया समापन्ने ग्रीष्मे च सुखसङ्गमः ॥
”इति ग्रीष्मोपचारः ॥
इति हारीते प्रथमे स्थाने पञ्चभेऽध्याये ॥
“तीक्ष्णांशुरतितीक्ष्णां शुर्गीष्मे संक्षिपतीव यत् ।प्रत्यहं क्षीयते श्लेष्मा तेन वायुश्च वर्द्धते ॥
अतोऽस्मिन् पटुकट्वम्लव्यायामार्ककरांस्त्यजेत् ।भजेन्मधुरमेवान्नं लधुस्निग्धं हिमं द्रवम् ॥
सुशीततोयसिक्ताङ्गो लिह्यात् शक्तून् सशर्करान् ॥
मद्यं न पेयं पेयं वा स्वल्पं सुबहु वारि वा ॥
अन्यथा शोफशौथिल्यदाहमोहान् करोति तत् ।कुन्देन्दुधवलं शालिमश्नीयाज्जाङ्गलैः पलैः ॥
पिबेद्रसं नातिघनं रसालां रागखाण्डवौ ।पानकं पञ्चसारं वा नवमृद्भाजनस्थितम् ॥
मोचचोचदलैर्युक्तं साम्लं मृण्मयशुक्तिभिः ।पटलावासितञ्चाम्भः सकर्पूरं सुशीतलम् ॥
शशाङ्ककिरणान् भक्ष्यान् रजन्यां भक्षयन् पिबेत्ससितं माहिषं क्षीरं चन्द्रनक्षत्रशीतलम् ॥
अभ्रङ्कषमहाशालतालरुद्धोष्णरश्मिषु ।वनेषु माधवीश्लिष्टद्राक्षास्तवकशालिषु ॥
सुगन्धिहिमपानीयसिच्यमानपटालिके ।कायमाने चिते चूतप्रवालफललम्बिभिः ॥
कदलीदलकह्लार-मृणालकमलोत्पलैः ।कल्पिते कोमलैस्तल्पे हसत्कुसुमपल्लवे ॥
मध्यदिनेऽर्कतापार्त्तः स्वप्याद्धारागृहेऽथवा ।पुस्तस्त्रीस्तनहस्तास्यप्रवृत्तोशीरवारिणि ॥
निशाकरकराकीर्णे सौधपृष्ठे निशासु च ।आसनास्वस्थचित्तस्य चन्दनार्द्रस्य मालिनः ॥
निवृत्तकामतन्त्रस्य सुसूक्ष्मतनुवाससः ।जलार्द्रास्तालवृन्तानि विस्तृताः पद्मिनीपुटाः ॥
उत्क्षेपाश्च मृदूत्क्षेपा जलवर्षिहिमानिलाः ।कर्पूरमल्लिकामाला हाराः सहरिचन्दनाः ॥
मनोहरकलालापाः शिशवः शारिकाः शुकाः ।मृणालवलयाः कान्ताः प्रोत्फुल्लकमलोज्ज्वलाः ॥
जङ्गमा इव पद्मिन्यो हरन्ति दयिताः क्लमम् ॥
”इति वाभटे सूत्रस्थाने तृतीयेऽध्याये ॥
“ग्रीष्मे पुनर्भृशौष्ण्योपहतत्वात् शरीरमसुखोप-पन्नं भवति । उष्णवातावध्मातमतिशिथिल-मत्यन्तप्रविलीनदोषं भेषजं पुनः संशोधनार्थ-मुष्णस्वभावमुष्णानुगमनात्तीक्ष्णतरत्वमापद्यते ।तस्मात्तयोः संयोगे संशोधनमतियोगायोप-पद्यते शरीरं पिपासोपद्रवाय ।” इति चरकेविमानस्थानेऽष्टमेऽध्याये ॥
“मयूखैर्जगतः सारं ग्रीष्मे पेपीयते रविः ।स्वादुशीतं द्रवं स्निग्धमन्नपानं तदा हितम् ॥
शीतं सशर्करं मन्थं जाङ्गलान्मृगपक्षिणः ।घृतं पयः स शाल्यन्नं भजन् ग्रीष्मे न सीदति ॥
मद्यमल्पं न वा पेयमथवा सुबहूदकम् ।लवणाम्लकटूष्णानि व्यायामञ्चात्र वर्ज्जयेत् ॥
दिवा शीतगृहे निद्रां निशि चन्द्रांशुशीतलम् ।भजेच्चन्दनदिग्धाङ्गः प्रवाते हर्म्म्यमस्तके ॥
व्यजनैः पाणिसंस्पर्शैश्चन्दनोदकशीतलैः ।सेव्यमानो भजेदास्यां मुक्तामणिविभूषितः ॥
काननानि च शीतानि जलानि कुसुमानि च ।ग्रीष्मकाले निषेवेत मैथुनाद्विरतो नरः ॥
”इति च सूत्रस्थाने षष्ठेऽध्याये चरकेणोक्तम् ॥
)तत्र जातफलं यथा, कोष्ठीप्रदीपे ।“ग्रीष्मोद्भवो भोगभवानुरक्तोवक्ता सुशीलो जलकेलिशीलः ।विद्याधनैश्वर्य्ययशोमनोज्ञोधन्वी सुवेशः परदारचित्तः ॥
”उष्णः । इति मेदिनी । मे । १० ॥
गर्मि इतितात् इति च भाषा ॥
तद्वति त्रि ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
