| YouTube Channel

ग्रहाधिकरण (grahAdhikaraNa)

 
वाचस्पत्यम्
Sanskrit
ग्रहाधिकरण
न०
ग्रहस्य पात्रविशेषस्यैकत्वाविवक्षा-याज्ञापकमधिकरणम् न्यायरूपे पञ्चाङ्गे अधिकरणभेदेतच्च जै० अ० पादे दर्शितं संक्षेपतस्तत उद्धृत्य तत्त्व-बोधिन्यामुक्तं यथा“सोमयागे श्रूयते “दशापवित्रेण ग्रहं संमार्ष्टीति”दशापवित्रं वासःखण्डं ग्रहः सोमरसादिहविःपात्रविशेषः तत्र एकस्यैव मार्ज्जनमुत एकत्वाविवक्षया सर्व्वे-षामिति संशये “पशुना रुद्रं यजेत” इत्यत्रेव एकवचना-देकत्वविवक्षया एकस्यैव मार्ज्जनं सर्व्वेषां तथा चसू० “एकत्वं युक्तमेकस्य श्रुतिसंयोगादिति, प्राप्ते ब्रूमः ।ग्रहाणां यागोपकरणतया प्राप्तानामनेन मार्जनसंस्कारोविधीयते तत्र ग्रहमिति द्वितीयया एकस्योद्दे-श्यत्वं फलवत्त्वञ्च बोध्यते प्रधानं ग्रहं प्रति मार्ज्जनंगुणः “प्रतिप्रधानं गुण आवर्त्तनीयः” इति न्यायेन स-र्व्वेषां मार्जनं प्राप्तम् उद्देश्यगतमेकत्वमविवक्षितं चग्रहत्वजातिर्मार्ज्जनेन सस्कार्य्या इति तदाश्रयैक-मार्जनेन सर्वे संस्कृता भवन्ति, जातेः सर्बवृत्तित्वा-दित्येकत्वविवक्षायामपि सर्वमार्ज्जनसिद्धिरिति बाच्यंजातेरभूर्त्तत्वात् अपूर्वासाधनत्वाच्च तल्लक्षितानां द्रव्या-णामपूर्व्वसाधनतया संमार्गात् तदुक्तम् “उद्देश्यलक्षणं जातिर्यद्द्रव्यं लक्ष्यते तया तस्याङ्गमेष सम्मार्गःसर्वस्येति विनिश्चयः” नचैकत्वं नोद्देश्यगतम् अपि तुएकत्वं सर्मार्ज्जनञ्चोभयं विधेयमिति वाच्यं “ग्रहंसंमृज्य त् सचैकः कार्य्य इति वाक्यभेदापत्तेः एकत्वस्यसर्वग्रहेषु सिद्धत्वेन विधानासम्मवात् स्वसमानाधि-करणकर्म्मतानिरूपकमार्ज्जनसजातीयकर्मतासमानाधि-करणान्योन्याभावप्रतियोगितानवच्छेदकैकत्वरूपविशिष्ट-मेकत्वं विधेयं तथा सति सर्वर्मार्जनासिद्धिःअतएव एकत्वविशिष्टग्रहस्य मार्जनं विधीयते एकत्वंग्रहत्वञ्च सर्वेषु वर्त्तत इति एकत्वविवक्षायामपि सर्व-मार्जनसिद्धिरित्यपि परास्तं तादृशैकत्वस्याव्यावर्त्तकत्वात्विशिष्टैकत्वविवक्षायाञ्च उक्तदोषादिति साम्प्रदा-यिकाः अत्नेदमवधेयम् एकत्वविवक्षायामपि सर्व-मार्जलसिद्धिः तथाहि एकत्वविवक्षायां प्रत्येकमेव मा-र्जनं तु मिलितानामेकं मार्जनं तथात्वे साहित्येबहुपचनं निर्द्दिस्येत तस्मादेकवचननिर्द्देशात्प्रतिप्रधानं गुणावृत्तिन्यायात् प्रत्येकं सर्वेषां मार्जनमिति ।इत्थञ्च स्वसमानाघिकरणकर्मतानिरूपकमार्जननिरूपि-तकर्मतासमानाधिकरणान्योन्याभावप्रतियोगितानवच्छे-दकैकत्वरूपविशिष्टैकत्वमेव विवक्षितं स्यात् अवि-वक्षितत्वसिद्धान्तस्तु एकस्यैव मार्जनं सर्वेषामितिप्रापकस्य स्वसमानाधिकरणेत्यादिपूर्व्वपक्षोक्तस्य सा-मान्यती मार्जनघटितैकत्वस्य विवक्षामादाय चैवंग्रहं संमार्ष्टीति वाक्यात् कथं सर्वेषां मार्जनबोधः ग्रह-त्वेनोपस्थितस्यैव ग्रहस्य मार्जनबोधनादिति वाच्यम्उद्देश्यविधेयभेदेन भिन्नानामेव वाक्यानां तन्त्रेणो-च्चारणात् प्रतिप्रधानं गुणावृत्तिन्यायात् सर्वमार्जन-सिद्धौ वाक्यभेदकल्पनागौरवस्याप्रामाणिकत्वात् अतएवभावार्थदीपिकायां रुक्मिणीस्वयंवरीयषड्बधारणव्या-ख्याने “न चैवं वाक्यभेदः अनूद्यविधेयभेदेन विभिन्ना-नामेव वाक्यानां सहप्रयोगात् ग्रहं समार्ष्टीतिवदिति”दृष्टान्तीकृतं श्रीधरस्वामिचरणैः”