ग्रहवर्षादिफल (grahavarSAdiphala)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritग्रहवर्षादिफल ६ त० । १ सूर्यादिग्रहस्वामिकवर्षमास-फलभेदे । ७ ब० । २ तद्बोघकशास्त्रे च तच्च वृ० स० २०अध्यायात्मकं यथारवेः--“सर्वत्र भूर्विरलसस्ययुता वनानि दैवाद्बिभक्षयिषुदंष्ट्रिस-मावृतानि । स्यन्दन्ति नैव च पयः प्रचुरं स्रवन्त्यो रुग्-भेषजानि न तथातिबलान्वितानि । तीक्ष्णं तपत्यदितिजःशिशिरेऽपि काले नात्यम्बुदा जलमुचोऽचलसन्निकाशाः ।नष्टप्रभर्क्षगणशीतकरं नभश्च सीदन्ति तापसकुलानिसगोकुलानि । हस्त्यश्वपत्तिमदसह्यबलैरुपेता वाणासना-सिमुसलातिशयाश्चरन्ति । घ्नन्तो नृपा युधि नृपानुचरैश्चदेशान् संवत्सरे दिनकरस्य दिनेऽथ मासे” ।विधोः--“व्याप्तं नभः प्रचलिताचलसन्निकाशैर्व्यालाञ्जनालिगवलच्छविभिः पयोदैः । गां पूरयद्भिरखिलाममलाभिरद्भि-रुत्कण्ठकेन गुरुणा ध्वनितेन चाशाः । तोयमन पद्म-कुमुदोत्पलवन्त्यतीव फुल्लद्रुमाण्यु पवनान्यलिनादितानि ।गावः प्रभूतपयसो नयनामिरामा रामा रतैरविरतंरमयन्ति रामान् । गोधूमशालियवधान्यवरेक्षुवाटा भूःपाल्यते नृपतिभिर्नगराकराढ्या । चित्यङ्किता क्रतुवरे-ष्टिविघुष्टनादा संवत्सरे शिशिरगोरभिसम्प्रवृत्ते” ।कुजस्य--“वातोद्धतश्चरति वह्निरतिप्रचण्डो ग्रामान् वनानिनगराणि च सन्दिधक्षुः । हाहेति दस्युगणपातहतारटन्ति निःस्वीकृता विपशवो भुवि मर्त्यसङ्घाः । अभ्यु-न्नता वियति संहतमूर्तयोऽपि मुञ्चन्ति न क्वचिदपःप्रचुरं पयोदाः । सीम्नि प्रजातमपि शोषमुपैति शस्यंनिष्पन्नमप्यविनयादपरे हरन्ति । भूपा न सम्यगाभपा-लनसक्तचित्ताः पित्तोत्थरुक्प्रचुरता भुजगप्रकोपः ।एवंविधैरुपहता भवति प्रजेयं संवत्सरे ऽवनिसुतस्यविपन्नसस्या ।बुधस्य--“मायेन्द्रजालकुहकाकरनागराणां गान्धर्वलेख्यगणि-तास्त्रविदां च वृद्विः । पिप्रीषया नृपतयोऽद्भुतदर्श-नानि दित्सन्ति तुष्टिजननानि परस्परेभ्यः । वार्त्ताजगत्यवितथाऽविकला त्रयी च सम्यक् चरत्यपि मनोरिवंदण्डनीतिः । अध्यक्षरं स्वभिनिविष्टधियोऽत्र केचित्आन्वीक्षिकीषु च परं पदमीहमानाः । हास्यज्ञदूत-कविवालनपुंसकाना युक्तिज्ञसेतुजलपर्वतवासिनां च ।हार्दिं करोति मृगलाञ्छनजः खकेऽव्द मासेऽथ वाप्रचुरतां भुवि चौषधीनाम्” ।गुरोः--“ध्वनिरुच्चरितो ऽध्वरे द्युगामी विपुलो यज्ञ-मुषां मनांसि मिन्दन् । विचरत्यनिशं द्विजोत्तमानांहृदयानन्दकरो ऽध्वरांशभाजाम् । क्षितिरुत्तमसस्यवत्य-नेकद्विपपत्त्यश्वधनोरुगोकुलाढ्या । क्षितिपैरभिपालनप्र-वृद्धा द्युचरस्पधिजना तदा विभाति । विविधैर्वियदुन्नतैःपयोदैर्वृतभूमिं पयसाभितर्पयद्भिः । सुरराजगुराः शुभेऽत्र वर्षे बहुसस्या क्षितिरुत्तमर्द्धियुक्ता” ।भृशोः--“शालीक्षुमत्यपि धरा धरणीधराभधाराधरीज्झित-पयःपरिपूर्णवप्रा । श्रीमत्सरोरुहतताम्बुतडागकीर्णायोषेव भात्यभिनवाभरणोज्ज्वलाङ्गी । क्षत्रं क्षितौक्षपितमूरिबलारिपक्षम् उद्घुष्टनैकजयशब्दविराविताशम् ।संहृष्टशिष्टजनदुष्टविनष्टवर्गां गां पालयन्त्यवनिपा नग-राकराद्याम् । पेपीयते मधु मधौ सह कामिनीभिर्जे-गीयते श्रवणहारि सवेणुवीणम् । बोभुज्यते ऽतिथि-सुहृत्खजनैः सहान्नम् अव्दे सितस्य मदनस्य जयाव-घोषः” ।शनेः--“उद्व, त्तदस्युगणभूरिरणाकुलानि राष्ट्राण्यनेकपशु-वित्तविनाकृतानि । रोरूयमाणहतबन्धुजनैर्जनैश्च रो-गोत्तमाकुलकुलानि बुभुक्षया च । वातोद्धताम्बुधरव-र्जितमन्तरिक्षम् आरुगणनैकविटपं च धरातलं, द्यौः ।नष्टार्कचन्द्रकिरणातिरजोऽवनद्धा, तोयाशयाश्च विजलाःसरितोऽपि तन्व्यः । जातानि कुत्रचिदतोयतया विनाशम्ऋच्छन्ति पुष्टिमपराणि जलोक्षितानि । सस्यानि मन्द-मभिवर्षति वृत्रशत्रौ वर्षे दिवाकरसुतस्य सदा प्रवृत्ते” ।अणुरपटुमयूखो नीचगोऽन्यैर्जितो वा न सकलफल-दाता पुष्टिदोऽतो ऽन्यथा यः । यदशुभमशुभेऽवदे मासजंतस्य वृद्धिः शुभफलमपि चैवं याप्यमन्योऽन्यतायाम्” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
