| YouTube Channel

ग्रहयुद्ध (grahayuddha)

 
Capeller Eng
English
ग्रहयुद्ध
n.
opposition (lit. strife) of the
planets.
Monier Williams Cologne
English
ग्रह—युद्ध
n.
=
-मर्द,
AV.
Pariś.
VarBṛS.
N.
of
VarBṛS.
xvii.
Apte Hindi
Hindi
ग्रहयुद्धम्
नपुं*
ग्रह-युद्धम् -
ग्रहों का परस्पर विरोध या संघर्ष
Shabdartha Kaustubha
Kannada
ग्रहयुद्ध
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಮೇಲೆ ಮೇಲೆ ಇರುವ ಗ್ರಹಗಳ ಕಿರಣಸಂಪರ್ಕದಿಂದ ಉಂಟಾಗುವ ಗ್ರಹಗಳ ಯುದ್ಧ
L R Vaidya
English
graha-yudDa {% n. %} opposition of the planets.
Aufrecht Catalogus Catalogorum
English
ग्रहयुद्ध the 51 st and 52 d Pariśiṣṭa of the Av. W.
p. 92. 93.
ग्रहयुद्ध Pariś. 51 of the Av. Tb. 214.
वाचस्पत्यम्
Sanskrit
ग्रहयुद्ध
न०
त० ग्रहाणामुपर्युपरिस्थितानां किरणसंस्पर्शादिना युद्धमेदे तद्भेदादिक सू० सि० उक्तं यथा“उल्लेखं तारकास्पर्शाद्भेदे भेदः प्रकीर्त्यते युद्धमंशुविमर्दाख्यमंशुयोगे परस्परम् अंशादूनेऽपसव्याख्यंयुद्धमेकोऽत्र चेदणुः समागमोंऽशादधिके भवतश्चेद्-बलान्वितौ” सू० सि० ।“भौमादिपञ्चताराणां मध्ये द्वयोर्युतौ तारकास्पर्शाद्विम्बनेम्योः स्पर्शमात्रादुल्लेखसञ्ज्ञं युद्धं वदन्ति युति-भेदज्ञाः इदं तु द्वयोर्मानैक्यखण्डतुल्ययाम्योत्तरान्तरे ।भेदे मण्डलभेदे भेदो भेदसञ्ज्ञो युद्धावान्तरभेदो युद्धभेद-तत्त्वज्ञैः कथ्यते अयं भेदो मानैक्यखण्डादूने द्वयो-र्याम्योत्तरान्तरे अत्र भास्कराचार्य्यैस्तु “मानैक्यार्धाद्-द्युचरविवरेऽल्पे भवेद्भेदयोगः कार्यं सूर्यग्रहवदखिलंलम्बनाद्यं स्फुटार्थम् कल्प्योऽधःस्थः सुधांशुस्तदुपरिगइनो लम्बनादिप्रसिद्ध्यै किं त्वर्कादेव लग्नं ग्रहयुतिसमयेकल्पितार्कान्न साध्यम् प्राग्वत् तल्लम्बनेन ग्रहयुति-समयः संस्कृतः प्रस्फुटः स्यात् खेटौ तौ दृष्टियोग्यौग्रहयुतिसमये कार्यमेवं तदैव याम्योदक्स्थद्यु चरवि-वरं भेदयोगे वाणा ज्ञेयः सूर्य्याद्भवति यतः शी-तगुः सा शराशा मन्दाक्रान्तोऽनृजुरपि तदाधःस्थितःस्यात् तदैन्द्र्यां स्पर्शो मोक्षोऽपरदिशि तदा पारिलेख्येऽ-वगम्यः” इति विशेषोऽभिहितः भगवता तु सूक्ष्म-विम्बवोराकाशे दूरतो विविक्तदर्शनासम्भवाद्व्यर्थप्रयासा-दुपेक्षितमिति ध्येयम् युतावन्योऽन्यं किरणयोगे सतिअंशुमर्दाख्यं किरणसङ्घट्टनसञ्ज्ञं युद्धं स्यात् द्वयो-र्यास्यात्तरान्तरेंऽशात् षष्टिकलात्मकैकभागादूतेऽनधिकेसत्यपसव्यसञ्ज्ञं युद्धं भबति अत्र विशेषमाह एकइति अत्रापसव्ययुद्ध एकौ द्वयीरन्यतरोऽणुरणुबिम्ब-श्चत् तदापसव्यं युद्धं व्यकं स्यादन्यथा त्वव्यक्तं युद्धंस्यात् एवां चतुर्णां फलम् “अपसव्ये भयं ब्रू-यात् सग्रामं रश्मिसङ्कुले लेखनेऽमात्यपीडा स्याद्भेदनेतु धनक्षय” इति भार्गवीयोक्तं ज्ञेयम् युद्धभेदा-नुक्त्वा समागममाह समागम इति द्वयोर्याम्योत्तरा-न्तरे षष्टिकलात्मकैकभागादभ्यधिके सति समागमो योगोभवति अत्रापि तिशेषमाह भवत इति युतिविषयकौश्रहौ बलान्वितौ बलेन--“स्थानादिवलचिन्तात्र व्यर्थाकेनापि स्मृता प्रश्नत्रयेऽथपाप्यस्मिन् स्थौल्यसौक्ष्म्यबलं स्मृतम्” इति ब्रह्मसिद्धान्तवचनात् स्थूलमण्डल-तयान्वितौ युक्तौ स्थूलविम्बौ समावित्यर्थः चेत् स्त-स्तदा समागमस्तयोर्व्यक्तः स्यात् अन्यथा त्वव्यक्तःसमागमः “द्वावपि मयूखयुक्तौ विपुलौ स्निग्धौ समा-गमे भवतः अत्रान्योऽन्यं प्रीतिविपरीतावात्मपक्षघ्नौ ।युद्धं समागमो वा यद्यव्यक्तं तु लक्षणैर्भवतः भुविभूभृटामपि तथा फलमव्यक्तं विनिर्दिष्टम्” इत्युक्तेः ।“भेदोल्लेखांशुसम्मर्दा अपसव्यस्तथापरः ततो योगो भये-देषामेकांशकसमापनात्” इति काश्यपोक्तेश्च सर्वं निरव-द्यम् अथ युद्धे पराजितस्य ग्रहस्य लक्षणमाह” रङ्गना०“अपसव्ये जितो युद्धे पिहितोऽणुरदीप्तमान् रूक्षोविवर्णो विध्वस्तो विजितो दक्षिणाश्रितः” सू० सि० ।“द्वयोर्मध्ये यस्तदितरेण विध्वस्तो हतः विजितःपराजितो ज्ञेयः हतस्य लक्षणमाह अपसव्य इति ।अपसव्ये युद्धे यो जितो जयलक्षणैर्विवर्जितः एतेनो-ल्लेखादित्रये सञ्ज्ञाफलं पराजितस्य फलमिति सूचितम् पिहित आच्छादितोऽव्यक्त इति यावत् अणुरितरग्रहविम्बादल्पबिम्बः अदीप्तिमान् प्रभारहितःरूक्षोऽस्निग्धः विवर्णः वर्णेन स्ववर्णेन स्वाभाविकेनरहित इत्यर्थः दक्षिणाश्रित इतरग्रहापेक्षया दक्षि-णदिशि स्थितः “श्यामो वा व्यपगतरश्मिवान् रश्मि-मण्डलो वा रूक्षो वा व्यपगतरश्मिवान् कृशो वा ।आक्रान्तो विनिपतितः कृतापसव्यो विज्ञेयो हत इतिसग्रहो ग्रहेण” इति भार्गवीयोक्तेः अथ श्लोको-त्तरार्धेन जयिनो ग्रहस्यलक्षणमाह” रङ्गना०“उदक्स्थो दोप्तिमान् स्थूलोजयी याम्येऽपि यो वली” सृ०सि० “इतरग्रहापेक्षयोत्तरदिक्स्थः दीप्तिमान् प्रभायुक्तःस्थूल इतरग्रहविम्बापेक्षया पृथुबिम्बः जयी जययुक्तःस्यात् अथोत्तरदक्षिणदिक्स्थत्वक्रमेण जयपराजयौ-न स्त इत्याह याम्य इति दक्षिणदिशि यो ग्रहोबली दीप्तिमान् पृथुबिम्बो भवति लयी अपिशब्दउत्तरदिशासमुच्चयार्थकः तथा जयपराजयलक्षणयोर्दिक्स्थानमनुपयुक्तमिति भावः अथ युद्धे विशेषमाहरङ्ग० “आसन्नावप्युभौ दीप्तौ भवतश्चेत् समागमः स्वल्पौद्वावपि विध्वस्तौ भवेतां कूटविग्रहौ” सू० सि० “उभौ द्वौआसन्नावेकभागान्तरगतान्तरितौ अपिशब्दाद्युद्धलक्ष-णाक्राक्षौ दीप्तौ प्रभायुक्तौ चेत् स्यातां तदा बलान्विता-“वति समागतलक्षणैकदेशसद्भावात् समागमाख्यं युद्धम् ।द्वावपि ग्रहौ स्वल्पौ सूक्ष्मविम्बौ विध्वस्तौ द्वावपिपराजयलक्षणाक्राकौ स्यातां तदा क्रमेण कूटविग्रह-सञ्ज्ञकौ युद्धभेदौ स्याताम् अथोत्सर्गतः शुक्रस्य जय-लक्षणाक्रान्तत्वमस्तीति वदन् समागमः शशाङ्केनेति प्राक्प्रतिज्ञातसमागमे उक्तपकारमतिदिशति” रङ्ग० ।“उदक्स्थो दक्षिणस्थो वा भार्गवः प्रायशो जयी श-शाङ्केनैवमेतेषां कुर्यात् संयोगसाधनम्” सू० सि०“इतरग्रहापेक्षयोदक्स्थो दक्षिणदिक्स्थो वोभयदिशीत्य-र्थः शुक्रः प्रायश उत्सर्गतो जयलक्षणाक्रान्तत्वेन जयी ।कदाचित् पराजयलक्षणाक्रान्तो भवतीति तात्पर्यार्थः ।एतेषां भौमादिपञ्चताराणां चन्द्रेण सह संयोगसाधनंयुतिसाधनमेषामुक्तरीत्या गणकः कुर्यात् अत्र विशेषा-र्थकम् “अवनत्या स्फुटो ज्ञेयो विक्षेपः शीतगोर्युतौ”इत्यर्थं क्वचित् पुस्तके दृश्यते सर्वत्रेति क्षिप्तत्वात्तदु-पेक्षितम् अधिकारस्यापर्ण्णश्लोकत्वापत्तेश्च एतदुक्त्य-न्ययोगे नतिसस्कारनिषेधस्य सिद्धस्तस्यायुक्तत्वमितितदनुक्तौ सूर्य्यग्रहणोक्तरीत्या साधारण्येन सर्वत्र त-द्विशेषोक्तेरर्थसिद्धेरिति ध्येयम् नन्वेषां ग्रहाणांदूरान्तरेण सदोर्ध्वाधरान्तरसद्भावात् परस्परं योगा-सम्भवेन कथं युतिः सङ्गतेत्यत आह” रङ्ग० ।“भावाभावाय लोकानां कल्पनेयं प्रदर्शिता स्वमार्गगाःप्रयान्त्येते दूरमन्योन्यमाश्रिताः” सू० सि० ।“एते ग्रहाः स्वमार्गगाः स्वस्वकक्षास्था अन्योन्यमाश्रितायु तकालऊर्द्ध्वाधरन्तराभावेन संयुक्ताः सन्तः प्रयान्तिगच्छन्ति इति दूरं दूरान्तरेण दर्शनादियं ग्रहयुति-कल्पना कल्पनात्मिकाऽवास्तवा प्रदर्शिता पूर्वोक्तग्रन्थेनकथिता नन्ववस्तुभूता किमर्थमुक्तेत्यतः प्रयीजनमाहभावाभावायेति लोकानां भूस्थपाणिगां मावःशुभफलमभावोऽशुमफलं तस्मै शुभाशुभफलादेशायावस्तु-भूतापि युतिरुक्तेति भावः” रङ्ग० ।युद्धभेदास्तत्फकपिशेषाः समागमजयादिफलभेदाश्च वृ०सं १७ अ० उक्ता यथा“युद्धं यथा यदा वा भविष्यदादिश्यने त्रिकालज्ञैः ।तद्विज्ञाने करणं मया कृतं सूर्यसिद्धान्तात् वियतिचरतां ग्रहाणामुपर्य्युपर्यात्ममार्गसंस्थानाम् अति-दूराद्डग्विपये समतामिव सम्प्रयातानाम् आसन्नक्र-मयोगाद्भेटोल्ले खांशुमदोपसव्यैः युद्धं चतुःप्रकारंपराशराद्यैर्मुनिभिरुक्तम् भेदे वृष्टिविनाशो भेदःसुहृदां महाकुलानां उल्लेखे शस्त्रमयं मन्त्रिवि-रोधः प्रियान्यत्वम् अंगुविरोधे युद्धानि भूभृतां श-स्त्ररुक्क्षुदवमर्दाः युद्धे चाप्यपसव्ये भवन्ति युद्धानिभूपानाम् रविराक्रन्दो मध्ये पौरः पूर्वेऽपदे स्थितोयायी पौरा बुधगुरुरविजा नित्यं शीतांशुराक्रन्द्रः ।केतुकुजराहुशुक्रा यायिन एते हता ग्रहा हन्युः ।आक्रन्दयायिपौरान् जयिनो जयदाः स्ववर्गस्य पौरेपौरेण हते पौराः पौरान् नृपान् विनिघ्नन्ति एवंयाय्याक्रन्दौ नागरयायिग्रहाश्चैव दक्षिण-दिक्स्थः परुषो वेपथुरप्राप्य सन्निवृद्धोऽणुः अधिगूढोविकृतो निष्प्रभो विवर्णश्च यः जितः उक्त वि-परीतलक्षणसम्पन्नो जयगतो विनिर्दिष्टः विपुलस्निग्धो द्युतिमान् दक्षिणदिक्स्थोऽपि जययुक्तः द्वा-वपि मयूखपृक्तौ विपुलौ स्निग्धौ समागमे भवतः ।तत्रान्योऽन्यप्रीतिर्विपरीतावात्मपक्षघ्नौ युद्धं समागमोवा यद्यव्यक्तौ तु लक्षणैर्भवतः भुवि भूभृतामपितथा फलमव्यक्तं विनिर्देश्यम्” ।कुजजयस्य “गुरुणा जितेऽवनिसुते वाह्लोका यायिनोऽग्नि-वार्त्ताश्च शशिजेन शूरसेनाः कलिङ्गसाल्वाश्च पीड्यन्ते ।सौरेणारे विजिते जयन्ति पौराः प्रजाश्च सीदन्ति ।कोष्ठागारम्लेच्छक्षत्रियतापाश्च शुक्रजिते” ।बुधजयस्य “भौमेन हते शशिजे वृक्षसरित्तापसाश्मकनरेन्द्राः ।उत्तरदिक्स्थाः क्रतुदीक्षिताश्च सन्तापमायान्ति गुरुणाबुधे तु विजिते म्लेच्छशूद्रचौरार्थयुक्तपौरजनाः त्रैग-र्त्तपार्वतीयाः पीड्यन्ते कम्पते मही रविजेनबुधे ध्वस्ते नाविकयोधाब्जसधनगर्भिण्यः भृगुणाजितेऽग्निकोपः सस्याम्बुदयायिविध्वंसः” ।जीवजयस्य “जीवे शुक्राभिहते कुलूतगान्धारकैकया मद्राः ।साल्वा वत्सा वङ्गा गावः सस्यानि नश्यन्ति भौमेनहते जीवे मध्यो देशो नरेश्वरा गावः सौरेण चार्जु-नायनवसातियौधेयशिविविप्राः शशितनयेनापि जितेवृहस्पतौ म्लेच्छसत्यशस्त्रभृतः उपयान्ति मध्यदेशश्चसंक्षयं यच्च भक्तिफलम्” ।शुक्रजयस्य “शुक्रे वृहस्पतिहते यायी श्रेष्ठो विनाश-मुपयाति ब्रह्मक्षत्रविरोधः सलिलं वासवस्त्य-जति कोशलकलिङ्गवङ्गा वत्सा मत्स्याश्च मध्यदेश-यताः महतीं व्रजन्ति पीडां सपुंमकाः शूरसे-नाश्च कुजविजिते भृगुतनये बलमुख्यबधो नरेन्द्रसं-ग्रामाः सौम्येन पार्वतीयाः क्षीरविनाशोऽल्पवृष्टिश्च ।रविजेन सिते विजिते गणमुख्याः शस्त्रजीविनः क्षत्रम् ।जलजाश्च निपीड्यन्ते सामान्यं भक्तिफलमन्यत्” ।शनिजयस्य “असिते सितेन निहतेऽर्घवृद्धिरहिविहगमानिनांपीडा क्षितिजेन टङ्कणान्ध्रोड्रकाशिबाह्लीकदेशानाम् ।सौम्येन पराभूते मन्देऽङ्गबणिग्विहङ्गपशुनागाः सन्ता-प्यन्ते गुरुणा स्त्रीबहुला महिषकशकाश्च” ।अयं विशेषोऽभिहितो हतानां कुजज्ञवागीशसितासि-तानाम् फलं तु वाच्यं ग्रहभक्तितोऽन्यद यथा तथाघ्नन्ति हताः स्वभक्तीः” ।“नीचस्थितेऽरिगृहगेऽथ पराजिते वा जीवे भृगौ व्रत-विधौ स्मृतिकर्म्महीनः” ज्यो० त० उपयमशब्दे तत्-कालस्य वर्ज्यतोक्तिर्दृश्या ग्रहविग्रहग्रहविमर्दाद-योऽप्यत्र, तत्र चन्द्रस्यान्य खेटैः समागमे विशेषः नयुद्धम् इत्युक्तं वृ० सं० १८ अ० यथा“भानां यथासम्भवमुत्तरेण यातो ग्रहाणां यदि वा श-शाङ्कः प्रदक्षिणं तच्छुभकृन्नराणां याम्येन यातो नशिवः शशाङ्कः चन्द्रमा यदि कुजात् प्रयात्युदक्पार्वतीयबलशालिनां जयः क्षत्रियाः प्रमुदिताः स्व-यायिनो भूरिधान्यमुदिता वसुन्धरा उत्तरतःस्वसुतस्य शशाङ्कः पौरजयाय सुभिक्षकरश्च सस्य-चयं कुरुते जयहार्द्दिं कोशचयं नराधिपतीनाम् ।वृहस्पतेरुत्तरगे शशाङ्के पौरद्विजक्षत्रियपण्डितानाम् ।धर्म्मस्य देवस्य मध्यमस्य वृद्धिः सुभिक्षं मुदिताःप्रजाश्च भार्गवस्य यदि यात्युदक् शशी कोशयुक्तगज-वाजिवृद्धिदः यायिनां विजयो धनुष्मतां सस्यस-म्पदपि चोत्तमा तदा रविजस्य शशी प्रदक्षिणंकुर्याच्चेत्पुरभूभृतां जयः शकबाह्लिकसिन्धु पह्लवामुदपाप्ता यवनैः समन्विताः येषामुदग्गच्छति भग्र-हाणां प्रालेयरश्मिर्निरुपद्रवश्च तद्द्रव्यपौरेतरभक्ति-देशान् पुष्णाति याम्येन निहन्ति तानि शशिनि फल-मुदक्स्थे यद्ग्रहस्योपदिदं भवति तदपसव्ये सर्वमेवप्रतीपम् इति शशिसमवायाः कोर्त्तिता भग्रहाणांन खलु भवति युद्वं साकमिन्दोर्ग्रहर्क्षैः”
Capeller
German
ग्रहयुद्ध
n.
Oppostition (eig. Streit) der
Planeten.