| YouTube Channel

ग्रहयागः (grahayAgaH)

 
शब्दकल्पद्रुमः
Sanskrit
ग्रहयागः,
पुं,
(ग्रहाणां ग्रहानुद्दिश्य वा यो यागः ।)ग्रहाणां यज्ञः तस्य शान्तिकत्वे मलमासादा-वपि कर्त्तव्यत्वं पौष्टिकत्वे तु शुद्धकाले तस्यप्रयोगो यथा यजमानः कृतस्नानादिः गोमयो-पलिप्ते देशे कुशासने उपविष्ट उदङ्मुखोब्राह्मणान् स्वस्तिवाच्य संकल्प्य मन्त्रमुच्चार्य्यश्वेतसर्षपेण विघ्नकरानुत्सार्य्य सगणा-धिपषोडशमातृकापूजावसोर्द्धारावृद्धिश्राद्धानिकृत्वा स्वयं करणासामर्थ्ये ब्राह्मणान् वृणुयात् ।ततो मण्डपोत्तरपूर्व्वभागे वितस्तिद्वयविस्तृतायांवितस्त्युच्छ्रितायां उदक्प्लवायां वेद्यां रक्त-चन्दनादिना मध्ये वर्त्तुलं सूर्य्यं आग्नेय्यां श्वेत-मर्द्धचन्द्राकारं सोमं दक्षिणस्यां त्रिकोणं रक्तंमड्गलं ऐशान्यां पीतं धनुराकारं बुधं उत्तरस्यांपीतं पद्माकारं गुरुं प्राच्यां श्वेतं चतुष्कोणंशुक्रं प्रतीच्यां श्यामं सर्पाकारं शनिं नैरृत्यांश्यामं मकराकारं राहुं वांयव्यां धूम्रवर्णान्खड्गाकारान् केतून् विलिख्य स्वगृह्योक्तविधिना-ऽग्निस्थापनादिब्रह्मस्थापनपर्य्यन्तं कर्म्म कृत्वाग्रहशब्दे लिखिततत्तद्ध्यानेन मण्डले ग्रहाना-वाह्य तेषां स्वस्ववर्णवस्त्रगन्धपुष्पादिना पूजयेत् ।गन्धे विशेषः सूर्य्याय रक्तचन्दनं सोमाय श्वेत-चन्दनं मङ्गलाय कुङ्कुमं बुधाय सरलं गुरवेसमभागेन मिश्रितानि रक्तचन्दनश्वेतचन्दन-कुङ्कुमसरलानि शुक्राय श्वेतचन्दनं शनैश्चरायकस्तूरीं राहवे पद्मकाष्ठं केतुभ्यश्च पद्मकाष्ठंदद्यात् धूपे विशेषः रवये गुग्गुलुं सोमायसरलं मङ्गलाय देवदारु बुधाय घृतमिश्रित-देवदारु बृहस्पतये दशाङ्गं शुक्रायागुरुं शनै-श्चराय कालागुरुं राहवे गुडत्वचं केतुभ्योमधुमिश्रितगुडत्वचं दद्यात् ततोऽधिदेवता-प्रत्यधिदेवताः पूजयेत् ततो बलिं दद्यात् ।सूर्य्याय गुडौदनं सोमाय घृतपायसं मङ्गलायपक्वयवचूर्णात्मकं यावकं बुधाय क्षीरान्नं गुरवेदध्योदनं शुक्राय घृतौदनं शनैश्चराय यवतिल-तण्डुलात्मकं कृषरं राहवे छागमांसं केतुभ्यःअजाक्षीरसाधिताजकर्णरक्तमिश्रितयवतिल-तण्डुलरूपं चित्रौदनम् ततश्चरुं श्रपयेत् ।ततः कुशण्डिकां समाप्य रव्यादीनां चरुहोमंकुर्य्यात् ततो यथाशक्ति एकैकस्याष्टाविंशति-मष्टोत्तरशतमष्टोत्तरसहस्रं वा मधुसर्पिर्मिश्रि-ताभिः सूर्य्यादीनां तत्तत्समिद्भिर्होमं कुर्य्यात् ।समिधस्तु ।“अर्कः पलाशः खदिरस्त्वपामार्गोऽथ पिप्पलः ।उडुम्बरः शमी दूर्व्वा कुशाश्च समिधः क्रमात्
”तत उदीच्यं कर्म्म समाप्य दक्षिणां दद्यात् ।दक्षिणास्तु ।“धेनुः शङ्खस्तथानड्वान् हेम वासो हयस्तथा ।कृष्णागौरायसश्छाग एतावै दक्षिणाः स्मृताः
”(अस्य यागस्य प्रयोजनं यथा, महानिर्व्वाणतन्त्रे ।“शान्तौ पुष्टौ महेशानि ! तथा क्रूरेऽपि कर्म्मणि ।ग्रहयागं प्रकुर्व्वाणो वाञ्छितार्थमवाप्नुयात्
”दीपिकायाञ्च यथा, --“शुभग्रहार्कवारेषु मृदुक्षिप्रध्रुवेषु ।शुभराशिविलग्नेषु शुभं शान्तिकपौष्टिकम्
मृदगणः चित्रानुराधामृगशिरोरवत्यः क्षिप्र-गणो लघुगणः पुष्याश्विहस्ताः ध्रुवगणःरोहिण्युत्तरात्रयम्
)“गोचरे वा विलग्ने वा ये ग्रहारिष्टसूचकाः ।पूजयेत्तान् प्रयत्नेन पूजिताः स्युः शुभावहाः
”इति ग्रहयागतत्त्वम्
(मात्स्योक्तम् यथा, --“श्रीकामः शान्तिकामो वा ग्रहयज्ञं समाचरेत् ।वृद्ध्यायुः पुष्टिकामो वा तथैवाभिचरन् पुनः
येन ब्रह्मन् ! विधानेन तन्मे निगदतः शृणु ।सर्व्वशास्त्राण्यनुक्रम्य सङ्क्षिप्य ग्रन्थविस्तरम्
ग्रहशान्तिं प्रवक्ष्यामि पुराणश्रुतिनोदिताम् ।पुण्येऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम्
ग्रहान् ग्रहादिदेवांश्च स्थाप्य होमं समारभेत् ।ग्रहयज्ञस्त्रिधा प्रोक्तः पुराणश्रुतिकोविदैः ।प्रथमोऽयुतहोमः स्याल्लक्षहोमस्ततः परम् ।तृतीयः कोटिहोमस्तु सर्व्वकामफलप्रदः
अयुतेनाहुतीनाञ्च नवग्रहमखः स्मृतः ।तस्य तावद्विधिं वक्ष्ये पुराणश्रुतिभाषितम्
”ग्रहवेदिनियमः यथा, --“गर्त्तस्योत्तरपूर्व्वेण वितस्तिद्वयविस्तृताम् ।वप्रद्वयावृतां वदिं वितस्त्युच्छ्रयसम्मिताम्
संस्थापनाय दंवानां चतुरस्रामुदङ्मुखाम् ।अग्निप्रणयनं कृत्वा तस्यामावाहयत् सुरान्
देवतानां ततः स्थाप्या विंशतिर्द्वादशाधिका ।सूर्य्यः सोमस्तथा भौमो बुधजीवसितार्कजाः
राहुः केतुरिति प्रोक्ता ग्रहा लोकहितावहाः
”मण्डले स्थानम् यथा, --“मध्ये तु भास्करं विद्याल्लोहितं दक्षिणेन तु ।उत्तरण गुरुं विद्याद् बुधं पूब्बात्तरण तु
पूर्व्वेण भागवं विद्यात् सोमं दक्षिणपूर्व्वके ।पश्चिमेन शनिं विद्याद्राहुं पश्चिमदक्षिणे
पश्चिमोत्तरतः केतुं स्थापयेच्छक्लतण्डुलैः
”अधिदेवताः यथा, --“भास्करस्येश्वरं विद्यात् उमाञ्च शशिनस्तथा ।स्कन्दमङ्गारकस्यापि बुधस्य तथा हरिम्
ब्रह्माणञ्च गुरोर्विद्याच्छुक्रस्यापि शचीपतिम् ।शनैश्चरस्य तु यमं राहीः कालन्तथव ।केतोर्वै चित्रगुप्तञ्च सर्व्वेषामधिदवताः
”प्रत्यधिदेवताः यथा, --“अग्निरापः क्षितिर्विष्णुरिन्द्र ऐन्द्री देवताः ।प्रजापतिश्च सर्पाश्च ब्रह्मा प्रत्यधिदेवताः
”पञ्च लोकपालाः यथा, --“विनायकं तथा दुर्गां वायुमाकाशमेव ।आवाहयद्व्याहृतिभिस्तथैवाश्विकुमारका
”ग्रहवर्णः यथा, --“संस्मरेद्रक्तमादित्यमङ्गारकसमन्वितम् ।सोमशुक्रौ तथा श्वेतौ बुधजीवौ पिङ्गलौ ।मन्दराहू तथा कृष्णो धूम्रं केतुगणं विदुः
”“ग्रहवर्णानि देयानि वासांसि कुसुमानि ।धूपामोदोऽत्र सुरभिरुपरिष्टादवितानकम्
शोभनं स्थापयेत् प्राज्ञः फलपुष्पसमन्वितम्
”अन्यद्विववरणन्तु ग्रहयागतत्त्वे दर्शनीयम्
)