| YouTube Channel

ग्रहयज्ञ (grahayajJa)

 
Monier Williams Cologne
English
ग्रह—यज्ञ
m.
a sacrifice offered to the planets,
Yājñ.
i, 294
VarBṛS.
MatsyaP.
ccxxxviii
Shabdartha Kaustubha
Kannada
ग्रहयज्ञ
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಗ್ರಹಗಳ ಶಾಂತಿಗಾಗಿ ಅವುಗಳನ್ನುದ್ದೇಶಿಸಿ ಮಾಡುವ ಪೂಜೆ
व्युत्पत्तिः - > ग्रहाणां तदुद्देशेन यज्ञः
प्रयोगाः - > "श्रीकामः शान्तिकामो वा ग्रहयज्ञं समाचरेत् वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन्नपि ॥"
उल्लेखाः - > याज्ञ० १-२९५
Aufrecht Catalogus Catalogorum
English
ग्रहयज्ञ śr. B. 1, 220. Bhr. 590. Oppert 2820.
--by Kamalākara. BP. 297.
ग्रहयज्ञ śr. Gov. Or. Libr. Madras 25.
ग्रहयज्ञ assigned to Vasiṣṭha. AK 350.
वाचस्पत्यम्
Sanskrit
ग्रहयज्ञ
पु०
ग्रहाणां तदुद्देशेन यज्ञः शान्तिपृष्ठ्याद्यर्थंग्रहोद्देशेन क्रियमाणे यज्ञभेदे तदारम्भकालादिकम्संस्का० त० उक्तं यथादीपिकायाम् “शुभग्रहार्कवारेषु मृदुक्षिप्रध्रुवेषु ।शुभराशिविलग्नेषु शुभं शान्तिकपौष्टिकम्” मृदुगणःचित्रानुराधामृगशिरोरेवत्यः क्षिप्रगणोलघुगणः पु-ष्याश्विहस्ताः ध्रुवगणोरोहिण्युत्तरात्रयम् “गोचरेबा विलग्ने वा ये ग्रहारिष्टसूचकाः पूजयेत्तान् प्रय-त्रेन पूजिताः स्युः शुभावहाः” गोचरे स्वराश्यपेक्षयायदा कदापि विलग्ने जन्मलग्ने सूचका तु रिष्टकारकाः तेन दुष्टग्रहसूचनीयदोषोपशमनं फलम् ।मत्स्यपुराणे “उत्सवानन्दसन्तानयज्ञोद्वाहादिमङ्गले ।मातरः प्रथमं पूज्याः पितरस्तदनन्तरम् ततो माता-महाद्याश्च विश्वेदेवास्तथैव च” नान्दीमुखे वारादि-दोषोनास्ति “नान्दीमुखे पितृश्राद्धे संक्रान्त्यां ग्रह-णद्वये” अत्र शूद्रस्याप्यधिकारः “स्मार्त्तं शूद्रः समा-चरेदिति” वचनात् अस्य स्मार्घत्वेन प्रतिनिधिनाप्या-रम्भः कर्त्तव्यः “श्रौतं कर्म स्वयं कुर्य्यादन्योऽपिस्मार्त्तमाचरेत् अशक्तौ श्रौतमप्यन्यः कुर्य्यादाचारम-न्ततः” इति शातातपीयात् अन्तत उपक्रमात् परतः ।तत्प्रकारः मत्स्य
पु०
९२ अ० उक्तो यथा“श्रीकामः शान्तिकामोवा ग्रहयज्ञं समारभेत् ।वृद्ध्यायुःपुष्टिकामो वा तथैवाभिचरन् पुनः येन व्र-ह्मन् विधानेन तन्मे निगदतः शृणु सर्वशास्त्राण्य-नुक्रम्य संक्षिप्य ग्रन्थविस्तरम् ग्रहशान्तिं प्रवक्ष्यामिपुराणश्रुतिनोदिताम् पुण्येऽह्नि विप्रकथिते कृत्वा ब्रा-ह्मणवाचनम् ग्रहान् ग्रहादिदेवांश्च स्थाप्य होमंसमारभेत् ग्रहयज्ञस्त्रिधा प्रोक्तः पुराणश्रुतिकोविदैः ।प्रथमोऽयुतहोमः स्याल्लक्षहोमस्ततः परम् तृतीयःकोटिहामस्तु सर्वकामफलप्रदः अयुतेनाहुतीनाञ्चनवग्रहमखः स्मृतः तस्य तापद्विधिं वक्ष्ये पुराणश्रुतिभाषितम् ।ग्रहवेदिः--“गर्तस्योत्तरपूर्वेण वितस्तिद्वयविस्तृताम् व-प्रद्वयावृतां वेदि” वितस्त्युच्छ्रयसम्मिताम् संस्थापनायदेवानाञ्चतुरस्रामुदङमुखाम् अग्निप्रणयनं कृत्वातस्यामावाहयेत् सुरान् देवतानां ततः स्थाप्या विंश-तिर्द्वादशाधिका ३२ सूर्थः सोमस्तथा भौमो बुधजीव-सितार्कजाः राहुः केतुरिति प्रोक्ता ग्रहा लोक-हितावहाः” ।भण्डलेस्थानम्--“मध्ये तु भास्करं विद्याल्लोहितं दक्षि-णेन तु उत्तरेण गुरुं विद्याद्बुधं पूर्वोत्तरेण तु ।पूर्वेण भार्गवं विद्यात् सोमं दक्षिणपूर्वके पश्चिमेनशनिं विद्याद्राहुं पश्चिमदक्षिणे पश्चिमोत्तरतः केतु”स्थापयेच्छुक्लतण्डुलैः” ।अधिदेवता--“भास्करस्येश्वरं पिद्यादुमाञ्च शशिनस्तथा ।स्कन्दमङ्गारकस्यापि बुधस्य तथा हरिम् व्रह्मा-णञ्च गुरोर्विद्याच्छुक्रस्यापि शचीपतिम् शनैश्चरस्यतु यमं राहोः कालं तथैव केतार्वै चित्रगुप्तञ्चसर्वेषामनिदेवताः” ।प्रत्यधिदेवता--“अग्निरापः क्षितिर्विष्णुरिन्द्र ऐन्द्री चदेवताः प्रजापतिश्च सर्पाश्च व्रह्मा प्रत्यधिदेवताः” ।पञ्चलोकपालाः--“विनायकं तथा दुर्गां वायुमाकाशमेवच आवाहयेद्व्याहृतिभिस्तथैवाश्विकुमारकौ” ।ग्रहवर्णः--“संस्मरेद्रक्तमादित्यमङ्गारकसमन्वितम् सो-मशुक्रौ तथा श्वेतौ बुधजीवौ पिङ्गलौ (पीतौ) ।मन्दरांहू तथा कृष्णौ धूम्रं(चित्रम्)केतुगणं विदुः” ।ग्रहवर्णानि देयानि वासांसि कुसुमानि धूपा-मोदोऽत्र सुरभिरुपरिष्टाद्वितानकम् शोभनं स्थापयेत्-प्राज्ञः फलपुष्पसमन्वितम् ।ग्रहबलिः--गुडीदनं रवेर्दद्यात्सोमाय घृतपायसम् ।अङ्गारकाय संयावं बुधाय क्षीरषष्टिकम् दध्योदनञ्चजीवाय, शुक्राय घृतौदनम् शनैश्चराय कृसरमाज-मांसञ्च राहवे चित्रौदनञ्च केतुभ्यः सर्वैर्भक्ष्यैरथार्चयेत्” ।“प्रागुत्तरेण तस्माच्च दध्यक्षतविभूषितम् चूतपल्लवसंछन्नंफलवस्त्रयुगान्वितम् पञ्चरत्नसमायुक्तं पञ्चभङ्गसमन्वितम् ।स्थापयेदव्रणं कुम्भं वरुणं तत्र विन्यसेत् गङ्गाद्याःसरितः सर्वाः समुद्राश्च सरांसि गजाश्वरथ्यावल्-माकसङ्गमाद्ध्रदगोकुलात् मृदमानीय विप्रेन्द्र! सैवोष-धिजलान्वितम् स्नानार्थं विन्वसेत्तत्र यजमानस्य धर्म्मवित् सर्वे समुद्राः सरितः सरांसि नदास्तथा ।आयान्तु यजमानस्य दुरितक्षयकारकाः एवमावाहये-देतानमरान् मुनिसत्तम! होमं समारभेत् सर्पिर्यवव्री-हितिलादिना” ।ग्रहसमित्--“अर्कः पलाशखदिरावपामार्गोऽथ पिप्पलः ।औदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात्” ।एकैकस्याष्टकशतभष्टाविंशतिरेव वा होतव्या मधु-सर्पिभ्यां दध्ना चैव समन्विताः प्रादेशमात्रा सशिखाःसबल्काः सुपलाशिनीः समिधः कल्पयेत् प्राज्ञः सर्वक-र्म्मसु सर्वदा देवानामपि सर्वेषामुपांशु परमार्थवित् ।स्वेन स्वेनैव मन्त्रेण होतव्याः समिधः पृथक् हो-तव्यं घृताभ्यक्तं चरुभक्ष्यादिकं पुनः मन्त्रैर्दशा-हुतीर्हुत्वा हीमं(अयुतम्)व्याहृतिभिस्ततः उदङ्मखाःप्राङ्मुखा वा कुर्युर्व्राह्मणपुङ्गवाः मन्त्रवन्तश्च कर्त्तव्या-श्चरवः प्रतिदैवतम् हुत्वा तांश्चरून् सम्यक् ततो होमंसमाचरेत्” ।ग्रहादिमन्त्राः--“आ कृष्णेनेति सूर्य्याय होमः कार्योद्विजन्मना आप्यायस्वेति सोमाय मन्त्रेण जुहुयात्पुनः अग्निर्मूर्द्धा दिवो मन्त्र इति भौमाय कीर्तयेत् ।अग्ने! विवस्वदुषस इति सोमसुताय वै वृहस्पते!परिदीया रथेवेति गुरोर्मतः शुक्रन्ते अन्यदिति चशुक्रस्यापि निगद्यते शनैश्चरायेति पुनः शन्नो देवीतिहोमयेत् कया नश्चित्र आभुव इति राहोरुदाहृतः ।केतुं कृण्वन्नपि ब्रूयात् केतूनामपि शान्तये” ।अधिदेवतामन्त्राः--“आ वो राजेति रुद्रस्य बलिहोमं समा-चरेत् आपोहिष्ठेत्युमायास्तु स्योनेति स्वामिनस्तथा ।विष्णोरिदं विष्णु रिति तमीशेति स्वयम्भुवः इन्द्र-मिद्देवतातये इन्द्राय जुहुयात्ततः तथा यमस्य चायंमौरिति होमः प्रकीर्त्तितः कालस्य ब्रह्मजज्ञानमितिमन्त्रः प्रशस्यते चित्रगुप्तस्य चाज्ञातमिति मन्त्र-विदो विदुः” ।प्रत्यधिदेवतामन्त्राः--“अग्निं दूतं वृणीमह इति वह्नेरुदाहृतः उदुत्तमं वरुणमित्यपां मन्त्रः प्रकीर्तितः भूमेःपृथिव्यन्तरिक्षमिति वेदेषु पठ्यते सहस्रशीर्षा पुरुष इतिविष्णोरुदाहृतः इन्द्रायेन्दो मरुत्वत इति शक्रस्यशस्यते उत्तानपर्णे सुभगे इति देव्याः समाचरेत् ।प्रजापतेः पुनर्होमः प्रजापते इति स्मृतः नमोऽस्तुसर्पेभ्य इति सर्पाणां मन्त्र उच्यते एष ब्रह्मा यऋत्विज इति ब्रह्मपयुदाहृतः” ।लोकपालंमन्त्राः--“विनायकस्य चातू इति मन्त्रो बुधैःस्मृतः जातवेदसे सुनवामेति दुर्गामन्त्र उच्यते आ-दित्प्रत्नस्य रेतस आकाशस्य उदाहृतः प्रा(क्रा)णा-शिशुर्महीनाञ्च वायोर्मन्त्रः प्रकीर्त्तितः एषो उषाअपूर्व्येति अश्विनोर्मन्त्र उच्यते” ।पूर्णाहुतिश्च मूर्द्धानं दिव इत्यभिपातयेत् “अथाभिषेकम-न्त्रेण वाद्यमङ्गुलगीतकैः पूर्णकुम्भेन तेनैव होमान्तेप्रागुदङ्मुखम् अव्यङ्गावयवैर्ब्रह्मन्! हेमस्रग्दामभू-षितैः यजमानस्य कर्त्तव्यं चतुर्भिः स्नपनं द्विजैः ।अभिषेकमन्त्रः--“सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ।वासुदेवो जगन्नाथस्तथा सङ्कर्षणा विभुः प्रद्युम्नश्चानि-रुद्धश्च भवन्तु विजयाय ते आखण्डलोऽग्निर्भगवान् यमोवै निरृति स्तथा वरुणः पवनश्चैव धनाध्यक्षस्तथाशिवः व्रह्मणा सहितः शेषो दिक्पालास्त्वामवन्तु ते ।कीर्त्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः बुद्धि-र्लज्जा वपुः शान्तिस्तुष्टिः कान्तिश्च मातरः एतास्त्वाम-भिषिञ्चन्तु धर्म्मपत्न्यः समागताः आदित्यश्चन्द्रमा भौमोबुवजीवौ सितोऽर्कजः ग्रहास्त्वामभिषिञ्चन्तु राहुःकेतुश्च तर्पिताः देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ।ऋषयोमुनयो गावो देवमातर एव देवपत्न्यो द्रुमानागा दैत्याश्चाप्सरसाङ्गणाः अस्त्राणि सर्वशस्त्राणिंराजानो वाहनानि औषधानि रत्नानि कालस्या-वयवाश्च ये सरितः सागराः शैलास्तीर्थानि जलदानदाः एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये” ।ततः शुक्लाम्बरधरः शुक्लगन्धानुलेपनः सर्वौषधैः सर्ब-गन्धैः स्नापितो द्विजपुङ्गवैः यजमानः सपत्नीकःऋत्विजः सुसमाहितान् दक्षिणाभिः प्रयत्नेन पूजयेद्-गतविस्मयः” ।ग्रहदक्षिणाः--“सूर्य्याय कपिलां धेनुं शङ्खं दद्यात्तथेन्दवे ।रक्तं धुरन्धरं दद्याद्भौमाय ककुद्मिनम् बुधाय जात-रूपन्तु गुरवे पीतवाससी श्वेताश्वन्दैत्यगुरवे कृष्णाङ्गा-मर्कसूनवे आयसं राहवे दद्यात् केतुभ्यश्छागमुत्त-मम् सुवर्णेन समा कार्य्या यजमानेन दक्षिणा ।सर्वेषामथ वा गावो दातव्या हेमभूषिताः सुवर्णमथ वादद्याद्गुरुर्वा येन तुष्यति स्वमन्त्रेणैव दातव्याः सर्वाःसर्वत्र दक्षिणाः” ।द्रव्यदानमन्त्राः तत्र कपिलायाः--“कपिले! सर्वभूतानांपूजनीयासि रोहिणी! सर्वदेवमयी यस्मादतः शान्तिंप्रयच्छ मे” ।शङ्खस्य--“पुण्यस्त्वं शङ्ख! पुण्यानां मङ्गलानाञ्च मङ्गलम् ।विष्णुना विधृतश्चासि ततः शान्तिं प्रयच्छ मे ।वृषस्य--“धर्म्मस्त्वं वृषरूपेण जगदानन्दकारक! अष्टमूर्त्ते-रधिष्ठानमतः शान्तिं प्रयच्छ मे” ।हेम्नः--“हिरण्यगर्भगर्भस्त्वं हेम! वीजं विभावसोः अन-न्तपुण्यफलदमतः शान्तिं प्रयच्छ मे” ।पीतवस्त्रस्य--“पीतवस्त्रयुगं यस्माद्वासुदेवस्य वल्लभम् पदा-नात्तस्य मे विष्णो! ह्यतः शान्तिं प्रयच्छ मे” ।अश्वस्य--“विष्णुस्त्वमश्वरूपेण यस्मादमृतसम्भवः चन्द्रार्कवा-हनो नित्यमतः शान्तिं प्रयच्छ मे” ।धेनोः--“यस्मात्त्वं पृथिवी सर्वा धेनुः केशवसन्निभा सर्व-र्पापहरा नित्यमतः शान्तिं प्रयच्छ मे” ।अयसः--“यस्मादायसकर्म्माणि तवाधीनानि सर्वदा लाङ्ग-लाद्यायुधादीनि तस्माच्छान्तिं प्रयच्छमे” ।छागस्य--“यस्मात्त्वं सर्वयज्ञानामङ्गत्वेन व्यवस्थितः यानंविभोवसोर्नित्यमतः शान्तिं प्रयच्छ मे” ।गोः--गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश यस्मात्तस्मा-च्छ्रिये मे स्यादिह लोके परत्र च” ।शय्यायाः--“यस्मादशून्यं शयनं केशवस्य सर्वदा शय्याममाप्यशून्याऽस्तु दत्ता जन्मनि जन्मनि” ।रत्नानाम्--“यथा रत्नेषु सर्वेषु सर्वे देवाः प्रतिष्ठिताः तथारत्नानि यच्छन्तु रत्नदानेन मे सुराः” ।भूमेः--“यथा भूमिप्रदानस्य कलान्नार्हन्ति षोडशीम् ।दानान्यन्यानि मे शान्तिर्भूमिदानाद्भवत्विह” ।“एवं संपूजयेद्भक्त्या वित्तशाठ्येन वर्जितः रत्नकाञ्चनव-स्त्रोघैर्धूपमाल्यानुलेपनैः अनेन विधिना यस्तु ग्रहपूजांसमाचरेत् सर्वान् कामानवाप्नोति प्रेत्य स्वर्गे महीयते ।यस्तु पीडाकरो नित्यमल्पवित्तस्य वा ग्रहः तञ्च यत्नेनसंपूज्य शेषानप्यर्चयेद् बुधः ग्रहा गावो नरेन्द्राश्चब्राह्मणाश्च विशेषतः पूजिताः पूजयन्त्येते निर्दहन्त्य-वमानिताः यथा वाणप्रहाराणां कवचं वारणंभवेत् तद्वद्दैवोपघातानां शान्तिर्भवति वारणम् ।तस्मान्न दक्षिणाहीनं कर्त्तव्यं भूतिमिच्छता संपूर्णयादक्षिणया यस्माद्देवोऽपि तुष्यति सदैवायुतहोमोऽयंनवग्रहमखे स्थितः विवाहोत्सवयज्ञेषु प्रतिष्ठादिषुकर्म्मसु निर्विन्घार्थं मुनिश्रेष्ठ! तथोद्वेगाद्भुतेषु ।कथितोऽयुतहोमोऽयं लक्षहोममतः शृणु” ।लक्षहोमः--“सर्वकामाप्तये यखाल्लक्षहोमं विदुर्बुधाः पितॄणांबल्लभं साक्षाद्भुक्तिमुक्तिफलप्रदम् ग्रहताराबलं दृष्ट्वाकृत्वा ब्राह्मणवाचनम्” ।मण्डपः--“गृहस्योत्तरपूर्वेण मण्डपं कारयेद् बुधः रुद्राय-तनभूमौ वा चतुरस्रमुदङ्मुखम् दशहस्तमथाष्टौवा हस्तान् कुर्य्याद्विधानतः प्रागुदक्प्लवना-म्भूमिं कारयेद् यत्नतो बुधः प्रागुत्तरं समा-साद्य प्रदेशं मण्डपस्य तु शोभनं कारयेत् कुण्डंयथावल्लक्षणान्वितम् चतुरस्रं समन्तात् सयोनिवक्त्रंसमखलम् चतुरङ्गुलविस्तारा मेखला तद्वदुच्छ्रिता ।प्रागुदक्प्लवना कार्या सर्वतः समवस्थिता शान्त्यर्थंसर्वलोकानां नवग्रहमखः स्मृतः मानहीनाधिकंकुण्डमनेकभयदायकम् यस्मात्तस्मात् सुसम्पूर्णं शान्ति-कुण्डं विधीयते ।विस्तरभयात् कोटिहोमोनोक्तः तत्रैवाध्यायशेषे दृश्यः ।अत्र याज्ञवल्क्येन ग्रहाणां मन्त्रान्तरमुक्तं यथा“आ कृष्णेन, इमन्देवा, अग्निर्मूर्द्धा दिबः ककुत् उद्बु-ध्यस्वेति ऋचो यथासंख्यं प्रकीर्त्तिताः वृहस्पतेःअतिदर्य, स्तथैवान्नात्परिस्रुतः शन्नोदेवीस्तथा, काण्डा-त्केतुङ्कृण्वन्निमास्तथा” ।विधानपा० विष्णुधर्म्योत्तरवाक्यादन्ये मन्त्रा उक्ताःहेमाद्रिशान्तिकाण्डे विधानमालादौ चापरे मन्त्रा उक्ताएवं विप्रतिपत्तौ शाखिभेदाद्व्यवस्था शाखिभेदा-न्मन्त्रभेदाश्च मत्कृततुलादानादिपद्धतौ दृश्याः तत्प्रती-कानि विवरणपत्रे वक्तव्यानि तानि तत्र दृश्यानिक्वचित् मत्स्यपुराणवाक्यान्मन्त्रभेदस्तु शाखिभेदात् व्यव-स्थाप्यः ।तत्र ग्रहयज्ञे ग्रहाणां पूजनाय स्फटिकादिमूर्त्तिकरणंतदभावे पटेःलेखनं तदभावे मण्डले वर्त्तुलाद्याकारले-खनं वा कृत्वा पूजादिकं कार्यं यथाह याज्ञ० अ०“सूर्यः सोमो महीपुत्रः सोमपुत्रो वृहस्पतिः शुक्रःशनैश्चरो राहुः केतुश्चेति ग्रहाः स्मृताः” याज्ञ० “एतेसूर्य्यादयो नव ग्रहाः पूज्या इत्युक्तं किं कृत्येत्याह”मिता० “ताम्रकात् स्फाटिकाद्रक्तचन्दनात् स्वर्णकादुभौ ।रजतादयसः सीसात्कांस्यात् कार्या ग्रहाः क्रमात् ।स्ववर्णैर्वा पटे लेख्या गन्धैर्मण्डलकेषु वा” याज्ञ० “सूर्य्या-दीनां मूर्त्तयस्ताम्रादिभिर्यथाक्रमङ्कार्यास्तदलाभे स्ववर्णकैःपटे लेख्या मण्डलेषु वा गन्धैरक्तचन्दनादिभिर्यथावर्णंलेख्या इत्यन्वयः द्विभुजत्वादिविशेषस्तु मत्स्यपुरा-णोक्तो द्रष्टव्यः तद्यथा “पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः सप्ताश्वरथसंस्थोऽपि द्विभुजः स्यात् सदारविः श्वेतः श्वेताम्बरधरो दशाश्वः श्वेतभूषणः ।गदापाणिर्द्विवाहुश्च कर्त्तव्यो वरदः शशी रक्त-माल्पाम्बरधरः शक्तिशूलगदाधरः चतुर्भुजो मेष-गमो वरदः स्याद्धरासुतः पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः खड्गचर्मगदापाणिः सिंहस्थो-वरदो वुधः देवदैत्यगुरू तद्वत् पीतश्वेतौ चतु-र्भुजौ दण्डिनौ वरदौ कार्य्यौ साक्षसूत्रक-मण्डलू इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः ।वाणवाणासनधरः कर्त्तव्योऽर्कसुतः सदा कराल-वदनः खड्गचर्मशूली वरप्रदः नीलः सिंहासनस्थश्चराहुरत्र प्रशस्यते धूम्रा द्विवाहवः सर्वे गदिनोविकृताननाः गृध्रासनगता नित्यं केतवः स्युर्वर-प्रदाः सर्वे किरीटिनः कार्या ग्रहा लोकहितावहाः ।स्वाङ्गुलेनोच्छ्रिताः सर्वे शतमष्टोत्तरं सदेति” ।“यथावर्ण्णं प्रदेयानि वासांसि कुसुमानि ।गन्धाश्च बलयश्चैव धूपोदेयश्च गुग्गुलुः कर्त्तव्या मन्त्र-वन्तश्च चरवः प्रतिदैवतम्” याज्ञ० “यथावर्णं यस्य ग्रहस्ययोवर्णस्तद्वर्णानि वस्त्रगन्धपुष्पाणि देयानि” मिता० ।मण्डले ग्रहलेखनाकारस्तु“वर्त्तुलो भास्करः कार्योह्यर्द्धचन्द्रो निशाकरः अङ्गा-रकस्त्रिकोणस्तु बुधश्चापाकृतिस्तथा पद्माकृतिः गुरुःकार्यश्चतुःकोणस्तु भार्गवः सर्पाकृतिः शनिः कार्योराहुस्तु मकराकृतिः खङ्गाकृतिस्तथा केतुः कार्य्योमण्डलपूजने” शान्तिदीपिकोक्तः ।ग्रहध्यानं मत्स्यपुराणोक्तमपि ग्रहयागतत्त्वीक्तंमण्डले मानभेदगोत्रजन्मभूम्याद्यनुगुणं ध्यानं प्रदर्शयते ।सूर्य्यस्य “क्षत्रियं काश्यपं रक्तं कालिङ्गं द्वादशाङ्गुलम् ।पद्महस्तद्वयं पूर्वाननं सप्ताश्ववाहनम् शिवाधिदैवतंसूर्यं वह्निप्रत्यधिदैवतम्” ।सोमस्य “सामुद्रं वैश्यमात्रेयं हस्तगात्रं सिताम्बरम् ।श्वेतं द्विवाहुं वरदं दक्षिणं सयदेतरम् दशाश्वंश्वेतपद्मस्थं विचिन्त्योमाधिदैवतम् जलप्रत्यधिदैवञ्चसूर्यास्यमाह्वयेत् तथा” ।मङ्गलस्य “आवन्त्यं क्षत्रियं रक्तं मेषस्थं चतुरङ्गुलम् ।आरक्तमाल्यवसनं भारद्वाजं चतुर्भुजम् दक्षिणोर्द्ध-क्रमाच्छक्तिवराभयगदाकरम् आदित्याभिमुखं देवं तद्वदेवसमाह्वयेत् स्कन्दाधिदैवतं ध्यायेत् क्षितिप्रत्यधि-दैवतम्” ।बुधस्य “मागधं द्व्यङ्गुलात्रेयं वैश्यं पीतं चतुर्भुजम् ।वामोर्द्धक्रमतश्चर्मगदावरदखङ्गिनम् सूर्यास्यं सिंहगंसौम्यं पीतवस्त्रं तथाह्वयेत् नारायणाधिदैवञ्च विष्णुप्रत्यधिदैवतम्” ।वृहस्पतेः “द्विजमाङ्गिरसं पीतं सैन्धवञ्च षडङ्गुलम् ।ध्यात्वा पीताम्बरं जीवं सुपद्मस्थं चतुर्भुजम् दक्षो-र्द्धादक्षवरदकरकादण्डमाह्वयेत् ब्रह्माधिदैवं सूर्य्यास्य-मिन्द्रपत्यधिदैवतम्” ।शुक्रस्य “शुक्रं मोजकटं विप्रं भार्गवञ्च नवाङ्गुलम् पद्मस्थ-माह्वयेत् सूर्यमुखं श्वेत्रं चतुर्भुजम् सदाक्षवरकरका-दण्डहस्तं सिताम्बरम् शक्राधिदैवतं ध्यायेत् शचीप्र-त्यधिदैवतम्” ।शनेः “सौराष्ट्रं काश्यपं शूद्रं सूर्यास्यं चतुरङ्गुलम्! कृष्णकृष्णाम्बरं गृध्रगतं सौरिं चतुर्भुजम् तद्वद्वाणवरशूलधनुर्हस्तं समाह्वयेत् यमाधिदैवतं प्रजाप्रतिप्रत्यधिदैवतम्” ।राहोः “राहुं मलयजं शूद्रं पैठीनं द्वादशाङ्गुलम् कृष्णंकृष्णाम्बरं सिंहासनं ध्यात्वा तथाह्वयेत् चतुर्बाहुंखङ्गवरशूलचर्मकरन्तथा कालाधिदैवं सूर्यास्यं सर्प-प्रत्यधिदैवतम्” ।केतूनाम् “कौशद्वीपं केतुगणं जैमिनीयं षडङ्गुलम् धूम्रंगृध्रगतं शूद्रमाह्वयेद्विकृताननम् सूर्यास्यं धूम्रवसनवरदं गदिनं तथा चित्रगुप्ताधिदैवञ्च ब्रह्मप्रत्यधि-दैवतम्” ।अत्र चन्द्रस्य सामुद्रत्वं राहोर्मलयजत्वं केतोः कौश-द्वीपत्वमुक्तं पुराणान्तरानुसारेण वक्ष्यमाणजन्मभूम्यादि-बोधकवचनेन विरोधभिया विकल्प आश्रयणीयः सचाचारभेदात् “व्यवस्थित इति वोध्यम् एवं वाहनेऽपिविकल्पः मत्कृततुलादानादिपद्धतौ एतेषां मध्ये केषा-ञ्चिदन्यवाहनत्वस्य दर्शितत्वात्” ।अधिदेवादीनां ध्यानमुक्तं विष्णुधर्मोत्तरे ।शिवस्य “पञ्चवक्त्रो वृषारूढः प्रतिवक्त्रं त्रिलोचनः कपाल-शूलखट्टाङ्गी चन्द्रमौलिः सदाशिवः” ।उमायाः “अक्षसूत्रं कमलं दर्पणं कमण्डलुम् उमाबिभर्त्ति हस्तेषु पूजिता त्रिदशैरपि” ।स्कन्दस्य “कुमारः षण्मुखः कार्य्यः शिखण्डकविभूषणः ।रम्यरक्ताम्बरोदेवो मयूरवरवाहनः कुक्कुटश्च तथाघण्टां तस्य दक्षिणहस्तयोः पताका वैजयन्त्याख्याशक्तिः कार्य्या वामयोः” ।विष्णोः “विष्णुः कौमोदकीपद्मशङ्खचक्रधरः क्रमात् ।प्रदक्षिणं दक्षिणाधःकरादारभ्य नित्यशः” ।ब्रह्मणः “पद्मासनस्थो जटिलो ब्रह्मा कार्य्यश्चतुर्भुजः ।अक्षमालां स्रुवं विभ्रत् पुस्तकं कमण्डलुम् वासःकृष्णाजिनं तस्य पार्श्वे हंसस्तथैव च” ।शक्रस्य “चतुर्दन्तगजारूढो वज्री कुलिशभृत्करः शची-पतिः प्रकर्त्तव्यो नानाभरणभूषितः” ।यमस्य “ईशन्नीलोयमः कार्य्योदण्डहस्तोविजानता रक्तदृक् पाशहस्तश्च महामहिषवाहनः” ।कालस्य “कालः करालवदनो नीलाङ्गश्च विभीषणः पाश-हस्तोदण्डहस्तः कार्य्यो वृश्चिकरोमवान्” ।चित्रगुप्तस्य “अपीच्यवेशः स्वाकारः द्विभुजः सौम्यदर्शनः ।दक्षिणे लेखनीं चित्रगुप्तो वामेऽस्य पत्रकम् पिङ्गल-श्मश्रुकेशान्तः पीनाङ्गजठरोऽरुणः” “पिङ्गाक्षत्रितयो-ऽरुणः” इति वा पाठः ।प्रत्यधिदेवानां तत्राग्नेः “छागस्थः साक्षसूत्रोऽग्निः सप्तार्चिःशक्तिधारकः चिह्नितं चमरेणास्य करमन्यं प्रकल्पयेत्” ।जलस्य “आपः स्त्रीरूपधारिण्यः श्वेता मकरवाहनाः ।दधानाः पाशकलसौ मुक्ताभरणभूषिताः” ।क्षितैः “शुक्लवर्णा मही कार्या दिव्याभरणभूषिताः चतु-र्भुजा सौम्यवपुश्चण्डांशुसदृशाम्बरा रत्नपात्रंसस्यपात्रं पात्रमौषधिसंयुतम् पद्मं करे कर्त्तव्यंभुवो यादवनन्दन! दिग्गजानां चतुर्णां सा कार्य्यापृष्ठगता तथा” विष्णोरिन्द्रस्य लक्षणमुक्तम् ।शच्याः “वामे शच्याः करे कार्य्या सौम्यसन्तानमञ्जरी ।वरदा मण्डिता कार्य्या द्विभुजा तथा शची” ।प्रजापतेः “यज्ञोपवीती हंसस्थ एकवक्त्रश्चतुर्भुजः अक्षंस्रुचं स्रुवं बिभ्रत् कुण्डिकाञ्च प्रजापतिः” अक्षंअक्षमालाम् कुण्डिकां कमण्डलुम् ।सर्पाणाम् “अक्षसूत्रधराः सर्पाः कुण्डिकापुच्छभूषणाः ।एकभोगास्त्रिभोगा वा सर्वे कार्य्याश्च भीषणाः” ।ब्रह्मलक्षणं प्रागुक्तम् ।अथ विनायकादिपञ्चलोकपाललक्षणानि विष्णुधर्मोत्तरंविनायकस्य “चतुर्भुजस्त्रिनेत्रश्च कर्त्तव्योऽत्र गजाननः ।नागयज्ञोपवीतश्च शशाङ्ककृतशेस्यरः दण्डं दक्षकरेदद्याद् द्वितीये चाक्षसूत्रकम् तृतीये परशुं दद्या-च्चतुर्थे मोदकं तथा” ।दुर्गायाः “शक्तिं वाणं तथा शूलं खड्गं चक्रं दक्षिणं ।चन्द्रविम्बमधो वामे खेटमूर्द्ध्वे कपांलकम् शुकं टङ्कंच बिभ्राणा सिंहारूढोरुदिग्भुजा एषा देवी समु-द्दिंष्टा दुर्गा दुर्गार्त्तिहारिणी”वायोः “धाबद्धरिणपृष्ठस्थो ध्वजधारी समीरणः वरदा-नकरो धूभ्रवर्णः कार्यो विजानता” ।आकाशस्य “नीलोत्पलाभं गगनं तद्बर्णाम्बरधारि ।चन्द्रार्कहस्तं कर्त्तव्यं द्विभुजं सौम्यखण्डवत्” ।अश्विनोः “पीतपद्मसवर्णामौ पद्मपत्रसमाम्बरौ द्विभुजौदेवभिषजौ कर्त्तव्यौ रूपसंयुतौ तयोरोषधयः कार्य्यादिव्या दक्षिणहस्तयोः वामयोः पुस्तके कार्य्ये दर्शनीयास्तथाद्विजाः (खगाः) एकस्य दक्षिणे पार्श्वे वामेचान्यस्य यादव! नारीयुगं प्रकर्त्तव्यं सुरूपं चारुदर्श-नम्”ग्रहाणां वर्णगोत्रादिसूचकध्यानानि यागतत्त्वो-क्तानि पूर्वदर्शितान्येवविनायकादीनां मण्डले स्थापनस्थानमुक्तं रुद्रकल्पेविष्णुध० यथा“राहुमन्ददिनेशानामुत्तरस्यां यथाक्रमम् गणेश-दुर्गा वायुश्च, राहुकेत्वोश्च दक्षिणे आकाशमश्विौ चेतिपञ्च तान् स्थापयेत् द्विजः” ।धूपादौ विशेषः हेमाद्रौ स्क०
पु०
“रवेः कुन्दुरकं धूपंशशिनस्तु वृताक्षतम् भौमे सर्जरसं चैव अगुरुञ्च बुधेतथा सिन्धुजं गुरवे दद्यात् शुक्रे विल्वागुरु स्मृतम् ।गुग्गुलुर्मन्दचारे तु लाक्षा राहोश्च केतवे” कुन्दुरकंशल्वकीनिर्यासः विल्वागुरु विल्वफलनिर्याससहितमगुरु ।गन्धभेदस्तत्रैव “दिवाकरकुजाभ्यां तु दापयेद्रक्तचन्द-नम् चन्द्रे गन्धं भार्गवे सितचूर्णं प्रदापयेत् ।कुङ्कुमेन संयुक्तं चन्दनं जीवसौम्ययोः अगुरुचापि कस्तूरी राहुकेत्वर्कजेषु च” ।विधानमालादौ अन्यविधा गन्धधूपाः पुष्पभेदाश्चोक्तास्तेच विवरणपत्रे द्रष्टव्याः तत्र जीवस्य चतुःसमगन्ध उक्तःस “कस्तूरिकाया द्वौ भागौ चत्वारश्चन्दनस्य तु ।कुङ्कुमस्य त्रयश्चैव शशिनश्च चतुःसमम्” इत्युक्तः गुरो-र्दशाङ्गधूपस्तत्रोक्तः “हेमाद्रौ व्रतखण्डे”षडभागकुष्ठं द्विगुणो गुडश्च लाक्षात्रयं पञ्च नखस्यभागाः हरीतकी सर्जरसः समांसी भागैकमेकं त्रिलवंशिलाजम् घनस्य चत्वारि पुरस्य चैकोधूपोदशाङ्गः-कथितो मुनीन्द्रैः” रत्नानि तु ग्रहशब्दे शारदा० प०उक्तानि द्रष्टव्यानि “अभावे सितपुष्पाणि चन्दनं चविलेपनम् एतेषां गुग्गुलुर्धूपो नैवेद्यं घृतपायसम्” ।ग्रहमण्डललेखनप्रकारः--उभयतो हस्तमिते ग्रह-वेदिमध्यस्थले पूर्वपश्चिमाग्राश्चतस्रो दक्षिणोत्तराग्राश्चचतुस्रोरेखाः कुर्यात् तथा करणे अष्टाङ्गुलदीर्घवि-स्ताराणि समान्तरालानि नव खण्डानि सम्पद्यन्तेतत्र विवरणपत्रे वक्ष्यमाणमानकं सूर्य्यादीनां वर्त्तुला-द्याकारं कुर्यात् स्वस्वमण्डले स्व स्व स्थापनम्स्वस्ववामेऽधिदेवानां स्वस्वदक्षिणे प्रत्यधिदेवानां सूर्या-भिमुखतया सर्वेषां स्थापनम् विनायकादिस्थापनञ्चप्रागक्त स्थानेष्विति विवेकः ।होमे समिद्भेदलक्षणादिकं विधानपारि० स्कन्दपु० “प्रादेशमात्रा अर्कस्य समिधश्चार्कसम्भवाः दधिमध्वा-ज्यसंयक्ताः प्रतिदेवञ्च होमयेत् पालाशीश्चैव सीमाय ।खादिरीर्लोहिताय आपामार्गीर्बुधायेति आश्व-त्थीश्च वृहस्पतेः औदुम्बरीश्च शुक्राय मन्दाय श-मीमयीः दौर्वीराहोः कुशान् कोतोर्होममन्त्रास्ततःपरम्” समिल्लक्षणं चिन्तामणौ “समिधां लक्षणंवक्ष्ये संख्या तासां तथैव विशीर्णा विदला ह्रस्वावक्राः सशुषिरा कृशाः अतिस्थूलातिदीर्घाश्च समिधःकार्य्यनाशिकाः विशीर्णाऽऽयुःक्षयकरी विदला पुत्र-नाशिनी शुषिरा व्याधिजननी कृशा रिपुवर्द्धिनी ।दीर्घा विदेशगमनी स्थूला चात्मविनाशिनी अकृशासुममाऽस्थूला सार्द्रा सुपलाशिनी प्रादेशान्नाधिकान्यूना समित् स्यात् सर्व्वकर्म्मणि” अथार्कादीनां फलंहोमसंख्या तत्रैव दर्शितं यथा “अर्को नाशयतिव्याधिं पलाशः सर्व्वकामदः खदिरश्चार्थलाभाय अ-पामार्गः सुदर्शनः अश्वत्थः सर्वकामाय भाग्यायौ-दुम्बरस्तथा शमी शमयते पापं दूर्व्वाऽऽयुष्यविवर्द्धिनी ।कुशान् धर्म्मार्थकामानां रक्षणं रक्षसां विदुः अष्टो-त्तरन्तु साहस्रं शतमष्टाधिकं तु वा अष्टाविंशतिमष्टौवा एकैकस्य तु होमयेत् देवानामपि सर्व्वेषामुपांशुपरमार्थवित् खेन स्वेनैव मन्त्रेण होतव्याः समिधःपृथक् होतव्यं घृताद्यक्तं चरुभक्तादिकं पुनः ।मन्त्रैर्द्दशाहुतीर्द्दद्याद्धोमोव्याहृतिभिस्ततः” अयुतादिहोमप्रक्रमात् व्याहृतिभिरयुतादिहोमः ।ग्रहाणां जन्मभूम्यादिज्ञानावश्यकतामाह स्कन्दपु० “जन्मभूर्गोत्रमग्निश्च वर्णस्थाने मुखानि योऽज्ञात्वाकुरुते शान्तिं ग्रहास्ते नावमानिताः” अतः शान्ति-काले तेषां जन्मभूम्यादिज्ञानमपेक्षितं तच्च विशेषणेनध्याने दर्शितमपि प्रपञ्चार्थमिहोच्यते तत्र रव्यादीनांजन्मभूम्यादयो यथा तत्रैवजन्मभूः--“उत्पन्नोऽर्कः कलिङ्गेषु यमुनायाञ्च चन्द्रमाः ।अङ्गारकस्त्ववन्त्यां वै मगधेषु हिमांशुजः सैन्धवेषुगुरुर्जातः शुक्रो भोजकटे तथा शनैश्चरश्च सौराष्ट्रेराहुर्वर्वरके पुरे अन्तर्व्वेद्यां तथा केतुरित्येता ग्रह-भूमयः यस्य यस्य यद्गोत्रं तत्ते वक्ष्याम्यतः परम्” ।ग्रहगोत्रम्--“आदित्यः काश्यपे गोत्रे आत्रेयश्चन्द्रमाभवेत् भारद्वाजो भवेद्भौमस्तथात्रेयश्च सोमजः ।शक्रपूज्योऽङ्गिरोगोत्रः शुक्रोवै भार्गवस्तथा शनिःकाश्यप एवायं राहुः पैठिनसिस्तथा केतवो जैमि-नीयाश्च ग्रहाग्निस्तदनन्तरम्” ।ग्रहवह्निः--“आदित्ये कपिलो नाम पिङ्गलः सोम उच्यते ।धूमकेतुस्तथा भौमे जाठरोऽग्निर्बुधे स्मृतः गुरौ चैवशिखी नाम शुक्रे भवति हाटकः शनैश्चरे महा-तेजा राहुकेत्वोर्हुताशनः” इति इत्थमेव होमकालेतत्तदग्निनाम कृत्वा जुहुयात् ।अथैषां वर्णः द्विधा विप्रादिजातिरूपभेदात् तत्ररूपे तत्रैव “भास्कराङ्गारकौ रक्तौ शुक्लौ शुक्रनिशा-करौ सोमपुत्रो गुरुश्चैव ताबुभौ पीतकौ स्मृतौ ।कृष्णः शनैश्चरस्तद्वत् राहुश्चित्राश्च केतवः” विप्रादि-वर्णस्तु “ब्राह्मणौ शुक्रवागीशौ क्षत्रियौ भौमभास्करौ ।चन्द्रो वैश्यो बुधः, शूद्रामन्दोराहुश्च केतवः” ।स्थानं तत्रैव “मध्ये तु भास्करं विद्याच्छशिनं पूर्वदक्षिणे ।दक्षिणे लोहितं विद्याद् बुधं पूर्व्वोत्तरेण तु उत्तरेतु गुरुं विद्यात् पूर्व्वतो भार्गवं न्यसेत् पश्चिमेनशनिं विद्याद्राहुं दक्षिणपश्चिमे पश्चिमोत्तरतः केतुःस्थाप्या वै शुक्लतण्डुलैः इति” ।मुखं स्कान्दे “शुक्रार्कौ प्राङ्मुखौ ज्ञेयौ गुरुज्ञौ तावुदङ्-मुखौ प्रत्यङ्मुखः शनिः सोमः शेषा दक्षिणतोमुखाः” ।अत्र प्राङ्मुखौ ऊर्द्ध्वदृष्टी, उदङ्मुखौ वामदृष्टी, प्रत्यङ्मुखोऽधोदृष्टिः, दक्षिणतोमुखा दक्षिणदृष्टय इति व्याख्ये-यम् “आदित्याभिमुखाः सर्व्वे इत्यनेन सर्व्वेषां सूर्य्या-भिमुखत्वोक्तेः इति विधानपारिजातादयः “वर्ण-रूपगुणेर्युक्तान् व्याहृत्यावाहयेत्तु तानिति” स्कान्दो-क्तेरावाहनसमयेऽपि वर्णभूम्यादिकीर्त्तनपूर्व्वकमावाहनंकार्य्यमेवमग्रेऽपि होमकाले तथास्मरणमिति बोध्यम्“चित्रान्नं “अजाक्षीरेण संस्विन्ना यवाश्च तिलतण्डु-लाः अजाकर्णस्य रक्तन रक्ताश्चित्रान्नसंज्ञिताः” दीपि-कोक्तम् प्रयोगो मत्कृततुलादानादिपद्धतौ दृश्यः ।सूर्य्यादिग्रहाणां जन्मनूम्यादिसूचकविवरणपत्रम् ।जन्मभूम्यादि सूर्प्यस्य चन्द्रस्य भौमस्य बुधस्य जीवस्य शुक्रस्य शनेः राहोः केतोःजन्मभूमिः कलिङ्गः यमुना अवन्तिः मगधः सैन्धवः भोजकटः सौराष्ट्रः वर्वरकः अन्तर्वेदीगोत्रम् कश्यपः अत्रिः भरद्वाजः अत्रिः अङ्गिराः भृगुः कश्यपः पैठिनसिः जैमिनिःअग्निः कपिलः पिङ्गलः धूमकेतुः जाठरः शिखी हाटः महातेजाः हुताशनः हुताशनःविप्रादिवर्णः क्षत्रियः वैश्यः क्षत्रियः वैश्यः विप्रः विप्रः शूद्रः शूद्रः शूद्रःरूपात्मकवर्णः रक्तः शुक्लः रक्तः पीतः पीतः शुक्लः कृष्णः कृष्णः चित्रम्मण्डलेस्थानम् मध्यम् पूर्बदक्षिणः दक्षिणः पूर्वोत्तरः उत्तरः पूर्वः पश्चिमः दक्षिणपश्चिमः पश्चिमात्तरःमुखम् (सर्वे सूर्याभिंमुखाः) ऊर्द्ध्वदृष्टिः अधोदृष्टिः दक्षिणदृष्टिः वामदृष्टिः वामदृष्टिः ऊर्द्ध्वदृष्टिः अधोदृष्टिः दक्षिणदृष्टिः दक्षिणदृष्टिःमण्डले आकारः वर्त्तुलः अर्द्धचन्द्रः त्रिकोणः चापः पद्मम् चतुष्कोणः सर्पः मकरः खङ्गःउभयताष्टाङ्गुल व्या० व्या० व्या० व्या० व्या० व्या० व्या०नवकोष्ठेषु तन्मानम् १२ प० २४ प० १२ प० प० १२ प० प० १२ प० १२ प० १८ प०वाहनम् सप्ताश्वरथः दशाश्वरथः मेषः सिंहः हस्ती हयः गृध्रः सिंहः गृध्रःमूर्त्तिद्रव्यर ताम्रम् स्फटिकम् श्वेतचन्दनम् स्वर्णम् स्वर्णम् रजतम् लौहम् सीसम् कांस्यम्गन्धभेदोद्विधा रक्तच--न्दनम् श्वेतच--न्दनम् रक्तच--न्दनम् कुङ्कुमम् कुङ्कुमम् श्वेतच--न्दनम् कस्तूरी कस्तूरी कस्तूरीमतान्तरे तत् तत् तत् तत् चतुःसमम् तत् सा कुलागुरु सापुष्पभेदाः करवीरम् कुमुदं जवा चम्पकम् पद्मम् जातिः मल्लिका कुन्दम् मल्लिकाध्पभेदाः गुग्गुलुः घृताक्तयक्षधूपः सर्जरसाः क्तसिह्लकम् पीतागुरु- सिह्लकम् दशा- ङ्गम् साज्यपि- ल्वागुरु पद्मकाष्ठम् यक्षधूपः मधुमिश्र- गुडत्वचमृमतान्तरे कुन्दरकम् घृताक्षतम् सर्जरसः पीतागुरु सिन्धुजम् विल्वागुरु गुग्गुलुः लाक्षा लाक्षाफलम् द्राक्षा इक्षुः पूगम् नागरङ्गम् जम्बीरम् वीजपूरम् जातिफलम् नारिकेलम् दाडिमत्वस्त्रम् रक्तम् श्वेतम् रक्तम् प्रीतम् पीतम् श्वेतम् कृष्णम् कृष्णम् चित्रम्रत्नानि माणिक्यम् मुक्ता प्रबालम् गारुत्मतम् पुष्परागम् हीरकम् नीलकम् गोमेदकम् वैदूर्य्यम्बलिभेदाः गुडीदनः घृतपायसम् यावकम् क्षीरयष्टिकम् दध्योदनः घृतौदनः कृसरम् आजमांसम् चित्रान्नम्समिधः अर्कः पलाशः खदिरः अपामार्गः अश्वत्यः उडुम्बरः शमी दूर्वात्रयम् कुशत्रयम्दक्षिणा कपिलाधेनुः शङ्खः रक्तवृषः स्वर्णम् पीतवस्त्रे श्वेताश्वः क्वष्णाधेनुः खङ्गः छागःजपसङ्ख्या ६००० १०००० ७००० १७००० १६००० २०००० १९००० १८००० ७०००अधिदेवता शिवः ममा स्कन्दः नारायणः व्रह्मा शक्रः यमः कालः चित्रगुप्तःप्रत्यतिदेवता अग्निः जलम् क्षितिः विष्णुः इन्द्रः शची प्रजापतिः सर्पः तह्मावैदभेदे ग्रहादीनां मन्त्रभेदा हेमाद्र्याद्युक्ताः प्रतीकतो दर्श्यन्तेग्रहादीनाम् ऋग्वेदिनः यजुर्वेदिनः सामवेदिनः अथर्ववेदिनःरवेः कृष्णेन रजसा कृष्णेन रजसा उदु त्यं जातबेदसम् विषासहिं सहमानम्चन्द्रस्य आप्यायस्व समेतु इमं देवा असपत्नम् सन्ते पयांसि समुयन्तु शकधूमं नक्षत्राणिभौमस्य अग्निर्मूर्द्ध्वा दिवः अग्निर्मूर्द्ध्वा दिवः अग्निर्मूर्द्ध्वा दिवः त्वया मन्यो! सरथम्बुधस्य अग्ने! विवस्वद् उद्बुध्यस्याग्ने! अग्ने! वितस्वत् यद्राजानी विभजन्तःगुरोः वृहस्पते! परिदीया वृहस्पते! अतियदर्य्य वृहस्पते! परिदीया वृहस्पतिर्नः परिपातुशुक्रस्य शुक्रं ते अन्यत् अन्नात्परिस्नुतः शुक्रं ते अन्यत् हिरण्यवर्णाः शुचयःशनेः समग्निरग्निभिः शन्नोदेवीरभीष्टये शन्नोदेवीरभीष्टये सहस्रबाहुः--पुरुषःराहोः कया नश्चित्रः काण्डात् काण्डात् कया नश्चित्रः दिव्यं चित्रमृतुधाःकेतोः केतुं कृण्वन्नकेतवे केतुं कृण्वन्नकेतवे केतुं कृण्वन्नकेतवे यस्ते पृथुःस्तनयित्नुःसूर्याधिदेववह्नेः वोराजानम् त्रियम्बकम् वोराजानम् मानोविदन् विव्याधिनःचन्द्राधिदेवोमायाः गौरीर्मिमाय श्रीश्च ते लक्ष्मीश्च आपोहि ष्ठा आपोहि ष्ठाकुजाधिदेवस्कन्दस्य कुमारं माता यदक्रन्दः प्रथमम् स्योना पृथिवि! अग्निरिव मन्यो! त्विषितःबुधाधिदेवविष्णोः इदं विष्णुर्विचक्रमे विष्णोरराटमसि इदं विष्णुर्विचक्रमे प्र तद्विष्णुः स्तवतेजीवाधिदेवब्रह्मणः त्वमित् सप्रथाः ब्रह्मन् ब्राह्मणः त्वमित् सप्रथाः ब्रह्म जज्ञानम्शुक्राधिदेवेन्द्रस्य इन्द्रं वो विश्वतः सजोषा इन्द्र! इन्द्रमित् देवतातये इन्द्रेमं प्रतरम्शन्यधिदेवयमस्य यमाय सोमं सुनुत यमाय त्वाङ्गिरस्वते आयं गौः पृश्निः यः प्रथमं प्रवतमाससादराह्वधिदेवकालस्य ब्रह्म जज्ञानम् कार्षिरसि समुद्रस्य ब्रह्म जज्ञानम् रोहितः कालो अभयत्केत्वधिदेवचित्रगुप्तस्य उषोवाजं हि चित्रावसो! स्वस्ति चित्र इच्छिशोः आज्ञातं यदनाज्ञातम्सूर्यप्रत्यधिदेवाग्नेः अग्निं दूतं वृणीमहे अग्निं दूतं पुरोदधे अग्निं दूतं वृणीमहे समास्त्वाग्ने ऋतवः ।चन्द्रप्रत्यधिदेवजलस्य अप्सु मे सोमः आपोहि ष्ठा उदुत्तमं वरुण! शन्नोदेवीरभीष्टयेभामप्रत्यधिदेवक्षितेः स्योना पृथिवि! स्योना पृथिवि! पृथिव्यन्तरिक्षम् भूमे! मातर्निधेहिबुधप्रत्याधदेवहरेः सहस्रशीर्षा पुरुषः इदं विष्णुर्विचक्रमे सहस्रशीर्षा पुरुषः इदं विष्णुर्विचक्रमेजीवप्रत्यधिदेवन्द्रस्य इन्द्रायेन्दो! मरुत्वते इन्द्र आसां नेता इन्द्रायेन्दो! इन्द्र! जुषस्व प्रवहाशुक्रप्रत्यधिदेवशच्याः उत्तानपर्णे! सुगगे! अदित्यै रास्नासि एकाष्टका तपमे प्रेतं पादौ प्रस्फुरतम्शनिप्रत्यधिदेवप्रजापतेः प्रजापते! त्वद् प्रजापते! त्वद् प्रजापते! त्वद् नक्तं जातास्योषधे!राहुप्रत्यधिदेवसर्पाणाम् आयं गौःप्रश्निः नमोऽस्तु सर्पेभ्यः तवेदिन्द्रा वयम् शेरभक शेरभ!केतुप्रत्यधिदेवब्रह्मणः ब्रह्म जज्ञानम् ब्रह्म जज्ञानम् एष ब्रह्मा ऋत्विजः ये दिशामन्तर्देशेभ्यःविनायकस्य तू इन्द्र! गणानां त्वा गणपतिम् तू इन्द्र! निलक्ष्मां ललामाम्दुर्गायाः जातवेदसे सुनवाम अम्बे! अम्बिके! इमं स्तोममर्हते पृतनाजितं सहमानम्बायोः क्राणाशिशुर्महीनाम् वायो! ये ते सहस्रिण क्राणा शिशुर्महीनाम् अन्तरीक्षे वायवेआकाशस्य आदित पत्नस्य घृतं घृतपावानः आदित् प्रत्नस्य श्राम्यतः पचता विद्धिअश्विनोः एषो उषा अपर्व्या या वां कशा एषो उषा अपूर्व्या सं चेन्नय थौ अश्विनाएते मन्त्रा ऋग्वदस्य यादृश एते मन्त्राः शुक्लयजु- एते मन्त्राः माम- एते मन्त्राः अथर्ववेदेस्थानस्थास्तच्चिह्नसहित तुला- र्वेदे यादृशस्थानस्थास्तच्चि- वेदस्य यादृशस्थानस्था- यादृशस्थानस्थास्तच्चि-दानादिपद्धतो ७५--७९ पत्रेषु ह्नसहितं तुलादानादि--स्तच्चिह्नानसारेण तुलादा--ह्नानुसारेण तुलादाना-स्वरूपतो दशितास्ततएवावसेयाः पद्धतौ १०६--११० पत्रेषु नादि पद्धता १२७--१३०५ दिपद्धतौ १४८--१५२ प्रत्रे-स्वरूपपतोदर्शिताः त्रेषु स्वरूपतोदर्शिताः षुस्वरूपतोदर्शिताः