ग्रहबल (grahabala)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaग्रहबल
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಸೂರ್ಯಾದಿ ಗ್ರಹಗಳಿಗೆ ಸ್ವಕ್ಷೇತ್ರ ಸ್ವೋಚ್ಚಕ್ಷೇತ್ರ ಮಿತ್ರ ಕ್ಷೇತ್ರ ಮೊದಲಾದುವುಗಳಲ್ಲಿರುವುದರಿಂದ ಉಂಟಾಗುವ ಬಲ
व्युत्पत्तिः - > ग्रहाणां स्वोच्चक्षेत्रादिस्थित्या बलम्
वाचस्पत्यम्
Sanskritग्रहबल ६ त० । ग्रहाणां बलभेदे तानि च वृहज्जातकेतद्व्याख्याने भट्टोत्पलेन चोक्तानि यथा“स्वोच्चसुहृत्स्वत्रिकोणनवांशैः स्थानबलं स्वगृहो-पगते च । दिक्षु वुधाङ्गिरसौ रविभौमौ सूर्यसुतः सित-शीतकरौ च । उदगयने रविशीतमयूखौ वक्रसमा-गमगाः परिशेषाः । विपुलकरा युधि चोत्तरसंस्थाश्चेष्टितवीर्ययुताः परिकल्प्याः । निशिशशिकुजसौराः सर्वदाज्ञोऽह्रि चान्ये बहुलसितगताः स्युः क्रूरसौम्याः क्र-मेण । द्व्ययनदिवसहोरामासपैः कालवीर्यं शकुबुगु-शुचराद्यावृद्धितो वीर्यवन्तः” वृहज्जा० । “अत्र ग्रहाणांचतुर्विधं स्थानदिक्चेष्टाकालाख्यं बलम् । तत्र तावत्स्थानदिग्बलं दोधकेनाह “स्वोच्चसुहृदिति स्वग्रहणंप्रत्येकमभिसंबध्यते तत्र स्वोच्चे स्थितो गृहो बलवान्भवति, तात्कालिकस्य सुहृदो मित्रस्य क्षेत्रे स्थितो बलबा-नेव स्वत्रिकोणे आत्मीयमूलत्रिकोणे स्थितः, स्वनवांशेस्थितः, स्वगृहे स्वराशाबुपगतः प्राप्तो बलवानेव, एते-षामन्यतमे व्यवस्थितो ग्रहः स्थानबलयुक्तो भवति ।तत्रार्कस्य सिंहः स्वत्रिकोणम् तदेव गृहं क्षेत्रम् ।चन्द्रस्य दृष उच्चः स एव त्रिकोणम्, भौमस्य मेषःत्रिकोणम् तदैव स्वक्षेत्र, बुधस्य कन्या उच्चः सैव मूलत्रिकोणं स्वक्षेनं च । गुरोः धन्वी त्रिकोणं, तदेवस्वक्षेत्रम् सौरेः कुम्भस्त्रिकोणम् तदेव स्वक्षेत्रम् । शुक्रस्यतला त्रिकीणं तदेवं स्वक्षेत्रम् एतेषामाचार्य्येणविशेपोनोक्तः अस्मामिरन्यहोर शास्त्रादानीर्य शिष्य-हितायेह लिख्यते तथा च साराबल्याम् “विशतिरंशाःसिंहे त्रिकोणमपरे स्वभवनमर्कस्य । उच्चं भागत्रितयंवृप इन्दोः स्यात्त्रिकोणमपरेऽंशाः । द्वादशभागा मेषेत्रिकोस्पमपरे स्वभन्तु भौमस्य । उच्चफलं कन्यायां बुधस्यतङ्गांशकैः सदा चिन्त्यम् । परतस्त्रिकोणजातः पञ्चभिरंशैःस्वराशिजं परतः । दशभागा जीवस्य त्रिकोणफलं स्वभंपरं चापे । शुक्रस्य तु तिथयोऽंशास्त्रिकोणमपरे घटेस्वराशिश्च । कुम्भे त्रिकोणजनिते रविजस्य रवेर्यथासिहे” एतदार्य्याचतुष्टयम् । दिक्षु बुधाङ्गिरसावित्यादि ।प्राच्याद्यातु चतसृषु दिक्षुक्रमाद्बु धादयो वलिनो भवन्तितत्र पूर्बस्यां बुधाङ्गिरसौ ज्ञजीवौ बलिनौ भवतःलग्नस्थावित्यर्थः दक्षिणस्यां रविभौमौ सूर्याङ्गारकौदशमस्थावित्यर्थः पश्चिमायां सूर्य्यसुतः शनिः सप्तमस्थइत्यर्थः । उत्तरस्यां सितशीतकरौ शुक्रचन्द्रौ चतुर्थ-स्थावित्यर्थः । यो ग्रहो यत्र बली स तस्मात्सप्तमस्थानस्थो विबलो भवति मध्येऽनुपात ऊह्य इति सर्वत्रेयंपरिभाषा ग्रहाणामुच्चनीचप्रविभागे राशीनां दिग्बलप्रविभागेऽपि, तथा च यवनेश्वरः “गुर्वैन्दवौ पूर्वविलग्नसंस्थौ नभस्तलस्थौ च दिवाकरारौ । सौरोऽस्तगःशुक्रनिशाकरौ तु तुर्य्ये स्थितौ तौ सवलौ भवेतामिति” ।अन्यबले ग्रहाणाम् अन्तरेऽनुपात एव युक्तः । एतत्-ग्रहाणां दिग्बलमुच्यते । अधुना चेष्टाबलं दोधकेनाहउदगयने इति मकरादिराशिषट्कमुत्तरमयनं कर्कटादि-राशिषट्कं दक्षिणमयनमिति उदगयने उत्तरायणेरविशीतमयूखौ सूर्यचन्द्रमसौ बलिनौ भवतः । परि-शेषाः भौमबुधगुरुसितसौराः वक्रगाः विपरीतगतयोबलिनो भवन्ति तथा समागमगाश्चन्द्रेण सहिताःवलिन एव चन्द्रेण संयोगो ग्रहाणां समागमशब्दवाच्यःरविणा सहास्तमयो भौमादीनां परस्परं युद्धम् उक्त-ञ्चाचार्य्यविष्णुचन्द्रेण “दिवसकरेणास्तमयः समागमःशीतरश्मिसहितानाम् । कुसुतादीनां युद्धम् निगद्यतेऽन्योन्ययुक्तानामिति” विपुलकरा इति विपुलाः करा येषांते विपुलकराः विस्तीर्णरश्मयो वलिनो भवन्ति शीघ्र-केन्द्रे द्वितीयतृतीयपदस्थे ग्रहस्य विपुलकरत्वं प्रायःसम्भवति वक्रासन्नत्वात् युधि संग्रामे चोत्तरसंस्थाबलिन एव कुसुतादीनां युद्धमित्युक्तम् । तत्र यः उत्तर-दिग्भागसंस्थितो जयी स च बलवान् उत्तरसंस्थत्व-मत्रोपलक्षणार्थम् । यस्तेजस्वी स एव बलवान् तत्रै-तज्जयलक्षणम् “दक्षिणदिक्स्थः परुषो बेपथुरप्राप्यसन्निकृष्टतनुः । अधिरूढो विकृतोनिःप्रभो विवर्णश्च यः ।स जितः उक्तविपरीतलक्षणसम्पन्नो जयगतो विनि-र्दिष्टः । विपुलः स्निग्धोद्युतिमान् दक्षिणदिक्स्थोऽपि जयउक्तः” इति एतच्छुक्रंस्य प्रायः सम्भवति यस्मात्पुलिशा-चार्यः “सर्वे जयिन उदक्स्था दक्षिणदिक्स्थो जयी शुक्रः”इति । एतच्चेष्टाबलम् एषामन्यतमेन संयुक्तश्चेष्टावल-संयुक्तो भवति । अधुना ग्रहाणां कालबलं नैस-र्गिकबलं च मालिन्याह निशीति शशिकुजसौराश्चन्द्रभौमशनयः निशि रात्रौ वीर्य्यवन्तो बलिनः । ज्ञोबुधःसर्वदा सर्तस्मिन् काले निशि दिने च बली । अन्ये परेरविगुरुसिता अह्नि दिने बलिनः । क्रूराः पापाः प्रा-गुक्ताः बहुलपक्षे, कृष्णवक्षेऽपि कूरो बलबान् भवतियवनेश्वरः “मासे तु शुक्ले प्रतिपत्प्रवृत्ते पूर्वे शशी-मध्यबलो दशाहे । श्रेष्ठो द्वितीयेऽल्पबलस्तृतीये सौम्यैस्तुदृष्टो बलवान् सदैवेति” सितगताः शुक्लपक्षे स्थिताः सौ-म्याः बलिनः । द्व्ययनेति द्वे अयने प्रमाणं यस्य द्व्ययनंतत्तु वर्षं स्ववर्षे आत्मीयवर्षे, यो ग्रहो यत्र वर्षेऽधि-पतिः स तत्र बलवान् स्वदिवसे आत्मीयवासरे स्वहो-रायां कालहोरायाम् । तथा स्वमासे यस्मिन् मासेयोऽधिपतिः स तत्र बली द्व्ययनदिवसहोरामासानां येअधिपतयस्तैर्ग्रहैः कालबलोपेतैरुपलक्षणीयम् । तेकालबलोपेता इत्यर्थः केचिद्द्व्ययनदिवसहोरामास-पैरिति पठन्ति अन्ये स्वदिवससमहोरामासपैरिति पठन्तिय एषामपरः पाठः एतेषु कालेषु सर्वे एव बलिनो भवन्तिएतत् ग्रहाणां कालवीर्य्यम् । एतेषामन्यतमेन संयुक्तःकालबलसम्पन्नो भवति । शकुबुगुशुचराद्या इति शादयोवर्णाः आद्या येषाम् ते शकाराद्यः शनैश्चरः सर्वेभ्योयलहीनः कुकाराद्यः कुजः भौमः शनैश्चराद्बलवान् ।बुकाराद्यो बुधः स भौमाद्बलवान् गुकाराद्यो गुरुः स-बुधाद्बली, शुकाराद्यः शुक्रः स जीवाद्बली चकाराद्यश्चन्द्रःस शुक्राद्बली रकाराद्यो रविः स चन्द्राद्बलीति । एत-द्ग्रहाणां नैसर्गिकबलम् । यस्मादेवानेन स्वल्पजातकेउक्तम् “मन्दारसौम्यवाक्पतिसितचन्द्रार्का यथोत्तरंबलिनः । नैसर्गिकबलमेतद्बलसाम्ये स्यादधिकचिन्तेति” ।यदा ग्रहाणां ग्रहयोर्बा बलसाम्यं भवति तदा बलाधि-क्यम् अधिकवीर्यवत्ता ज्ञयेति । अत्राचार्य्येण चतुःप्रका-रस्य फल नोक्तं तच्चान्यशास्त्राल्लिख्यते तथा च साराब-ण्याम् “उच्चबलेन समेतः परां विभूतिं स्वगः प्रसाधयति ।स्वत्रिकोणबलः पुंसां साचिव्यं बलपतित्वं वा । स्वर्क्ष-बलेन च सहितः प्रमुदितधनधान्यसंपदाक्रान्तम् । मित्र-बलसंयुक्तो जनयति कीर्त्यान्वितं पुरुषम् । तेजस्विनमतिसुखिनं सुस्थिरविभवं नृपाच्च लब्धधनम् । स्वनवांशक-बलयुक्तः करोति पुरुषं प्रसिद्धं च” । सूक्ष्मजातकेचोक्तम्“बलबान्मित्रस्वग्र होच्च नवांशकेष्वीक्षितः शुभैश्चापि । च-न्द्रसितौ स्त्रीक्षेत्रे पुरुषक्षेत्रोपगाः शेषाः” इति तत्र शुभ-वृष्ट्यादिफलं तावत् “शुभदर्शनबलसहितः पुरुषं कुर्याद्धना-न्यितं ख्यातम । सुभगं प्रधानमखिलं सुरूपदेहं च सौम्यंच । पुंस्त्रीभवनबलेन च करोति जनपूजितं कलाकुश-लम् । पुरुषं प्रसन्नचित्तं कल्यं परलोकभीतञ्च” आशा-बलसमवेतो नयति खदिशं नभश्चरः पुरुषम् । नत्या वस्त्रविभूषणवाहनसौख्यान्वितं कुरुते । क्वचिद्राज्यंक्वचित्पूजां क्वचिद्द्रव्यं क्वचिद्यशः । ददाति विहगश्चित्रंचेष्टावीर्य्यसमन्वितः । वक्त्रिणस्तु महावीर्याः शुभा राज्य-प्रदाःखगाः । पापा व्यसनदाः पुंसां कुर्वन्त च वृथाटनम् ।स्वस्थं शरीरसमागमसुखमाहवजयबलेन विदधाति ।शुभमतुलं विहगेन्द्रो राज्यं च विनिर्जितारातिम् ।रात्रिदिवाबलपूर्णैर्मूगजलाभेन शौर्यपरिवृद्ध्या । मलि-नयति शत्रुपक्षं भुञ्जति लक्ष्मीं नमश्चरैः पुरुषः । द्विगुणंद्विगुणं दद्युर्वर्षाधिपमासदिवसहोरेशाः । कुर्युर्वृद्ध्यासौख्यं स्वदशासु धनं च कीर्त्तिञ्च । पक्षबलाद्रिपुनाशंवराम्बरहस्तिसम्पदं दद्युः । स्त्रीकनकभूमिलाभं कीर्त्तिञ्चशशाङ्कधवलतराम् । सकलबलभारभरिता निर्मलकर-जालभासुराः सततम् । राज्यं खगा विदध्युः सौख्यञ्चमनोरथातीतम् । आचारसौख्यशुभशौचयुताः सुरू-पास्तेजस्विनः कृतविदो द्विजदेवभक्ताः । सद्वस्त्रमाल्यजन-भूषणसंप्रियाश्च सौम्यग्रहैर्बलयुतैः पुरुषा भवन्ति । लुब्धाःकुकर्मनिरता निजकार्य्यनिष्ठाः पापान्विताः सकलहाश्चतमोऽभिभूताः । क्रूराः शठा बधरता मलिनाः कृतघ्नाःपापग्रहैर्बलयुतैः पिशुनाः कुरूपाः । पुंराशिषु ग्रहेन्द्रै-र्वीराः संग्रामकाङ्क्षिणो बलिनः । निःस्नेहाः सुकठोराःक्रूरा मूर्खाश्च जायन्ते । युवतिभवनस्थितेषु च मृदवःसंग्रामभीरवः पुरुषाः । जलकुसुमवस्त्रनिरताः सौम्याःकलहैः सुसंयुक्ताः इति” एतत्सर्वं सुगमम्” भट्टोत्पलः ।ताजकोक्तखगवलं च पञ्चवर्गीशब्दे द्वादशद्वादशवर्गी-शब्दे च वक्ष्यते ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
