ग्रहदृष्टि (grahadRSTi)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaग्रहदृष्टि
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಗ್ರಹಗಳು ತಾವಿರುವ ಸ್ಥಾನಗಳಿಂದ ಬೇರೆ ಬೇರೆ ಸ್ಥಾನಗಳನ್ನು ನೋಡುವುದು
वाचस्पत्यम्
Sanskritग्रहदृष्टि स्त्री । ६ त० । ग्रहाणां स्वस्थानापेक्षया स्थान-भेदषु दर्शनभेदे सा च वृहज्जातके तट्टीकायां चोक्ता यथा“त्रिदशत्रिकोणचतुरखसप्तमान्यवलोकयन्ति चरणामि-वृद्धितः । रविजामरेज्यरुधिराः परे च ये क्रमशोभवन्ति किल वीक्षणेऽधिकाः” वृहज्जा० । “यस्मिन स्थानेखेटाः स्थितास्तस्मात्त्रदशादीनि स्थानानि चरणाभि-वृद्धितः पादवृद्ध्यावलोकयन्ति खेटो यस्मिन् राशौव्यवस्थितः तस्माद्यस्तृतीयग खेटो दशमगतश्च तौतृतीयदशमराशी च पादेन चतुभागदृष्ट्यावलोक-यति एवं त्रिकोणस्थौ नवपञ्चमस्थानगतावर्द्धदृष्ट्या, चतुरस्रेऽष्टमचतुर्थे अष्टमचतुर्थस्थानस्थौ पादहीनदृष्ट्यासप्तमगे खेटं परिपूर्णदृष्ट्या । चरणाभिवृद्धित इत्यत्रा-भिशब्दो वीप्सां द्योतयति चरणचरणवृद्ध्या पादपादवृ-द्ध्येत्यर्थः । यावत्पाददृष्ट्या पश्यन्ति तावत् फलं प्रयच्छन्तितथा च स्वल्पजातवे “दशमतृतीये नवमपञ्चमे चतुर्था-ष्टमे कलत्रं च । पश्यन्ति पादवृद्ध्या फलानि चैवं प्रय-च्छन्ति” । अर्थादेव खेटा उक्तस्थानानि पश्यन्तीति तथा चसाराबल्याम् “सव्यं पश्यति सदा खगाश्चरणवृद्धितः सर्वे ।त्रिदशत्रिकोणचतुरस्रसप्तमगतान् फलं क्रमेणैव ।पूर्णं पश्यति रविजस्तृतीयदशमे त्रिकोणमपि जीवः ।चतुरस्रं भूमिसुतः सितार्कबुधहिमकराः कलत्रं च” ।तथा यवनेश्वरः” द्वौ पश्चिमौ ११ । १२ । षष्ठमथ द्वितीयंसंस्थानराशेः परिहृत्य राशिम् । शेषान् खगः पश्यतिसर्वकालमिष्टेषु चैषां विहिता दृगिष्टा । जामित्रभे दृष्टि-फलं समस्तें स्वपादहीनं चतुरस्रयोश्च । त्रिकोणयोर्दृष्टि-फलार्द्धमाहुर्दुश्चिक्युसंज्ञे दशमे च पादम्” । रविजा-मरेज्यरुधिरा इति । किलेत्यागमसूचन चरणाभि-वृद्धित इत्यनुवर्त्तते एते रविजादयश्चरणाभिवृद्धितःपादोपचयाद्वीक्षणे दर्शने क्रमशोऽधिकफलप्रदा भवन्तिरविजः सौरिः स दर्शने पादफलप्रदः, अमरेज्यो वृह-स्पतिरर्द्धफलप्रदः रुधिरोऽङ्गारकः स पादहीनफलप्रदः ।अपरेऽर्कचन्द्रबुधशुक्रास्ते वीक्षणे समस्तफलप्रदाः ।एतन्नैसर्गिकं ग्रहाणां दृष्टिफलम् । स्थानवशादेतेषांयथास्वं दृष्टिफलमूह्यम् एवमेके व्याचक्षते । अपरे तुआहुः स्थानफलमेतत् तेन त्रिदशादिस्थानगतान् ग्रह-राशीन् पश्यन्तो रविजादयो दर्शनेऽधिकफलप्रदाभवन्ति तद्यथा तृतीयदशमस्थान् ग्रहान्० राशीन् वाशनैश्चरः पश्यन्नन्येभ्यो राहेभ्योऽधिकफलप्रदो भवतिपरिपूर्णं पश्यतीत्यर्थः । एवं त्रिकोणस्थान् जीवः, चतु-रस्रगान् भौमः, सप्तमस्थान् परे सूर्यचन्द्रबुधशुक्राः ।एतच्च बहुतराचार्याणां मतम । तथा च भगवासगर्गः “दुश्चिक्य ३ दशमान् सौरिस्त्रिकोणस्थान् वृह-स्पतिः । चतुर्थाष्टमगान् भौमः शेषाः सप्तमसंस्थितान् ।भवन्ति वीक्षणे नित्यमुक्ताधिकफलाः खगाः” । भट्टो०वराहमते राहोर्ग्रहत्वाभावेन न तस्य दृष्टिस्तेनोक्ता ।ज्यो० त० अन्यखेटदृष्टिः तद्दृष्टिश्चोक्तायथा“दशमे च तृतीये च पाददृष्टिरुदाहृता । अर्द्धदृष्टिश्रनवमे पञ्चमे पारकीर्त्तिता । चतुर्थे त्वष्टमे चैव पादोनापरिकीर्त्तिता । सप्तमे परिपूर्णा च फलमेवं प्रकल्प्यते ।तृतीयदशमावार्किः पश्यन पूर्णफलप्रदः । त्रिकोणगान्गुरुश्चैव चतुर्थाष्टमगान् कुजः । सुतमदननवान्त्ये पूर्ण-दृष्टिः ६० सुरारेर्युगलदशमराशौ दृष्टिपादत्रयार्हः ४५ ।सहजरिपुचतुर्थेष्वष्टमे चार्द्धदृष्टिः ३० स्थितिभवनमुपान्त्यंनैव दृश्यं हि राहोः” ।सर्वकर्मोपयोगिनैसर्गिकग्रहदृष्टिचक्रम् ।स्थान र च म वु वृ शु श रा१० ० ० ० ० ० ० ० ०३ ० ० ० ० ० ० ० ४५३ १५ १५ १५ १५ १५ १५ ६० ३०४ ४५ ४५ ६० ४५ ४५ ४५ ४५ ३०५ ३० ३० ३० ३० ६० ३० ३० ६०६ ० ० ० ० ० ० ० ३०७ ६० ६० ६० ६० ६० ६० ६० ६०८ ४५ ४५ ६० ४५ ४५ ४५ ४५ ३०९ २० ३० ३० ३० ६० ३० ३० ६०१० १५ १५ १५ १५ १५ १५ ६० ४५११ ० ० ० ० ० ० ० ०१२ ० ० ० ० ० ० ० ६०तात्कालिकदृष्टिस्तु द्रष्टृदृश्यग्रहयोर्द्रष्टृखेटराश्योर्वाअनुपदं वक्तव्यताजतोक्तवत कल्पनीयाइयांस्तु विशषः तत्र एकादिशेषे ये ध्रुवा उक्ता अत्र नतथा किन्तु दर्शितचक्रानुसारेण खगभेदे ध्रुवाः कल्प-नीया इति । नैसर्गिकतात्कालिकमित्रादिकं तु अरिशब्दे३३५ पृ० उक्तम् । तदनुसारेण मित्रादिदृष्टिरुह्यानीलकण्ठताजके तु वर्षप्रवेशफलोपयोगिनी अन्यविधैवदृष्टिरुक्ता यथा “दृष्टिः स्यान्नवपञ्चमे बलवती प्रत्यक्षतःस्नेहदा पादोना ४५ ऽखिलकार्यसाधनकरी मेलापकाख्यो-च्यते । गुप्तस्नेहकरी तृतीयभवभे कार्यस्य संसिद्धिदा-त्र्यंशोना ४० कथिता त्रतीयभवने षड्भाग १० दृष्टिर्भवे ११दृष्टिः पादमिता १५ चतुर्थदशमे गुप्तारिभावा स्मृताऽ-न्योन्यं सप्तमभे तथैकभवने प्रत्यक्षवैराऽखिला ६० । दृष्टंदृक्त्रितयं क्षुताह्वयमिदं कार्यस्य विध्वंसनं संग्रा-मादिकलिप्रदं दृश इमाँ स्युर्द्वादशांशान्तरे ।वर्षप्रवेशोपयोगिग्रहदृष्टिचक्रम् ।स्थान र च मं बु वृ शु श१ ६० ६० ६० ६० ६० ६० ६० प्रत्यक्षवैरा२ ० ० ० ० ० ० ०३ ४० ४० ४० ४० ४० ४० ४० गुप्तस्नेहा४ १५ १५ १५ १५ १५ १५ १५ गुप्तारिः५ ४५ ४५ ४५ ४५ ४५ ४५ ४५ प्रत्यक्षमित्रा६ ० ० ० ० ० ० ० ०७ ६० ६० ६० ६० ६० ६० ६० प्रत्यक्षवैरा८ ० ० ० ० ० ० ० ०९ ४५ ४५ ४५ ४५ ४५ ४५ ४५ प्रत्यक्षस्नेहा१० १५ १५ १५ १५ १५ १५ १५ गुप्तारिः११ १० १० १० १० १० १० १० गुप्तमित्रा१२ ० ० ० ० ० ० ०तात्कालिकस्फुट दृष्टिस्तु“अपास्य पश्यं निजदृश्यखेटादेकादिशेषे ध्रुवलिप्तिकाःस्युः । शून्यं स्ववेदास्तिथयोऽक्षवेदाःखं षष्टिरभ्रं शरवे-दसंख्या । तिथ्यभ्रचन्द्रावियदभ्रतर्काः शेषांशयातैष्यविशेष-घातात् । लब्धैः खराभैरधिकोगतैष्ये स्वर्णं ध्रुवैताःस्फुटदृष्टिलिप्ताः” नी० ता० उक्तया दिशा आनेया ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
