| YouTube Channel

ग्रहणी (grahaNI)

 
Spoken Sanskrit
English
ग्रहणी grahaNI
f.
imaginary organ supposed to lie between the stomach and the intestines
Monier Williams Cologne
English
ग्र॑हणी a
f.
an imaginary organ supposed to lie between the stomach and the intestines (the small intestines or that part of the alimentary canal where the bile assists digestion and from which vital warmth is said to be diffused),
Suśr.
=
°णी-गद, Aṣṭāṅg. iii, 8
Hcat.
i, 7
ग्रहणी b
f.
of °ण, q.v.
Benfey
English
ग्रहणी ग्रहणी, i. e. ग्रहण + ई,
f.
An organ of the belly, Suśr. 2, 443, 12.
Apte Hindi
Hindi
ग्रहणी
स्त्री*
- ग्रहणि - ङीष्
"अतिसार, पेचिश"
Shabdartha Kaustubha
Kannada
ग्रहणि(णी)
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪಿತ್ತಧರೆಯೆಂಬ ಒಂದು ಕಲೆ
ग्रहणि(णी)
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪಿತ್ತಾಶಯದಲ್ಲಿ ಉಂಟಾಗುವ ಒಂದು ರೋಗ
व्युत्पत्तिः - > गृह्णाति रोगिणो देहम्
L R Vaidya
English
grahaRI {% f. %} Diarrhœa, dysentery.
Edgerton Buddhist Hybrid
English
grahaṇī (Skt. only as n. of an imaginary abdominal organ
Pali gahaṇī app. more loosely used, cf. saṃsuddhagahaṇika, of pure womb or origin
DN comm. 〔i.281.10〕 mātu-gahaṇī kucchīti attho), (belly, womb
) interior (like Skt. garbha): in SP 〔239.3〕 (prose) read pañcabhiḥ puṣpagrahaṇī-(so with Kashgar rec. and 3 Nep. mss., ed. °ṇīya)-vedikā-sahasraiḥ svabhyalaṃkṛto (stūpaḥ), adorned with 5000 balconies filled with (containing
Tib. bkram pa, besprinkled with) flowers.
Wordnet
Sanskrit
Synonyms:
अतिसारः, अन्नगन्धिः, अतीसारः, आमातिसारः, सारणः, प्रवाहिका, ग्रहणी, विरेकः, आमरक्तः, उदरामयः
noun
सोदरपीडया बहुद्रवमलनिःसरणरोगः।
"सा अतिसारेण पीडिता।"
अभिधानचिन्तामणिः
Sanskrit
--source--
आनाहस्तु विबन्धः स्याद्ग्रहणी रुक्प्रवाहिका
-wordlist-
आनाह (पुं), विबन्ध (पुं), ग्रहणी (स्त्री), प्रवाहिका (स्त्री)
शब्दकल्पद्रुमः
Sanskrit
ग्रहणी,
स्त्री,
(ग्रहणि + “कृदिकारान्तादक्तिनः ।”इति ङीष् ।) अग्न्यधिष्ठाननाडी स्वनाम-ख्यातरोगः तस्य निदानसम्पाप्ती यथा, --“अतीसारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः ।भूयः सन्दूषितो वह्निर्ग्रहणीमपि दूषयेत्
एकैकशः सर्व्वशश्च दोषैरत्यर्थमूर्च्छितैः ।सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति
पक्वं वा सरुजं पूति मुहुर्ब्बद्धं मुहुर्द्रवम् ।ग्रहलीरोगमाहुस्तमायुर्व्वेदविदो जनाः
*
तस्य पूर्व्वरूपं यथा, --“पूर्व्वरूपन्तु तस्येदं तृष्णालस्यं बलक्षयः ।विदाहोऽन्नस्य पाकश्च चिरात् कायस्य गौरवम्
”तस्य वातिकस्य निदानरूपे ।“कटुतिक्तकषायातिरूक्षसन्दुष्टभोजनैः ।पसितानशनात्यध्ववेगनिग्रहमैथुनैः
मारुतः कुपितो वह्निं संछाद्य कुरुते गदान्- ।तम्यान्नं पच्यते दुःखं शुक्तपाकं खराङ्गता
कण्ठास्यशोषः क्षुत् तृष्णा तिमिरं कर्णयोः स्वनः ।पार्श्वोरुवङ्क्षणग्नीवारुगभीक्ष्णं विसूचिका
हृत्पीडाकार्श्यदौर्ब्बल्यं वैरस्यं परिकर्त्तिका ।गृद्धिः सर्व्वरसानाञ्च मनसः सदनं तथा
जीर्णे जीर्य्यति चाध्मानं भुक्ते स्वास्थ्यमुपैति ।स वातगुल्महृद्रोगप्लीहाशङ्की मानवः
चिराद्दुःखं द्रवं शुष्कं तन्वामं शब्दफेनवत् ।पुनः पुनः सृजेद्वर्च्चः श्वासकासार्द्दितोऽनिलात्
”पैत्तिकस्य तस्य निदानरूपे ।“कट्वजीर्णविदाह्याम्लक्षाराद्यैः पित्तमुल्वणम् ।आप्लावयद्धन्त्यनलं जलं तप्तमिवानलम्
सोऽजीर्णं नीलपीताभं पीताभः सार्य्यते द्रवम् ।पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्द्दितः
”श्लैष्मिकस्य तस्य निदानरूपे ।“गुर्व्वतिस्निग्धशीतादिभोजनादतिभोजनात् ।भुक्तमात्रस्य स्वप्नाद्धन्त्यग्निं कुपितः कफः
तस्यान्नं पच्यते दुःखं हृल्लासच्छर्द्यरोचकाः ।आस्योपदेहमाधुर्य्यकासष्ठीवनपीनसाः
हृदयं मन्यते स्त्यानसुदरं स्तिमितं गुरु ।दुष्टो मधुर उद्गारः सदनं स्त्रीष्वहर्षणम्
भिन्नामश्लेष्मसं सृष्टगुरुवर्च्चःप्रवर्त्तनम् ।अकृशस्यापि दौर्ब्बल्यमालस्यञ्च कफात्मके
पृथग्वांतादिनिर्द्दिष्टं हेतुलिङ्गसमागमे ।त्रिदोषं निर्दिशेदेवं तेषां वक्ष्यामि भेषजम्
”तस्यासाध्यस्य लक्षणं यथा, --“लिङ्गैरसाध्यग्रहणीविकारोयैस्तैरतीसारगदो सिध्येत् ।वृद्धस्य नूनं ग्रहणीविकारोहत्वा तनुं नो विनिवर्त्तते
”इति माधवकरः
तस्य चिकित्सा यथा, गारुडे १७४ अध्याये ।“चिकित्साथ ग्रहण्यास्तु ग्रहणी चाग्निनाशिनी ।चित्रकक्वाथकल्काभ्यां ग्रहणीघ्नं शृतं हविः
*
हरिरुवाच ।“मरीचं शृंङ्गवेरञ्च कुटजत्वचमेव ।पानाच्च ग्रहणी नश्येत् शशाङ्ककृतशेखर !
”इति तत्रैव १८७ अध्यायः
“अङ्कोठमूलकर्षार्द्धं पिष्टं तण्डुलवारिणा ।सर्व्वातीसारग्रहणीं पीतं हरति भूतप !
मरीचशुण्ठीकुटजत्वक्चूर्णन्तु गुडान्वितम् ।क्रमात्तत् द्विगुणं पीतं ग्रहणीव्याधिनाशनम्
”इति तत्रैव १८९ अध्यायः
*
अथ सामान्यग्रहणीरोगस्य चिकित्सा ।“ग्रहणीमाश्रितं रोगमजीर्णवदुपाचरेत् ।लङ्घनैर्द्दीपनीयैश्च सदातीसारभेषजैः
दोषं सामं निरामञ्च विद्यादत्रातिसारवत् ।अतीसारोक्तविधिना तस्यामञ्च विपाचयेत्
पेयादिपटुलघ्वन्नं पञ्चकोलादिभिर्युतम् ।दीपनानि तक्रञ्च ग्रहण्यां योजयेद्भिषक्
कपित्थविल्वचाङ्गेरीतक्रदाडिमसाधिता ।यवागूः पाचयत्यामं शकृत् संवर्त्तयत्यपि
”सं वर्त्तयति घनीकरोति
*
अथ तक्रम् तत्र गोदघिगुणाः ।“गव्यं दध्युत्तमं बल्यं पाके स्वादु रुचिप्रदम् ।पवित्रं दीपनं स्निग्धं पुष्टिकृत् पवनापहम्
उक्तं दध्नामशेषाणां मध्ये गव्यं गुणाधिकम्
”अथ महिषीदधिगुणाः ।“माहिषं दधि सुस्निग्धं श्लेष्मलं वातपित्तनुत् ।स्वादुपाकमभिष्यन्दि वृष्यं गुर्व्वस्र दूषणम्
”अथ छागीदधिगुणाः ।“आजं दध्युत्तमं ग्राहि लघु दोषत्रयापहम् ।शस्यते श्वासकासार्शः-क्षयकार्श्येषु दीपनम्
”उत्तमं ग्राहिणां मध्ये श्रेष्ठं इत्यर्थः
अथ तक्रस्य भेदाः ।“तक्रन्तु घोलमथितोदश्वित्तक्रप्रभेदतः ।सुश्रुताद्यैर्मुनिश्रेष्ठैश्चतुर्द्धा परिकीर्त्तितम्
ससरं निर्ज्जलं घोलं मथितन्त्वसरोदकम् ।तक्रं पादजलं प्रोक्तमुदश्विच्चार्द्धवारिकम्
वातपित्तहरं घोलं मथितं कफपित्तनुत् ।उदश्वित् कफदं बल्यं श्रमघ्नं परमं मतम्
”अथ तक्रस्य गुणाः ।“तक्रं ग्राहि कषायाम्लं मधुरं दीपनं लघु ।वीर्य्योष्णं बलदं वृष्यं प्रीणनं वातनाशनम्
यान्युक्तानि दधीन्यष्टौ तद्गुणं तक्रमादिशेत् ।ग्रहण्यादिमतं तक्रं पथ्यं संग्राहि लाघवात्
वातघ्नमम्लसान्द्रत्वात् सद्यस्कं त्वविदाहि ।किञ्च स्वादु विपाकित्वान्न पित्तप्रकोपणम्
कषायोष्णविकारित्वाद्रौक्ष्याच्चैव कफे हितम्
”अथोद्धृतस्तोकोद्धृतानुद्धृतघृतस्य तक्रस्य गुणाः“समुद्धृतघृत तक्रं पथ्यं लघु विशेषतः ।स्तोकोद्धृतघृतं तस्माद्गुरु वृष्यं कफापहम्
अनुद्धतघृतं सान्द्रं गुरु पुष्टिकफप्रदम्
”अथ दोषविशेषे तक्रविशेषाः ।“वातेऽम्लसैन्धवोपेतं पित्ते स्वादु सशर्करम् ।पिबेत्तक्रं कफे चापि क्षारत्रिकटुसंयुतम्
हिङ्गुजीरयुतं घोलं सैन्धवेनावधूलितम् ।ग्रहण्यर्शोऽतिसारघ्नं भवेद्वातहरं परम्
रोचनं पुष्टिदं बल्यं वस्तिशूलविनाशनम्
”अथामपक्वतक्रगुणाः ।“तक्रमामं कफं कोष्ठे हन्ति कण्ठे करोति ।पीनसश्वासकासादौ पक्वमेव विशिष्यते
*
अथ तक्रस्य निषेधः ।“नैव तक्रं क्षते दद्यान्नोष्णकाले दुर्ब्बले ।न मूर्च्छाभ्रमदाहेषु रोगे रक्तपैत्तिके
*
अथ तक्रस्य गुणोत्कर्षः ।“न तक्रसेवी व्यथते कदाचि-न्न तक्रदग्धाः प्रभवन्ति रोगाः ।यथा सुराणाममृतं सुखायतथा नराणां भुवि तक्रमाहुः
*
“मुद्गयूषं रसं तक्रं धान्यजीरकसंयुतम् ।सैन्धवेनान्वितं दद्यात् षड्यूषमिति कीर्त्तितम्
”रसं लघु ग्राहि मांसभवरसम् इति षड्यूषम्
“कर्षं गन्धमर्द्धपारदमुमे कुर्य्याच्छुभां कज्जलींत्र्यक्षं त्रूषणतश्च पञ्चलवणं सार्द्धञ्च कर्षं पृथक् ।भृष्टं हिङ्गु जीरकद्वययुतं सर्व्वार्द्धभङ्गान्बितंखादेट्टङ्कमितं प्रवृत्तिगदवांस्तक्रस्य विल्वेन
”इति लघुलाईचूर्णम्
*
“त्रिकटु त्रिफला चैव विडङ्गं जीरकद्वयम् ।भल्लातकं यमानी हिङ्गु लवणपञ्चकम्
गृहधूमवचाकुष्ठं रसगन्धकमभ्रकम् ।क्षारत्रयाजमोदा त्त चित्रकं गजपिप्पली
मुस्ता मोचरसं पाठा लवङ्गं जातिपत्रकम् ।समभागकृतञ्चैषां चूर्णं श्लक्ष्णं विनिर्म्मितम्
शक्राशनस्य चूर्णन्तु चूर्णतुल्यं प्रदापयेत्
मन्दाग्निकासदुर्न्नामप्लीहपाण्डरुचिज्वरान् ।विष्टम्भं संग्रहं शूलं हन्यान्नानातिसारजित्
आमवातापहं बल्यं सूतिकादोषनांशनम् ।वर्ज्जनीयं माषमम्लं स्नानं पिशितभोजनम्
पथ्यं काञ्जिकमत्रापि दधि तक्रमथापि वा ।बृहल्लाईचूर्णमिदं लाईभाषितमुत्तमम्
”इति बृहल्लाईचूर्णम्
*
“जातीफललवङ्गैलापत्रत्वङ्नागकेशरैः ।कर्पूरचन्दनतिलत्वक्क्षीरीतगरामलैः
तालीसपिप्पलीपथ्यास्थूलजीरकचित्रकैः ।शुण्ठीविडङ्गमरिचैः समभागविचूर्णितैः
यावन्त्येतानि सर्व्वाणि दद्याद्भङ्गां तावतीम् ।सर्व्वचूर्णसमानांशा प्रदेया शुभ्रशर्करा
कर्षमात्रमिदं खादेन्मधुनाप्लावितं जनः ।नाशयेत् ग्रहणीं कासं क्षयं श्वासमरोचकम्
”इति जातीफलादिचूर्णम्
*
“चित्रकं पिप्पलीमूलं क्षारौलवणपञ्चकम् ।ओषं हिङ्ग्वजमोदाञ्च चव्यं चैकत्र चूर्णयेत्
वटिका मातुलुङ्गस्य रसैर्व्वा दाडिमस्य वा ।कृता विपाचयत्यामं प्रदीपयति चानलम्
”क्षारौ स्वर्ज्जिका यवक्षारश्च लवणपञ्चकमितिसैन्धवं रुचकं चैव विडं सामुद्रिकं गडमिति ।व्योषं शुण्ठीपिप्पलीमरिचानि अजमोदात्रयवानिका मातुलुङ्गं बीजपूरकम् इतिचित्रकादिवटिका
*
“श्रीफलशलाटुः कल्को नागरचूर्णेन मिश्रितः सगुडः ।ग्रहणीगदमत्युग्रं तक्रभुजा शीलितो जयति
”श्रीफलशलाटुः विल्वस्यामं फलम् गुडस्यात्रभागद्वयम् इति विल्वकल्कः
*
“चतुष्पलं सुधाकाण्डं त्रिपलं लवणत्रयम् ।वार्त्ताकोः कुडवञ्चार्कमूलाद्विल्वे तथानलात्
दग्ध्वा द्रवेण वार्त्ताकोर्गुटिका भोजनोत्तरम् ।भुक्ता भुक्तं पचत्याशु नाशयेद्ग्रहणीगदम्
कासं श्वासं तथार्शांसि विसूचीञ्च हृदामयम्
”इति वार्त्ताकुगुटिका
*
“मुस्तकातिविषाविल्वकौटजं सूक्ष्मचूर्णितम् ।मधुना समालौढं ग्रहणीं सर्व्वजां जयेत्
”कोटजं इन्द्रयवः इति मुस्तकादिचूर्णम्
*
“श्वेतो वा यदि वा रक्तः सुपक्वो ग्रहणीगदः ।गुडेनाधिकसर्ज्जेन भक्षितेनाशु नश्यति
”सर्ज्जः राल इति लोके इति सर्ज्जरसचूर्णम्
*
“विल्वाब्दशक्रयवबालकमोचसिद्ध-माजं पयः पिबति यो दिवसत्रयेण ।सोऽतिप्रवृद्धचिरजग्रहणीविकारंसामं सशोणितमसाध्यमपि क्षिणोति
”मोचो मीचरसः क्षिणोति हन्ति ।“प्रस्थत्रये त्वामलकीरसस्यशुद्धस्य दत्त्वार्द्धतुलां गुडस्य ।चूर्णीकृतैर्ग्रन्थिकजीरचव्य-व्योषेभकृष्णाहवुषाजमोदैः
विडङ्गसिन्धूत्रिफलायवानी-पाठाग्निधान्यैश्च पलप्रमाणैः ।दत्त्वा त्रिवृच्चूर्णपलानि चाष्टा-वष्टौ तैलस्य पचेद्यथावत्
तं भक्षयेदक्षफलप्रमाणंयथेष्टचेष्टस्त्रिसुगन्धियुक्तम् ।अनेन सर्व्वे ग्रहणीविकाराःसश्वासकासस्वरभेदशोथाः
शाम्यन्ति चायं चिरमन्तरग्ने-र्हतस्य पुंस्त्वस्य वृद्धिहेतुः ।स्त्रीणान्तु बन्ध्यामयनाशनः स्यात्कल्याणको नाम गुडः प्रसिद्धः
त्नैले मनाक् त्रिवृद्भृष्टा त्रिसुगन्धि पलं पलम् ।सिद्धे निधेयमत्रैव गुडे कल्याणपूर्व्वके
”इति कल्याणगुडः
*
“पिप्पली पिप्पलीमूलं चित्रकं गजपिप्पली ।त्रिफला चाजमोदा नलिनी जीरकस्तथा ।सैन्धवं रौमकञ्चापि सामुद्रं रुचकं विडम्
आरग्बधश्च त्वक्पत्रं सूक्ष्मैला चोपकुञ्चिका ।शुण्ठीशक्रयवाश्चैव प्रत्येकं कर्षसम्मिताः
मृद्वीकायाः पलान्यत्र चत्वारि कथितानि हि ।त्रिवृतायाः पलान्यष्टौ गुडस्यार्द्धतुला तथा
तिलतैलपलान्यष्टावामलक्या रसस्य तु ।प्रस्थत्रयमिदं सर्व्वं शनैर्मृद्वग्निना पचेत्
औडम्बरं चामलकं वादरं वा यथाफलम् ।तावन्मात्रमिदं खादेद्भक्षयेद् वा यथानलम्
निखिलान् ग्रहणीरोगान् प्रमेहांश्चैव विंशतिम् ।उरोघातं प्रतिश्यायं दौर्ब्बल्यं वह्निसंक्षयम्
ज्वरानपि हरेत् सर्व्वान् कुर्य्यात् कान्तिं मतिंस्वरम् ।पिचुपाठान्वयाद्धन्ति रक्तपित्तञ्च विग्रहम्
धातुक्षीणो वयःक्षीणः स्त्रीषु क्षीणः क्षयी यः ।तेभ्यो हितश्च बन्ध्यायै महाकल्याणको गुडः
”इति महाकल्याणकगुडः
*
“कुष्माण्डानां सुपक्वानां स्विन्नानां निष्कुल-त्वचाम् ।सर्पिः प्रस्थे पलशतं ताम्रपात्रे शनैः पचेत्
पिप्पली पिप्पलीमूलं चित्रकं गजपिप्पली ।धान्यकानि विडङ्गानि नागरं मरिचानि
त्रिफला चाजमोदा कलिङ्गाजाजिसैन्धवम् ।एकैकस्य पलं चैकं त्रिवृतोऽष्टौ पलानि
तैलस्य पलान्यष्टौ गुडात् पञ्चाशदेव तु ।आमलक्या रसस्यात्र प्रस्थत्रयमुदीरितम्
तावत् पाकं प्रकुर्व्वीत मृदुना वह्निना भिषक् ।यावत् दर्व्वीप्रलेपः स्यात्तदैनमवतारयेत्
औडुम्बरं चामलकं वादरं वा यथाफलम् ।तावन्मात्रमिदं खादेद्भक्षयेद्वा यथानलम्
अनेनैव विधानेन प्रयुक्तश्च दिने दिने ।निहन्ति ग्रहणीरोगान् कुष्ठान्यर्शोभगन्दरान्
ज्वरमानाहहृद्रोगगुल्मोदरविसूचिकाः ।कामलां पाण्डुरोगञ्च प्रमेहांश्चैव विंशतिम्
वातशोणितवीसर्पदद्रुपक्ष्महलीमकान् ।वातपित्तकफान् सर्व्वान् दुष्टान् शुद्धान् समा-चरेत्
व्याधिक्षीणा वक्षःक्षीणाः स्त्रीषु क्षीणाश्च येनराः ।तेभ्यो हितो गुडोऽयं स्यात् बन्ध्यानामपि पुत्त्रदः
वृष्यो बल्यो बृंहणश्च वयसः स्थापनः परः
”इति कुष्माण्डकल्याणकगुडः
*
अतीसाराधिकारलिखितं विल्वतैलं चात्रहितम् इति ग्रहणीरोगाधिकारः इतिभावप्रकाशः
(सनिदानलक्षणादिकं चिकित्-सितञ्चास्य यथा, --“सामं सान्नमर्जीर्णेऽन्ने जीर्णे पक्वन्तु नैव वा ।अकस्माद्वा मुहुर्बद्धमकस्माच्छिथिलं मुहुः
चिरकृद्ग्रहणीदोषः सञ्चयाच्चोपवेशयेत् ।स चतुर्धा पृथग् दोषैः सन्निपाताच्च जायते
प्राग्रूपं तस्य सदनं चिरात् पचनमम्लकः ।प्रसेको वक्त्रवैरस्य मरुचिस्तृट्क्लमो भ्रमः
आनद्धोदरता च्छर्द्दिः कर्णक्ष्वेडोऽन्त्रकूजनम् ।सामान्यं लक्षणं कार्श्यं धूमकस्तमको ज्वरः
मूर्च्छा शिरोरुग्विष्टम्भः श्वयथुः करपादयोः ।तत्रानिलात्तालुशोषस्तिमिरं कर्णयोः स्वनः
पार्श्वोरुवङ्क्षणग्रीवारुजाभीक्ष्णं विसूचिका ।रसेषु गृद्धिः सर्व्वेषु क्षुत्तृष्णा परिकर्त्तिका
जीण जीर्य्यति चाध्मानं भुक्ते स्वास्थ्यं समश्नुते ।वातहृद्रोगगुल्मार्शः प्लीहपाण्डुत्वशङ्कितः
चिराद्दुःखं द्रवं शुष्कं तन्वामं शब्दफेनवत् ।पुनः पुनः सृजेद्वर्च्चः पायुरुक् श्वासकासवान्
पित्तेन नीलं पीताभं पीताभः सृजति द्रवम् ।पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्द्दितः
श्लेष्मणा पच्यते दुःखमन्नं छर्द्धिररोचकः ।आस्योपदेहनिष्ठीवकासहृल्लासपीनसाः
हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु ।उद्गारा दुष्टमधुरः सदनं स्त्रीष्वहषणम्
भिन्नामश्लष्मसंसृष्टगुरुवर्च्चःप्रवर्त्तनम् ।अकृशस्यापि दौर्ब्बल्यं सर्व्वजे सर्व्वसङ्करः
विभागेऽङ्गस्य ये चोक्ता विषमाद्यास्त्रयोऽग्नयः ।तेऽपि स्युर्ग्रहणीदोषाः समस्तु स्वास्थ्यकारणम्
वातव्याध्यश्मरीकुष्ठमेहोदरभगन्दराः ।अर्शांसि ग्रहणीत्यष्टौ महारोगाः सुदुस्तराः
”इति वाभटे निदानस्थानेऽष्टमेऽध्याये
चिकित्सास्या यथा, --“ग्रहणीमाश्रितं दोषमजीर्णवदुपाचरेत् ।अतीसारोक्तविधिना तस्यामञ्च विपाचयेत्
अन्नकाले यवाग्वादिपञ्चकोलादिभिर्युतम् ।वितरेत् पटुलघ्नन्नं पुनर्योगांश्च दीपनान्
दद्यात् सातिविषां पेयामामे साम्लां सनागराम् ।पानेऽतिसारविहितं वारितक्रं सुरादि
ग्रहणीदोषिणां तक्रं दीपनग्राहि लाघवात् ।पथ्यं मधुरपाकित्वान्न पित्तप्रदूषणम्
कषायोष्णविकाशित्वाद्रूक्षत्वांच्च कफे हितम् ।वातेस्वाद्वम्लसान्द्रत्वात् सद्यस्कमविदाहि तत्
”“क्षीणक्षामशरीरस्य दीपनं स्नेहसंयुतम् ।दीपनं बहुपित्तस्य तिक्तैर्मधुरकैर्युतम्
स्नेहोऽम्ललवणैर्युक्तो बहुवातस्य शस्यते ।स्नेहमेव परं विद्याद्दुर्ब्बलानलदीपनम्
नालं स्नेहसमिद्धस्य शमायान्नं सुगुर्व्वपि ।योऽल्पाग्नित्वात् कफे क्षीणे वर्च्चः पक्वमपि श्लथम्
मुञ्चेद्यद्वौषधयुतं पिवेदल्पशो घृतम् ।तेन स्वमार्गमानीतः स्वकर्म्मणि नियोजितः
समानो दीपयत्यग्निमग्नेः सन्धुक्षको हि सः ।पुरीषं यश्च कृच्छ्रेण कठिनत्वाद्विमुञ्चति
घृतं लवणैर्युक्तं नरोऽन्नावग्रहं पिबेत् ।रौक्ष्यान्मन्देऽनले सर्पिस्तैलं वा दीपनैः पिबेत्
क्षारचूर्णासवारिष्टान् मन्दे स्नेहातिपानतः ।उदावर्त्तात् प्रयोक्तव्या निरूहस्नेहवस्तयः
दोषातिवृद्ध्या मन्देऽग्नौ संशुद्धोऽन्नविधिञ्चरेत् ।व्याधिमुक्तस्य मन्देऽग्नौ सर्पिरेव तु दीपनम्
अध्वोपवासक्षामत्वे यवाग्वा पाययेद्घृतम् ।अन्नावपीडितं बल्यं दीपनं बृंहणञ्च तत्
दीर्घकालप्रसङ्गात्तु क्षामक्षीणकृशान्नरान् ।प्रसहानां रसैः साम्लैर्भोजयेत् पिशिताशिनाम्
लघूष्णकटुशीधित्वाद्दीपयन्त्याशु तेऽनलम् ।मांसोपचितमांसत्वात् परञ्च बलवर्द्धनम्
स्नेहासवसुरारिष्टचूर्णक्वाथहिताशनैः ।सम्यक्प्रयुक्तैर्देहस्य बलमग्नेश्च वर्द्धते
दीप्तो यथैव स्थाणुश्च वाह्योऽग्निः सारदारुभिः ।सस्नेहैर्जायते तद्वदाहारैः कोष्ठकोऽनलः
भोजनेन कायाग्निर्दीप्यते नातिभोजनात् ।यथा निरिन्धनो वह्निरल्पो वातीन्धनान्वितः
यदा क्षीणे कफे पित्तं स्वस्थाने पवनानुगम् ।प्रवृद्धं वर्द्धयत्यग्निं तदासौ सानिलोऽनलः
”इति वाभटे चिकित्सास्थाने दशमेऽध्याये
अपरं सकारणलक्षणचिकित्सितं यथा, --“दुष्यति ग्रहणी जन्तोरग्निसादनहेतुभिः ।अतिसारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः
भूयः सन्दूषितो वह्निर्ग्रहणीमभिदूषयेत् ।तस्मात् कार्य्यः परीहारस्त्वतीसारे विरक्तिवत्
यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा ।षष्ठी पित्तधरा नाम या कला परिकीर्त्तिता
पक्वामाशयमध्यस्था ग्रहणी सा प्रकीर्त्तिता ।ग्रहण्या बलमग्निर्हि चापि ग्रहणीश्रितः
तस्मात् सन्दूषिते वह्नौ ग्रहणी सम्प्रदुष्यति ।तस्योत्पत्तौ विदाहान्ने सदनालस्यतृट्क्लमाः
बलक्षयोऽरुचिः कासः कर्णक्ष्वेडान्त्रकूजनम् ।अथ जाते भवेज्जन्तुः शूलपादकरः कृशः
पर्व्वरुग्लौल्यतृट्छर्द्दिज्वरारोचकदाहवान् ।उद्गिरेच्छुक्ततिक्ताम्ललोहधूममगन्धिकम्
प्रसेकमुखवैरस्य तमकारुचिपीडितः ।वाताच्छूलाधिकैः पायुहृत्पार्श्वोदरमस्तकैः
पित्तात् सदाहैर्गुरुभिः कफात्त्रिभिस्त्रिलक्षणैः ।दोषवर्णनखैस्तद्बद्बिण्मूत्रनयनाननैः
हृत्पाण्डूदरगुल्मार्शःप्लीहाशङ्की मानवः ।यथा दोषोच्छ्रयन्तस्य विशुद्धस्य यथाक्रमम्
पेयादिं वितरेत् सम्यग् दीपनीयोपसम्भृतम् ।ततः पाचनसंग्राहि दीपनीयगणत्रयम्
पिबेत् प्रातः सुरारिष्टस्नेहमूत्रसुखाम्बुभिः ।तक्रेण वाथ तक्रं वा केवलं हितमुच्यते
कृमिगुल्मोदरार्शोघ्नीः क्रियाश्चात्रावचारयेत् ।चूर्णं हिङ्ग्वादिकञ्चात्र घृतं वा प्लीहनाशनम्
कल्केन मगधादेश्च चाङ्गेरीस्वरसेन वा ।चतुर्गुणेन दध्ना घृतं सिद्धं हितं भवेत्
सर्व्वथा दीपनं सर्व्वं ग्रहणीरोगिणां हितम्
ज्वरादीनविरोधाच्च साधयेत्स्वैश्चिकित्सितैः
”इति सुश्रुते उत्तरतन्त्रे चत्वारिंशत्तमेऽध्याये
)
वाचस्पत्यम्
Sanskrit
ग्रह(णि)णी स्त्री गृह्णाति रोगिणोदेहम् ग्रह--अनि वाङीप् पित्तधराख्ये कलाभेदे तदाश्रिते रोगभेदेग्रवाहिकायां तद्रोगस्थाननिदानाद्युक्तं सुश्रुते यथा“दुष्यति ग्रहणी जन्तोरग्निसादनहतुभिः अति-सारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः भूयः सन्दू-षितो वह्निर्ग्रहणीमभिदूषयेत् तस्मात्कार्य्यः परी-हारस्त्वतीसारे विरिक्तवत् यावन्न प्रकृतिस्थः स्याद्दोषतःप्राणतस्तथा षष्ठी पित्तधरा नाम या कला परिकी-र्त्तिता पक्वामाशयमध्यस्था ग्रहणी सा प्रकीर्त्तिता ।ग्रहण्यां बलमग्निर्हि चापि ग्रहणीश्रितः तस्मा-त्संदूषिते वह्नौ ग्रहणी सम्प्रदुष्यति एकशः सर्वशश्चैवदोषैरत्यर्थमूर्च्छितैः सा दुष्टा बहुशोभुक्तमाममेव विमु-ञ्चति पक्वं वा सरुजं पूति मुहुर्ब्बद्धं मुहुर्द्रवम् ग्रहणी-रोगमाहुस्तमायुर्वेदविदो जनाः तस्योत्पत्तौ विदाहान्न-सदनालस्यतृट्क्लमाः बलक्षयोऽरुचिः कासः कर्णक्ष्वेडा-न्त्रकूजनम् अथ जाते भवेज्जन्तुः शूनपादकरः कृशः ।पर्व्वरुग्लौल्यतृट्छर्दिज्वरारोचकदाहबान् उद्गिरे-च्छुक्ततिक्ताम्ललोहधूमामगन्धिकम् प्रसेकमुखवैरस्यतम-कारुचिपीडितः वाताच्छूनाधिकैः पायुहृत्पार्श्वोदरम-स्तकैः पित्तात्सदाहैर्गुरुभिः कफात्त्रिभिस्त्रिलक्षणैः ।दोषवर्ण्णनखैस्तद्वद्विण्मूत्रनयनाननैः हृत्पाण्डूदरगुल्मार्शःप्लीहाशङ्की मानवः” ।“नानाविधद्रव्यचौरो जायते ग्रहणीयुतः” शाता० तस्याःकर्मभेदविपाकतोक्ता तस्या महारोगत्वमदाह्यशब्दे उक्तम्“वृद्धस्य ग्रहणीरोगो नागृहीत्वा निवर्त्तते” वैद्य०