ग्रहणं (grahaNaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte 1890
Englishग्रहणं [ग्रह् भावे ल्युट्] 1 Seizing, catching, seizure
श्वा मृगग्रहणेऽशुचिः Ms. 5. 130.
2 Receiving, accepting, taking
आचारधूमग्रहणात् R. 7. 27.
3 Mentioning, uttering
नामग्रहणं.
4 Wearing, putting on
सोत्तरच्छदमध्यास्त नेपथ्यग्रहणाय सः R. 17. 21.
5 An eclipse: Y. 1. 218.
6 Understanding, comprehension, knowledge
न परेषां ग्रहणस्य गोचरां N. 2. 95.
7 Learning, acquiring, grasping mentally, mastering
लिपंर्यथावद्ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रमाविशत् R. 3. 28.
8 Taking up of sound, echo
अद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयंथाः Me. 44.
9 The hand.
10 An organ of sense.
11 A prisoner, captive.
12 Taking by the hand, marrying.
13 Taking captive, imprisonment.
14 Gaining, obtaining, purchasing
15 Choosing.
16 Taking or drawing up.
17 Attraction.
18 Containing, enclosing.
19 Undertaking, undergoing.
20 Service.
21 Mentioning with praise, respecting.
22 Acceptation, meaning.
23 Assent, agreement.
24 Inviting, calling, addressing.
Comp.
अतः close of study.
शब्दकल्पद्रुमः
Sanskritग्रहणं, (गृह्यते इति । ग्रह् + भावे ल्युट् ।)स्वीकारः । (यथा, हे रामायणे । १ । ६६ । १९ ।“नशेकुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा ॥
”आदरः । करः । उपलब्धिः । (यथा, रधुः ।३ । २८ ।“स वृत्तचूलश्चलकाकपक्षकैःअमात्यपुत्त्रैः सवयोभिरन्वितः ।लिपेर्यथावद्ग्रहणेन वाङ्मयंनदीमुखेनेव समुद्रमाविशत् ॥
”)बन्दी । उपरागः । इति मेदिनी । णे ४५ ॥
(गृह्यन्ते विषयाः येन । ग्रह + करणे ल्युट् ।)इन्द्रियम् । इति राजनिर्घण्टः ॥
शब्दः । इतिजटाधरः ॥
अथ सूर्य्यचन्द्रग्रहणकारणं यथा, --“भत्रिपादान्तरे राहोः केतोर्व्वा संस्थितो रविः ।चतुष्पादान्तरे चन्द्रस्तदा सम्भाव्यते ग्रहः ॥
यम्मिन्नृक्षे रविस्तस्माच्चतुर्द्दशगतः शशी ।पूर्णिमापतिपत्मन्धौ राहुणा ग्रस्यते शशी ॥
कृष्णपक्षे तृतीयायां मामर्क्षं यदि जायते ।ततस्त्रयोदशे सूर्य्यो राहुणा ग्रस्यते रविः ॥
” * ॥
ग्रहणकालीनरविचन्द्रयोर्मेघेनाच्छादनाच्छादन-कारणं यथा, --“रविभौमनवांशे तु निरभ्रं ग्रासमादिशेत् ।बुधसौरिनवांशे तु मलिनं क्षुद्रवर्षणम् ॥
गुरोरंशकमासाद्य दृश्यते सवलाहकः ।शशिशुक्रनवांशे तु प्रावृट्काले महज्जलम् ।अन्यत्राव्यक्तभूतौ तौदृश्येते छादिताम्बरौ ॥
” * ॥
राहोर्वर्णविशेषे शुभाशुभं यथा, (बृहत् संहि-तायाम् । ५ । ५३-५८ ।)“श्वेते क्षेमसुभिक्षं ब्राह्मणपीडाञ्चनिर्द्दिशेद्राहौ ।अग्निभयमनलवर्णे पीडा च हुताशवृत्तीनाम् ॥
हारिते रोगोल्वणता शस्यानामीतितश्च विध्वंसः ।कपिले शीघ्रगसत्वस्नेहविध्वंसोऽथ दुर्भिक्षम् ॥
अरुणकिरणानुरूपे दुर्भिक्षं वृष्टयो विहगपीडा ।धूम्राभे क्षेमसुभिक्षमादिशेन्मन्दवृष्टिञ्च ॥
कापोतारुणकपिले श्यामाभे क्षुद्भयं विनिर्द्दिशेत् ।कापोतः शूद्राणां व्याधिकरः कृष्णवर्णश्च ॥
विमलकमलपीताभो वैश्यध्वंसी भवेत् सुभि-क्षाय ।सार्च्चिष्मत्यग्निभयं गैरिकरूपे च युद्धानि ॥
दूर्व्वाकाण्डश्यामे हारिद्रे वापि निर्द्दिशेन्मरकम् ।अशनिभयसम्प्रदायी पाटलकुसुमोपमो राहुः ॥
”तद्दर्शननिषेधो यथा, --“सप्ताष्टजन्मशेषेषु चतुर्थे दशमे तथा ।नवमे च तथा चन्द्रे न कुर्य्याद्राहुदर्शनम् ॥
जन्मभे जन्मराशौ च षष्ठाष्टमगते तयोः ।चतुर्थे द्वादशे चन्द्रे न कुर्य्याद्राहुदर्शनम् ॥
ग्रासदर्शनमात्रेण चार्थहानिर्म्महद्भयम् ।जायते नात्र सन्देहस्तस्मात्तत्परिवर्जयेत् ॥
विपत्करप्रत्यरिसंज्ञितेषुवैनाशिकर्क्षेषु कृतं हि कर्म्म ।सर्व्वं नृणां निष्फलमेव यस्मात्कृतेऽपि तत्रास्ति शुभं न किञ्चित् ॥
”तत्र कर्त्तव्यं कर्म्म यथा, --“एकरात्रमुपोष्यैव राहुं दृष्ट्वा क्षयं नरः ।पुण्यमाप्नोति कृत्वा च स्नानं श्राद्धं विधानतः ॥
आदित्यकिरणैः पूतं पुनः पूतञ्च वह्निना ।जलं व्याध्यातुरः स्नायात् ग्रहणेऽप्युष्णवारिणा ॥
सर्व्वं भूमिसमं दानं सर्व्वे व्याससमा द्विजाः ।सर्व्वं गङ्गासमं तोयं ग्रहणे नात्र संशयः ॥
सर्व्वस्वेनापि कर्त्तव्यं श्राद्धं वै राहुदर्शने ।अकुर्व्वाणस्तु तत् श्राद्धं पङ्के गौरिव सीदति ॥
आपद्यनग्नौ तीर्थे च चन्द्रसूर्य्यग्रहे तथा ।आमश्राद्धं द्विजैः कार्य्यं शूद्रेण तु सदैव हि ॥
चन्द्रसूर्य्यग्रहे स्नानं श्राद्धदानजपादिकम् ।कार्य्याणि मलमासेऽपि नित्यं नैमित्तिकं तथा ॥
सत्तीर्थेऽर्कविधुग्रासे तन्तुदामनपर्व्वणोः ।मन्त्रदीक्षां प्रकुर्व्वाणो मासर्क्षादीन् न शोधयेत् ॥
चन्द्रग्रहश्चन्द्रवारे सूर्य्ये सूर्य्यग्रहस्तथा ।चूडामणिरयं योगस्तत्रानन्तफलं स्मृतम् ॥
अन्यस्माद्ग्रहणात् कोटिगुणमत्र फलं लभेत् ।अथवान्यप्रकारेण पुरश्चरणमिष्यते ॥
ग्रहणेऽर्कस्य चेन्दोर्व्वा शुचिः पूर्व्वमुपोषितः ॥
नद्यां समुद्रगामिन्यां नाभिमात्रोदके स्थितः ।यद्वा पुण्योदके स्नात्वा शुचिः पूर्व्वमुपोषितः ॥
ग्रहणादिविमोक्षान्तं जपेन्मन्त्रं समाहितः ।अनन्तरं दशांशेन क्रमाद्धोमादिकं चरेत् ॥
तदन्ते महतीं पूजां कुर्य्याद्ब्राह्मणतर्पणम् ।ततो मन्त्रप्रसिद्ध्यर्थं गुरुं संपूज्य तोषयेत् ॥
एवञ्च मन्त्रसिद्धिः स्याद्देवता च प्रसीदति ।सूतके मृतके चैव न दोषो राहुदर्शने ।स्नानमात्रन्तु कर्त्तव्यं दानश्राद्धविवर्जितम् ॥
” * ॥
नक्षत्रविशेषे ग्रहणे नराणां दोषस्तत्शान्तिश्चयथा, --“यस्मिंस्त्रिजन्मनक्षत्रे ग्रस्येते शशिभास्करौ ।तज्जातानां भवेत् पीडा ये नराः शान्ति-वर्ज्जिताः ॥
ग्रहणग्रहपरिपीडितनाडीनक्षत्रदोषशम-नाय ।सह शतपुष्पैः स्नायात् फलिनीफलचन्दनो-शीरैः ॥
”नाडीनक्षत्राणि च । आद्यदशषोडशाष्टादश-त्रयोविंशपञ्चविंशतयः ॥
“ताम्रपात्रं तिलैः पूर्णं पूर्णं वा गव्यसर्पिषा ।भास्करग्रहणे दद्यान्नाडीदोषोपपीडितः ॥
घृतकुम्भोपरि निहितं शङ्खं नवनीतपूरितंदद्यात् ।नाड्यादिदोषशान्त्यै द्विजाय दोषाकरग्रहणे ॥
”तत्र भोजनादिनिषेधो यथा, --“चन्द्रस्य यदि वा भानोर्यस्मिन्नहनि भार्गव ! ।ग्रहणन्तु भवेत्तत्र तत्पूर्व्वां भोजनक्रियाम् ॥
नाचरेत् सग्रहे चैव तथैवास्तमुपागते ।यावत् स्यान्नोदयस्तस्य नाश्नीयात्तावदेव तु ॥
मुक्तिं दृष्ट्वा तु भुञ्जीत स्नानं कृत्वा परेऽहनि ॥
सूर्य्यग्रहे तु नाश्नीयात् पूर्व्वं यामचतुष्टयम् ।चन्द्रग्रहे तु यामांस्त्रीन् बालवृद्धातुरैर्व्विना ॥
त्र्यहं न कीर्त्तयेद्ब्रह्म राज्ञो राहोश्च सूतके ॥
”तत्राशौचं यथा, --“सर्व्वेषामेव वर्णानां सूतकं राहुदर्शने ।स्नात्वा कर्म्माणि कुर्व्वीत शृतमन्नं विवर्ज्जयेत् ॥
ग्रहणे शावमाशौचं विमुक्तौ सौतिकं स्मृतम् ।तयोः सम्पत्तिमात्रेण उपस्पृश्य क्रियाक्रमः ॥
”इति तिथ्यादितत्त्वम् ॥
* ॥
अथ ज्योतिर्म्मते ग्रहणस्वरूपं यथा । राहुःपृथिवीच्छायां समाश्रित्य चन्द्रं चन्द्रमाश्रित्यरविं यदाच्छादयति तत् ग्रासाख्यम् । किन्तुरविचन्द्रयोर्न गतिरोधकस्वरूपो ग्रासः ॥
* ॥
अथ ग्रहणसम्भावना । अमावस्यावसान-समये यदि रविस्फुटराश्यादिः राहुकेत्वोःस्फुटराश्यादिभिस्तुल्यः किंवा दशभागान्तरितोभवति तदा सूर्य्यग्रहणम् । पूर्णिमावसानकालेयदि चन्द्रस्फुटराश्यादिः राहुकेत्वोः स्फुटराश्या-दिभिस्तुल्यः किंवा त्रयोदशभागान्तरितो भवतितदा चन्द्रग्रहणं स्यात् ॥
* ॥
तस्य गणना-प्रकारो यथा । अमावस्या शेषक्षणे पूर्णिमा-वसाने च सूर्य्यसिद्धान्तोक्तगणितागतौ यथा-सम्भवराश्यादिस्थौ रविचन्द्रौ कर्त्तव्यौ । मध्य-राहुराश्यादिभिर्युक्तः स्फुटराश्यादिस्थो रविश्चकार्य्यः । अस्मिन् राहुयुक्तरवौ षड्राश्यधिके सतिषड्राशीन् त्यक्त्वा त्रिंशता पूरितः सन् यदिनवतिभागाधिको भवति तदाशीतृउच शतां-शेभ्यो हीनः कार्य्यः । अवशिष्टाङ्को द्बिःस्थाप्यएकस्मात् द्ब्याभ्यां हृताङ्केनापरो युक्तः सन्शरो भवति । राहुरव्योर्योगे कृते मेषादिराशि-षट्के सति स शरः सौम्यसंज्ञकः तुलादिषट्केसति याम्यसंज्ञकः स्यात् ॥
* ॥
चन्द्रराहुमान-ज्ञानम् । पञ्चत्रिंशद्विकलाधिकनवत्युत्तरसप्तशत-कलामितमध्यचन्द्रभुक्तिः ७९० । ३५ । सा चस्फुटकर्म्मणा किञ्चित् कलादिभिर्न्यूनाधिका वाभवति । तस्याः स्फुटेन्दुभुक्त्याः सकाशात् द्वा-चत्वारिंशदधिकशतेन १४२ हरणाल्लब्धं चन्द्रस्यमानं स्यात् । पञ्चगुणितचन्द्रमानात् द्वाभ्यांहरणाल्लब्धं राहुमानं भवति ॥
* ॥
अथ चन्द्रग्रहणम् ।राहुचन्द्रयोर्म्मानं मिलितं शरण हीनकरणात्यदवशिष्टं तत् ग्रासो भवेत् शरे शून्ये सतिराहुचन्द्रयोर्म्मिलितं मानद्वयं ग्रासो भवेत् ।शरेऽधिके ग्रासो न स्यात् ॥
* ॥
चन्द्रग्रहणारम्भादिकालज्ञानं यथा । षड्-गुणितग्रासाङ्कात् चतुर्म्मिश्रितग्रासाङ्केन लब्धंदण्डादिकं स्थितिदण्डादेरर्द्धं भवति । तत् पौर्ण-मासीयदण्डादिषु हीनं सत् स्पर्शकालः । युक्तंसत् मुक्तिकालः द्बिगुणितं तत् स्थितिदण्डादि-कालः स्यात् ॥
* ॥
चन्द्रमण्डलस्य स्पर्शादिदिग्ज्ञानम् ।पूर्व्वोक्तशरे याम्ये सति आकाशे चन्द्रमण्डलस्यअग्निकोणे स्पर्शो नैरृ तकोणे मुक्तिश्च स्यात् ।शरे सौम्ये सति ईशानकोणे स्पर्शः वायुकोणेमोक्षः । इति चन्द्रग्रहणम् ॥
* ॥
सूर्य्यग्रहणे अक्षो यथा । स्वदेशविषुवच्छायाद्विः स्थाप्या । एकस्याः षड्ढृतेनान्या युक्तासती भागादिर्याम्याक्षः स्यात् ॥
* ॥
सूर्य्य-ग्रहणोपयोगिनतमाह । दिनार्द्धामावस्ययो-र्दण्डादीनां यदन्तरं तत् अंशादिकं नतनामकंस्यात् ॥
* ॥
सूर्य्यग्रहणोपयोगि लम्बनं यथा ।द्विगुणनतसमसङ्ख्यकखण्डो ग्राह्यः खण्डान्तर-गुणितशेषात् षष्टिलब्धयुक्तः सन् स्फुटलम्बनंअंशादिकं भवति ॥
* ॥
सूर्य्यग्रहणे फलं यथा ।दिनपूर्व्वपरार्द्धक्रमेण षड्गुणितनतयुक्तलम्बन-सहितस्फुटरवौ षड्राश्यधिके षड्राशीन् त्यक्त्वात्रिंशता गुणितो यदि नवत्या अधिको भवतितदा अशीत्युत्तरशतात् हीनः कार्य्यः । त्रिगु-णितदशलब्धैः खण्डो ग्राह्यः खण्डान्तरगुणित-शेषात् दशलब्धयुक्तः सन् फलं भवति ॥
* ॥
सूर्य्यग्रहणे नतिर्यथा । अक्षफलयोर्योगो नतिःस्यात् षड्राशिन्यूने अक्षफलान्तरनतिः सा फलेअधिके सति सौम्या अक्षे अधिके सति याम्याभवति ॥
* ॥
सूर्य्यग्रहणे शरो यथा । मध्य-राहुसहितः स्फुटरविर्द्विगुणितलम्बनखण्डात्नवहृतांशादिभिर्द्दिनपूर्व्वार्द्धे रहितः दिनपरार्द्धेसहितः कार्य्यः एतादृशसंस्कृतरवौ षड्राश्यधिकेषड्राशीन् त्यक्त्रा इत्यादि चन्द्रग्रहणोक्तवत्शरः कार्य्यः । एष स्फटशरः उभयोःशरनत्योर्दिक्तुल्यतायां नत्या सह युक्तो दिग्वि-भेदे रहितः कार्य्यः अन्तरे कार्य्ये सति यदधिकंतस्य दिशा शरस्य दिक् वक्तव्या ॥
* ॥
सूर्य्य-मानं यथा । दशानुपलाष्टविपलाधिकोनषष्टि-कलामितरविमध्यभुक्तिः । ५९ । ८ । १० सा चस्फुटकर्म्मणि किञ्चित् कलादिभिर्न्यूनाधिका वाभवति । तस्यास्त्रिगुणितस्फुटरविभुक्तेर्द्वात्रिंशतालब्धं रविमानं स्यात् ॥
* ॥
अथ सूर्य्यग्रहणम् ।पूर्व्वोक्तचन्द्रमानं रविमानं मिलितं शरेणहीनं सत् ग्रासो भवेत् ॥
* ॥
सूर्य्यग्रहणस्या-रम्भादिकालज्ञानम् । चतुर्गुणितग्रासाङ्कात्द्वियुतग्रासाङ्केन लब्धं दण्डादिकं स्थितिनाडि-कार्द्धं भवति । तदमावस्याया दण्डादिषु हीनंस्पर्शकालः युक्तं मुक्तिकालः स्यात् ॥
* ॥
स्पर्शादिदिग्ज्ञानम् । शरे याम्ये सति अर्क-मण्डलस्य नैरृतकोणे स्पर्शोऽग्निकोणे मोक्षःस्यात् । सौम्ये शरे सति वायुकोणे स्पर्शईशानकोणे मुक्तिर्भवेत् द्विगुणितं तत् स्थिति-दण्डादि स्यात् ॥
* ॥
दिवारात्र्योः परार्द्धे यदिग्रहणं भवति तदा अमावस्यापौर्णमास्यो-र्दण्डादिः स्फुटलम्बनयुक्तः कार्य्यः ॥
गणिताप्त-कालात् हीनातिरिक्ते काले यदि ग्रहणं स्यात्तत् औत्पातिकं भवेत् ॥
* ॥
ग्रहणे मण्डलस्यसामान्यवर्णो यथा । विम्बस्य वैवर्ण्यं अंशुहानि-स्तमोवृतिः खण्डनमल्पता वा शुक्लारुणश्यामल-पीतचित्रैः पटाद्यैः रोध इव वेष्टनं वा भवति ॥
* ॥
अपर्व्वजं ग्रहणं ईतिव्यसनार्त्तिकारि स्यात्तदा दिशश्च विरूपाः स्युः ॥
* ॥
ग्रासाङ्गुलि-मानज्ञानम् । दशगुणितग्रासाङ्कात् मानद्वया-र्द्धेन लब्धं चन्द्रसूर्य्ययोर्ग्रासस्य गताङ्गुलाद्यंभवति । सूर्य्यस्य त्र्यङ्गुलमपि ग्रासोऽदृश्योभवति । चन्द्रस्य सार्द्धाङ्गुलः सुदर्शः यदि षोड-शाङ्गुलाधिको भवति तदा सर्व्वग्रासः ॥
* ॥
ग्रहणे मण्डलवर्णो यथा । अल्पे ग्रहणे धूभ्राभंसमग्रे कपिलं अर्द्धे कृष्णाभम् । इति सूर्य्य-ग्रहणम् ॥
इति सिद्धान्तमञ्जरीसम्मतम् ॥
(अधुना सूर्य्यसिद्धान्तमतमुच्यते तत्र चन्द्र-ग्रहणाधिकारो यथा, --“सार्द्धानि षट्सहस्राणि योजनानि विवस्वतः ।विष्कम्भो मण्डलस्येन्दोः सहाशीत्या चतुःशतम् ॥
स्फुटस्वभुक्त्या गुणितौ मध्यभुक्त्योद्धृतौ स्फुटौ ।रवेः स्वभगणाभ्यस्तः शशाङ्कभगणोद्धृतः ॥
शशाङ्ककक्षागुणितो भाजितो वार्ककक्षया ।विष्कम्भश्चन्द्रकक्षायां तिथ्याप्ता मानुलिप्तिका ॥
स्फुटेन्दभुक्तिभूंव्यासगुणिता मध्ययोद्धृता ।लब्धं सूची महीव्यासस्फुटार्कश्रवणान्तरम् ॥
मध्येन्दव्यासगुणितं मध्यार्कव्यासभाजितम् ।विशोध्य लब्धं सूच्या तु तमो लिप्तास्तु पूर्व्ववत् ॥
भानोर्भार्द्धे महीच्छाया तत्तुल्येऽर्कसमेऽपि वा ।शशाङ्कपाते ग्रहणं कियद्भागाधिकोनके ॥
तुल्यौ राश्यादिभिः स्याताममावास्यान्तकालकौ ।सूर्य्येन्दुपौर्णमास्यन्ते भार्द्धे भागादिकौ समौ ॥
गतस्य पर्वनाडीनां स्वफलेनोनसंयुतौ ।समलिप्तौ भवेतां तौ पातस्तात्कालिकोऽन्यथा ॥
छादको भास्करस्येन्दुरधःस्थो घनवद्भवेत् ।भूच्छायां प्राङ्मुखश्चन्द्रो विशत्यस्य भवेदसौ ॥
तात्कालिकेन्दुविक्षेपं छाद्यच्छादकमानयोः ।योगार्द्वात् प्रोज्झ्य यच्छेषं तावच्छन्नं तदुच्यते ॥
यद्ग्राह्यमधिके तस्मिन् सकलं न्यूनमन्यथा ।योगार्द्धादधिके न स्याद्विक्षेपे ग्राससम्भवः ॥
ग्राह्यग्राहकसंयोगवियोगौ दलितौ पृथक् ।विक्षेपवर्गहीनाभ्यां तद्वर्गाभ्यामुभे पदे ॥
षष्ट्या संगुण्य सूर्य्येन्डोर्भुक्त्यन्तरविभाजिते ।स्यातां स्थितिविमर्दार्द्धे नाडिकादिफले तयोः ॥
स्थित्यर्द्ध नाडिकाभ्यस्ता गतयः षष्टि भाजिताः ।लिप्तादि प्रग्रहे शोध्यं मोक्षे देयं पुनः पुनः ॥
तद्विक्षेपैः स्थितिदलं विमर्दार्द्धं तथासकृत् ।संसाध्यमन्यथा पाते तल्लिप्तादिफलं स्वकम् ॥
स्फुटतिथ्यवसाने तु मध्यग्रहणमादिशेत् ।स्थित्यर्द्धनाडिकाहीने ग्रासो मोक्षस्तु संयुते ॥
तद्वदेव विमर्दार्द्धनाडिकाहीनसंयुते ।निमीलनोन्मीलनाख्ये भवेतां सकलग्रहणे ॥
इष्टनाडीविहीनेन स्थित्यर्द्धेनार्कचन्द्रयोः ।भुक्त्यन्तरं समाहन्यात् षष्ट्याप्ताः कोटिलिप्तिकाः ॥
भानोर्ग्रहे कोटिलिप्ता मध्यस्थित्यर्द्धसड्गुणाः ।स्फुटस्थित्यर्द्धसम्भक्ताः स्फुटाः कोटिकलाः स्मृताः ॥
क्षेपो भुजस्तयोर्वर्गयुतेर्मूलं श्रवस्तु तत् ।मानयोगार्द्धतः प्रोज्झ्य ग्रासस्तात्कालिको भवेत् ॥
मध्यग्रहणतश्चोर्द्धमिष्टनाडीर्विशोधयेत् ।स्थित्यर्द्धान्मौक्षिकाच्छेषं प्राग्वच्छेषं तु मौक्षिके ॥
ग्राह्यग्राहकयोगार्द्धाच्छोध्याः स्वच्छन्नलिप्तिकाः ।तद्वर्गात् प्रोज्झ्य तत्कालविक्षेपस्य कृतिम्पदम् ॥
कोटिलिप्ता रवेः स्पष्टस्थित्यर्द्धेनाहता हृताः ।मध्येन लिप्तास्तन्नाड्यः स्थितिवद् ग्रांसनाडिकाः ॥
नतज्याक्षज्ययाभ्यस्ता त्रिज्याप्ता तस्य कार्मुकम् ।वलनांशाः सौम्ययाम्याः पूर्व्वापरकपालयोः ॥
राशित्रययुताद्ग्राह्यात् क्रान्त्यंशैर्दिक्समैर्युताः ।भेदेऽन्तराज्ज्या वलना सप्तत्यङ्गुलभाजिता ॥
सोन्नतं दिनमध्यर्द्धं दिनार्द्धाप्तं फलेन तु ।छिन्द्याद्विक्षेपमानानि तान्येषामङ्गुलानि तु ॥
इति सूर्य्यसिद्धान्ते चन्द्रग्रहणाधिकारः ॥
अथ सूर्य्यग्रहणाधिकारः ।“मध्यलग्नसमे भानौ हरिजस्य न सम्भवः ।अक्षोदङ्मध्यभक्रान्तिसाम्ये नावनतेरपि ॥
देशकालविशेषेण यथावनतिसम्भवः ।लम्बनस्यापि पूर्व्वान्यदिग्वशाच्च तथोच्यते ॥
लग्नं पर्व्वान्तनाडीनां कुर्य्यात् स्वैरुदयासुभिः ।तज्ज्यान्त्यापक्रमज्याघ्नी लम्बज्याप्तोदयाभिधा ॥
तदा लङ्कोदयैर्लग्नं मध्यसंज्ञं यथोदितम् ।तत्क्रान्त्यक्षांशसंयोगो दिक्साम्येऽन्तरमन्यथा ॥
शेषं नतांशास्तन्मौर्व्वी मध्यज्या साभिधीयते ।मध्योदयज्ययाभ्यस्ता त्रिज्याप्ता वर्गितं फलम् ॥
मध्यज्यावर्गविश्लिष्टं दृक्क्षेपः शेषतः पदम् ।तत्त्रिज्यावर्गविश्लेषान्मूलं शङ्कः स दृग्गतिः ॥
नतांशबाहुकोटिज्ये स्फुटे दृक्क्षेपदृग्गती ।एकज्यावर्गतश्छेदो लब्धं दृग्गतिजीवया ॥
मध्यलग्नार्कविश्लेषज्या छेदेन विभाजिता ।रवींन्द्वोर्लम्बनं ज्ञेयं प्राक् पश्चाद्घटिकादिकम् ॥
मध्यलग्नाधिके भानौ तिथ्यन्तात् प्रविशोधयेत् ।धनमूनेऽसकृत् कर्म्म यावत् सर्व्वं स्थिरीभवेत् ॥
दृक्क्षेपः शीततिग्मांशोर्मध्यभुक्त्यन्तराहतः ।तिथिघ्नत्रिज्यया भक्तो लब्धं सावनतिभवेत् ॥
दृक्क्षेपात् सप्ततिहृताद्भवेद्वावनतिः फलम् ।अथवा त्रिज्यया भक्तात् सप्तसप्तकसङ्गुणात् ॥
मध्यज्या दिग्वशात् सा च विज्ञेया दक्षिणोत्तरा ।सेन्दुविक्षेपदिक्साम्ये युक्ता विश्लेषितान्यथा ॥
तथा स्थितिविमर्द्दार्द्धग्रासाद्यं तु यथोदितम् ।प्रमाणं वलनाभीष्टग्रासादि हिमरश्मिवत् ॥
स्थित्यर्द्धोनाधिकात् प्राग्वत् तिथ्यन्ताल्लम्बनं पुनः ।ग्नासमोक्षोद्भबं साध्यं तन्मध्यहरिजान्तरम् ॥
प्राक्कपालेऽधिकन्मध्याद्भवेत् प्राग् ग्रहणं यदि ।मौक्षिकं लम्बनं हीनं पश्चार्द्धे तु विपर्य्ययः ॥
तदा मोक्षस्थितिदले देयं प्रग्रहणे तथा ।हरिजान्तरकं शोध्यं यत्रैतत् स्याद्विपर्य्ययः ॥
एतदुक्तं कपालैक्ये तद्भेदे लम्बनैकता ।स्वे स्वे स्थितिदले योज्या विमर्दार्द्धेऽपि चोक्तवत् ॥
”इति सूर्य्यसिद्धान्ते सूर्य्यग्रहणाधिकारः ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
