ग्रहगति (grahagati)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiग्रहगतिः
ग्रह-गतिः -
ग्रहों की चाल
Shabdartha Kaustubha
Kannadaग्रहगति
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಗ್ರಹಗಳ ಸಂಚಾರ
व्युत्पत्तिः - > ग्रहाणां गतिः
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Schmidt Nachtrage zum Sanskrit Worterbuch
Germanवाचस्पत्यम्
Sanskritग्रहगति स्त्री ६ त० । ग्रहाणां प्रत्यहं भांशगमनभेदे । तत्रखगगति शब्दे २४१४ पृ० ग्रहग्रतिभेदास्तत् कारणा-दिकं च दर्शितम् । तत्र ग्रहाणां सावनदिनगतिमानंसि० शि० उक्तं तच्च खगोलशब्दे २४३२ पृ० उक्तायमपिविशेषोऽत्रोच्यते । तत्र ग्रहाणा दिनगतिसाधनंसि० शि० उक्तं यथा“महीमितादहर्गणात् फलानि यानि तत्कलाः । भवन्तिमध्यमाः क्रमान्नभासदां द्युभुक्तयः । समा गतिस्तुयोजनैर्नभःमदां सदा भवेत् । कलादिकल्पनायशान्मृदु-द्रुता च सा स्मृता” सि० शि० ।“अत्रोपपत्तिस्त्रैराशिकेन । पूर्वं गतिर्योजनात्मिकाग्रहाणां तुल्यैबोक्ता । इदानीमतुल्या । सा कलादि-कल्पनावशात् । इदानीमतुल्यत्वे कारणमाह” प्रमिता०“कक्षाः सर्वा अपि दिविषदां चक्रलिप्ताङ्कितास्ता वृत्तेलब्ध्यो लघुनि महति स्युर्महत्यश्च लिप्ताः । तस्मादेतेशशिजभृगुजादित्यभौमेज्यमन्दा मन्दाक्रान्ता इव शश-धराद्भान्ति यान्तः क्रमेण” सि० शि० ।“यतः सर्वा अपि कक्षाश्चक्र २१६०० । लिप्ताभिरेवाङ्किताःअतो महति वृत्ते महत्यो लिप्ताः स्युः । लघुनि लघ्व्यः ।तद्यथा चन्द्रकक्षा सर्वाधःस्था लघुः । तस्यामेका कलापञ्चदशभिर्योजनैर्भवति । शनेः कक्षा सर्पोपरिस्था सामहती । तस्यामेका कला योजनानां षड्भिः सहस्रै-रेकसप्तत्योनै ५९२९ र्भवति । योजनं चतुःक्रोशमेव ।अतश्चन्द्रात् सकाशादूर्ध्वोर्ध्वस्था बुधशुक्रादयः क्रमेणमन्दाक्राता मन्दगतय इव भान्ति । मन्दाक्रान्ताछ-न्दोऽपि सूचितम्” प्रमिता० । स्फुटगतिमाह“दितान्तरस्पष्टखगान्तरं स्याद् ग तः स्फुटा तत्समया-न्तराले । कोटी फलघ्नी मृदुकेन्द्रभुक्तिस्त्रिज्योद्धृताकर्किमृगादिकेन्द्रे । तया युतोना ग्रहमध्यभुक्तिस्ता-त्कालिकी केन्द्रपरिस्फुटा स्वात् । समीपतिथ्यन्तसम्प्रीप-चालनं विधोस्तु तत्कालजयैव युज्यते । सुदूरसंचालन-माद्यया यतः प्रतिक्षण सा न समा महत्त्वतः” सि० शि०अद्यतनश्वस्तनस्फुटग्रहयोरौदयिकयोर्दिनार्द्धजयोर्वास्तकालिकयोर्वा यदत्तरं कलांदिकं सा स्फुटा गतिः ।अद्यतनात् श्वस्तने न्यूने वक्रा गतिर्ज्ञेया । तत्समयान्त-राल इति । तस्य कालस्य मध्येऽनया गत्या ग्रहश्चा-लयितुं युज्यत इति । इयं किल स्थूला गतिः । अथसूक्ष्मा तात्कालिकी कथ्यते । तुङ्गगत्यूना चन्द्रगतिः ।अन्येषां ग्रहाणां गृहगतिरेव केन्द्रगतिः । मृदु-केन्द्रकोटिफलं कृत्वा तेन केन्द्रगतिर्गुण्या त्रिज्ययाभाज्या लब्धेन कर्क्यादिकेन्द्रे ग्रहगतिर्युक्ता कार्या ।मृगादौ तु रहिता कार्या । एवं तात्कालिकी मन्द-परिस्फुटा स्यात् । तात्कालक्या भुक्त्या चन्द्रस्यविशिष्टं प्रयोजनम् तदाह । समीपतिथ्यन्तसमीप-चालनमिति । यत्कलिकश्चन्द्रस्तस्मात् कालाद्गतो वागम्यो वा यदासन्नस्तिथ्यन्तस्तदां तात्कालिक्या गत्यातिथिसाधनं कर्तुं युज्यते । तथा समीपचालनं च ।यदा तु दूरतरस्तिथ्यन्तो दूरचालनं वा चन्द्रस्य तदा-द्यया स्थूलया कर्तुं युज्यते स्थूलकालत्वात् ।यतश्चन्द्रगतिर्महत्त्वात् प्रतिक्षणं समा न भवति ।अतस्तदर्थमयं विशेषोऽभिहितः । अथ गतिफ-लवासना । अद्यतनश्वस्तनग्रहयोरन्तरं गतिः । अतएव ग्रहफलयोरन्तरं गतिफलं भवितुमर्हति । अथतत्साधनम् । अद्यतनश्वस्तनकेन्द्रयोरन्तरं केन्द्रगतिः ।भुजज्याकरणे यद्भोग्यखण्डं तेन सा गुण्या शरद्वि-दस्रैः २२५ भाज्या । तत्र तावत् तात्कालिकभोग्यखण्ड-करणायानुपातः । यदि त्रिज्यातुल्यया कोटिज्ययाद्यंभोग्यखण्डं शरद्विदस्रतुल्यं लभ्यते तदेष्टया किमित्यत्रकोटिज्यायाः शरद्विदस्रा २२५ गुणस्त्रिज्या हरः ।फलं तात्कालिकं स्फुटभोग्यखण्डं तेन केन्द्रगतिर्गुण-नीया शरद्विदस्रैर्भाज्या । अत्र शरद्विदस्रमितयोर्गुण-कभाजकयोस्तुल्यत्वान्नाशे कृते केन्द्रगतेः कोटिज्यागुणस्त्रिज्या हरः स्यात् । फलमद्यतनकेन्द्रदोर्ज्ययो-रन्तरं भवति । तत्फलकरणार्थं स्वपरिधिना गुण्यंभांशै ३६० र्भाज्यम् । पूर्व्वं किल गुणकः कोटिज्यासा यावत् परिधिना गुण्यते भांशै ३६० र्ह्रियतेतावत् कोटिफलं जायत इत्युपपन्नं कोटी फलघ्नी मृदु-केन्द्रभुक्तिरित्यादि । एवमद्यतनश्वस्तनग्रहफलयोरन्तरंतद्गतेः फलं कर्क्यादिकेन्द्रे ग्रहर्णफलस्यापचीयमान-त्वात् तुलादौ धनफलस्योपचीयमानत्वाद्धनम् । मक-रादौ तु धनफलस्यापचीयमानत्वान्मेषादावृणफलस्यो-पत्तीयमानत्वादृणमित्युपपन्नम्” प्रमिता० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
