| YouTube Channel

ग्रन्थिमान् (granthimAn)

 
शब्दकल्पद्रुमः
Sanskrit
ग्रन्थिमान्, [त्]
पुं,
(ग्रन्थिरस्त्यस्यास्मिन् वा ।ग्रन्थि + मतुप् ।) अस्थिसंहारकवृक्षः हाड-भाङ्गा इति हाडजोडा इति भाषा तत्-पर्य्यायः अस्थिसंहारी वज्राङ्गी अस्थि-शृङ्खला अस्य गुणाः वातश्लेष्मकृमिदुर्नाम-नाशित्वम् अस्थियोक्तृत्वम् उष्णत्वम् सारक-त्वम् अम्लरोगपित्तकारित्वम् रूक्षत्वम् ।स्वादुत्वम् लघुत्वम् वृष्यत्वम् पाचनत्वञ्च ।इति भावप्रकाशः
रत्नमालोक्तपर्य्याया राज-वल्लभोक्तगुणाश्चास्थिसंहारशब्दे द्रष्टव्याः
(ग्रन्थियुक्ते, त्रि यथा, कुमारे ४६ ।“कण्ठप्रभासङ्गविशेषनीलांकृष्णत्वचं ग्रन्थिमतीं दधानम्
”)