ग्रथ्यमानः (grathyamAnaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“ग्रथ बन्धने”@} 2 आधृषीयः।
चुरादौ ‘ग्रन्थ बन्धने, ग्रन्थ सन्दर्भे’ इति द्वौ धातू आधृषीयौ पठ्येते।
3 देवश्लोकात् पुरुषकारवाक्याच्च ‘ग्रथ बन्धने’ इति पाठ एव साधुरिति प्रतिभाति।
अत एव धातुकाव्यव्याख्याने 4 नारायणभट्टेनापि ‘ग्रथ बन्धने’ इत्येवानुवादः क्रियते।
तेन सिद्धान्तकौमुद्यादिषु ‘ग्रन्थ बन्धने’ इति दृष्टः पाठोऽयुक्त इति गम्यते।
तथा हि देवः-- ‘ग्रथ्नातीति तु सन्दर्भे, ग्रन्थयेद् ग्रन्थतीति यौ।
कौटिल्ये ग्रन्थते ग्रन्थेः, ग्राथयेद् ग्रथति ग्रथेः।।’ 5 इति।
6 ग्राथकः-थिका, जिग्राथयिषकः-षिका, 7 ग्राथकः-थिका, 8 जिग्रथिषकः-षिका, 9 जाग्रथकः-थिका
ग्राथयिता-त्री, जिग्राथयिषिता-त्री, ग्रथिता-त्री, जिग्रथिषिता-त्री, जाग्रथिता-त्री
ग्राथयन्-न्ती, जिग्राथयिषन्-न्ती, 10 ग्रथन्- 11 न्ती, जिग्रथिषन्-न्ती
-- ग्राथयिष्यन्-न्ती-ती, जिग्राथयिषिष्यन्-न्ती-ती, ग्रथिष्यन्-न्ती-ती, जिग्रथिषिष्यन्-न्ती-ती
-- ग्राथयमानः, जिग्राथयिषमाणः, -- -- जाग्रथ्यमानः
ग्राथयिष्यमाणः, जिग्राथयिषिष्यमाणः, -- -- जाग्रथिष्यमाणः
ग्रात्-ग्राथ्-ग्राथौ-ग्राथः
-- -- -- -- ग्राथितम्-तः, जिग्राथयिषितः, ग्रथितः, जिग्रथिषितः, जाग्रथितः-तवान्
ग्राथः, जिग्राथयिषुः, ग्रथः, जिग्रथिषुः, जाग्रथः
ग्राथयितव्यम्, जिग्राथयिषितव्यम्, ग्रथितव्यम्, जिग्रथिषितव्यम्, जाग्रथितव्यम्, ग्राथनीयम्, जिग्राथयिषणीयम्, ग्रथनीयम्, जिग्रथिषणीयम्
जाग्रथनीयम्
12 ग्राथ्यम्, जिग्राथयिष्यम्, ग्राथ्यम्, जिग्रथिष्यम्, जाग्रथ्यम्
ईषद्ग्राथः-दुर्ग्राथः-सुग्राथः
-- -- -- ग्राथ्यमानः, जिग्राथयिष्यमाणः, ग्रथ्यमानः, जिग्रथिष्यमाणः, जाग्रथ्यमानः
ग्राथः, जिग्राथयिषः, ग्राथः, जिग्रथिषः, जाग्रथः
ग्राथयितुम्, जिग्राथयिषितुम्, ग्रथितुम्, जिग्रथिषितुम्, जाग्रथितुम्
ग्राथना, जिग्राथयिषा, 13 ग्रथितिः, जिग्रथिषा, जाग्रथा
ग्राथनम्, जिग्राथयिषणम्, ग्रथनम्, जिग्रथिषणम्, जाग्रथनम्
ग्राथयित्वा, जिग्राथयिषित्वा, ग्रथित्वा, जिग्रथिषित्वा, जाग्रथित्वा
सङ्ग्राथ्य, प्रजिग्राथयिष्य, प्रग्रथ्य, प्रजिग्रथिष्य, प्रजाग्रथ्य
ग्राथम् २, ग्राथयित्वा २, जिग्राथयिषम् २, जिग्राथयिषित्वा २, ग्राथम् २, ग्राथित्वा २, जिग्रथिषम् २, जिग्रथिषित्वा २, जाग्रथम् २
जाग्रथित्वा २।
01 (४३५)
02 (१०-चुरादिः-१८२६। सक। सेट्। उभ।)
03 [पृष्ठम्०४२८+ २५]
04 [३-५०]
05 (श्लो। ९७)
06 [[१। ‘अत उपधायाः’ (७-२-११६) इति णौ वृद्धिः णेरनिटि’ (६-४-५१) इति णिलोपः।]]
07 [[२। ‘आधृषाद्वा’ (ग। सू। चुरादौ) इति णिज्विकल्पः। णिजभावपक्षे ण्वुलि ‘अत उप- धायाः’ (७-२-११६) इति ण्वुल्निमित्तिका वृद्धिः।]]
08 [[३। णिजभावपक्षे शुद्धाद्धातोः सनि रूपम्। द्वित्वम्। अभ्यासकार्यम्।]]
09 [[४। णिजभावपक्षे यङि, द्वित्वे, ‘यस्य हलः’ (६-४-४९) इति यकारलोपे, अकारलोपे च रूपम्।]]
10 [[५। णिजभावपक्षे ‘शेषात् कर्तरि परस्मैपदम्’ (१-३-७८) इति परस्मैपदमेव।]]
11 [[आ। ‘कृष्णोऽविश्रथितारिभीरभिमयन् दोष्णा ग्रथन् भ्रामयन् क्राथ्यं प्रोथितवानशीकितमतिं भूमावचीकन् अमुम्।’ धा। का। ३-५०।]]
12 [पृष्ठम्०४२९+ २४]
13 [[१। ‘तितुत्रेष्वग्रहादीनामिति वक्तव्यम्’ (वा। ७-२-९) इति पर्युदासात् ‘फणितिः’ इत्यादिवत् इड् भवति।]]
1 {@“ग्रन्थ सन्दर्भे”@} 2 सन्दर्भः = बन्धनम्।
‘ग्रथ्नातीति तु सन्दर्भे ग्रन्थयेद् ग्रन्थतीति यौ।
कौटिल्ये ग्रन्थते ग्रन्थेः ग्राथयेद् ग्रथति ग्रथेः।।’ 3 इति देवः।
4 ग्रन्थकः-न्थिका, ग्रन्थकः-थिका, जिग्रन्थिषकः-षिका, 5 जाग्रथकः-थिका
ग्रन्थिता-त्री, ग्रन्थयिता-त्री, जिग्रन्थिषिता-त्री, जाग्रथिता-त्री
6 ग्रथ्नन्-ती, ग्रन्थयन्-न्ती, जिग्रन्थिषन्-न्ती
-- ग्रन्थिष्यन्-न्ती-ती, ग्रन्थयिष्यन्-न्ती-ती, जिग्रन्थिषिष्यन्-न्ती-ती
-- -- ग्रन्थयमानः, ग्रन्थयिष्यमाणः, -- जाग्रथ्यमानः, जाग्रथिष्यमाणः
7 सुग्रत्-सुग्रथ् सुग्रथौ-सुग्रथः
-- -- ग्रथितम्-तः, ग्रन्थितः, जिग्रन्थिषितः, जाग्रथितः-तवान्
ग्रन्थः, ग्रन्थः, जिग्रन्थिषुः, जाग्रन्थः
ग्रन्थितव्यम्, ग्रन्थयितव्यम्, जिग्रन्थिषितव्यम्, जाग्रथितव्यम्
ग्रन्थनीयम्, ग्रन्थनीयम्, जिग्रन्थिषणीयम्, जाग्रथनीयम्
ग्रन्थ्यम्, ग्रन्थ्यम्, जिग्रन्थिष्यम्, जाग्रथ्यम्
ईषद्ग्रन्थः-दुर्ग्रन्थः-सुग्रन्थः
-- -- ग्रथ्यमानः, ग्रन्थ्यमानः, जिग्रन्थिष्यमाणः, जाग्रथ्यमानः
ग्रन्थः, ग्रन्थः, जिग्रन्थिषः, जाग्रन्थः
ग्रन्थितुम्, ग्रन्थयितुम्, जिग्रन्थिषितुम्, जाग्रथितुम्
8 ग्रन्था, ग्रन्थना, जिग्रन्थिषा, जाग्रथा
ग्रन्थनम्, ग्रन्थनम्, जिग्रन्थिषणम्, जाग्रथनम्
9 ग्रन्थित्वा- 10 ग्रथित्वा, ग्रन्थयित्वा, जिग्रन्थिषित्वा, जाग्रथित्वा
सङ्ग्रथ्य, सङ्ग्रन्थ्य, सञ्जिग्रन्थिष्य, सञ्जाग्रथ्य
11 ग्रन्थम् २, ग्रन्थित्वा २, ग्रथित्वा २, ग्रन्थम् २, ग्रन्थयित्वा २, जिग्रन्थिषम् २, जिग्रन्थिषित्वा२, जाग्रथम् २
जिग्रन्थिषित्वा २, जाग्रथित्वा २।
01 (४३७)
02 (९-क्र्यादिः-१५१३। सक। सेट्। पर।)
03 (श्लो। ९७)
04 [पृष्ठम्०४३१+ २५]
05 [[१। ‘अनिदितां हल उपधायाः क्ङिति’ (६-४-२४) इति यङ्निमित्तकः सर्वत्र नलोपः। ‘दीर्घोऽकितः’ (७-४-८३) इत्यभ्यासस्य दीर्घः।]]
06 [[२। ‘क्र्यादिभ्यः--’ (३-१-८१) इति श्ना विकरणप्रत्ययः। ‘श्नाभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपः। ‘अनिदिताम्--’ (६-४-२४) इति नकारलोपः।]]
07 [[३। ‘अनिदिताम्--’ (६-४-२४) इति नलोपे चर्त्वविकल्पः।]]
08 [[४। ‘घट्टिवन्दिविदिभ्यश्च’ (वा। ३-३-१०७) इत्यत्र चकारादस्मादपि धातोः शुद्धादेव युचि ग्रन्थना इति प्रक्रियाकौमुदी।]]
09 [[५। ‘नोपधात् थफान्ताद्वा’ (१-२-२३) इति कित्त्वविकल्पः। कित्त्वे नलोपः।]]
10 [[आ। ‘पूतं शीतैर्नभस्वद्भिः ग्रन्थित्वेव स्थितं रुचः। गुम्फित्वेव निरस्यन्तं तरङ्गान् सर्वतो मुहुः।।’ भ। का। ७-१०५।]]
11 [पृष्ठम्०४३२+ २२]
1 {@“ग्रन्थ सन्दर्भे”@} 2 आधृषीयः।
‘ग्रथ्नातीति तु सन्दर्भे, ग्रन्थयेद् ग्रन्थतीति यौ।
कौटिल्ये ग्रन्थते ग्रन्थेः, ग्राथयेद् ग्रथति ग्रथेः।।’ 3 इति देवः।
ग्रन्थकः-न्थिका, 4 जिग्रन्थयिषकः-षिका, 5 ग्रन्थकः-न्थिका, 6 जिग्रन्थिषकः-षिका, 7 जाग्रथकः-थिका
ग्रन्थयिता-त्री, जिग्रन्थयिषिता-त्री, ग्रन्थिता-त्री, जिग्रन्थिषिता-त्री, जाग्रथिता-त्री
8 ग्रन्थयन्-न्ती, जिग्रन्थयिषन्-न्ती, 9 ग्रन्थन्-न्ती, जिग्रन्थिषन्-न्ती
-- ग्रन्थयिषय्न्-न्ती-ती, जिग्रन्थयिषिष्यन्-न्ती-ती, ग्रन्थिष्यन्-न्ती-ती, जिग्रन्थिषिष्यन्-न्ती-ती
-- ग्रन्थयमानः, जिग्रन्थयिषमाणः, -- जाग्रथ्यमानः, ग्रन्थयिष्यमाणः, जिग्रन्थयिषिष्यमाणः
-- जाग्रथिष्यमाणः, 10 ग्रन्-ग्रन्थौ-ग्रन्थः
-- -- ग्रन्थितः-तम्, जिग्रन्थयिषितः, ग्रन्थितम्-तः, जिग्रन्थिषितः, जाग्रथितः-तवान्
ग्रन्थः, जिग्रन्थयिषुः, ग्रन्थः, जिग्रन्थिषुः, जाग्रन्थः
11 ग्रन्थयितव्यम्, जिग्रन्थयिषितव्यम्, ग्रन्थितव्यम्, जिग्रन्थिषितव्यम्, जाग्रथितव्यम्
ग्रन्थनीयम्, जिग्रन्थयिषणीयम्, ग्रन्थनीयम्, जिग्रन्थिषणीयम्, जाग्रथनीयम्
ग्रन्थ्यम्, जिग्रन्थयिष्यम्, ग्रन्थ्यम्, जिग्रन्थिष्यम्, जाग्रथ्यम्
ईषद्ग्रन्थः-दुर्ग्रन्थः-सुग्रन्थः
-- -- ग्रन्थ्यमानः, जिग्रन्थयिष्यमाणः, ग्रथ्यमानः, जिग्रन्थिष्यमाणः, जाग्रथ्यमानः
ग्रन्थः, जिग्रन्थयिषः, ग्रन्थः, जिग्रन्थिषः, जाग्रथः
ग्रन्थयितुम्, जिग्रन्थयिषितुम्, ग्रन्थितुम्, जिग्रन्थिषितुम्, जाग्रथितुम्
ग्रन्थना, जिग्रन्थयिषा, ग्रन्था, जिग्रन्थिषा, जाग्रथा
ग्रन्थनम्, जिग्रन्थयिषणम्, ग्रन्थनम्, जिग्रन्थिषणम्, जाग्रथनम्
ग्रन्थयित्वा, जिग्रन्थयिषित्वा, 12 ग्रन्थित्वा-ग्रथित्वा, जिग्रन्थिषित्वा, जाग्रथित्वा
सङ्ग्रथ्य, सञ्जिग्रन्थयिष्य, 13 सङ्ग्रथ्य, सञ्जिग्रन्थिष्य, सञ्जाग्रथ्य, ग्रन्थम् २, ग्रन्थयित्वा २, जिग्रन्थयिषम् २, जिग्रन्थयिषित्वा २, ग्रन्थम२ ग्रन्थित्वा २-ग्रथित्वा २, जिग्रन्थिषम् २, जिग्रन्थिषित्वा २, जाग्रथम् २
जाग्रथित्वा २।
01 (४३८)
02 (१०-चुरादिः-१८३९। सक। सेट्। उभ।)
03 (श्लो। ९७)
04 [[१। ण्यन्तात् सनि रूपम्। एवमुत्तरत्रापि ज्ञेयम्।]]
05 [[२। ‘आधृषाद्वा’ (गणसूत्रम्--चुरादौ) इति णिचो वैकल्पिकत्वात् णिजभावपक्षे शुद्धाद्धातोः रूपाणि प्रदर्शितानि।]]
06 [[३। णिजभावपक्षे शुद्धाद्धातोः सनि रूपम्। एवमुत्तरत्रापि ज्ञेयम्।]]
07 [[४। णिजभावे शुद्धाद्धातोः यङि, अन्तरङ्गत्वेन, ‘अनिदिताम्--’ (६-४-२४) इत्युपधान- कारस्य लोपे कृते यलोपाल्लोपयोश्च रूपम्। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
08 [[आ। ‘कूटाद्येषु हतेषु धावितमतिष्वन्येषु धावत्सु च स्वैरं तत्र जनान् प्रयन् विगलितश्रन्थान् कचान् ग्रन्थयन्।’ धा। का। ३-५१।]]
09 [[५। णिजभावपक्षे, ‘शेषात् कर्तरि--’ (१-३-७८) इति परस्मैपदम्।]]
10 [[६। क्विब्निमित्तके णिलोपे, संयोगान्तलोपे च रूपम्। न च णिलोपस्य स्थानिवद्भावः शङ्क्यः, ‘पूर्वत्रासिद्धे न स्थानिवत्--’ (वा। १-१-५८) इति निषेधात्।]]
11 [पृष्ठम्०४३३+ २३]
12 [[१। ‘नोपधात् थफान्ताद्वा’ (१-२-२३) इति क्त्वाप्रत्ययस्य कित्त्वविकल्पः। तेन रूपद्वयम्।]]
13 [[२। ल्यपि, ‘अनिदिताम्--’ (६-४-२४) इति नकारलोपः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
