| YouTube Channel

ग्रथि (grathi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
ग्रन्थ्
मूलधातुः:
ग्रथि
धात्वर्थः:
कौटिल्ये
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
ग्रन्थते
अनुबन्धादिविशेषः:
इदित्
धातुप्रदीपः
Sanskrit
ग्रथिँ ग्रथि कौटिल्ये
- ग्रन्थते ग्रन्थ्यते जग्रन्थे ।जग्रन्थाते ।।"श्रन्थँ मोचनप्रतिहर्षणयोः, ग्रन्थँ सन्दर्भे इति क्र्य्यादौ तयोस्तु श्रथ्नाति श्रथ्यते ग्रथ्नाति ग्रथ्यते इत्यादि रूपम् श्रन्थ ग्रन्थ सन्दर्भ इति चुरादौ विकल्पितणिच्प्रकरणे श्रन्थयति श्रन्थति ग्रन्थयति ग्रन्थति क्रादेश्चुरादेश्चानिदितः श्रन्थिग्रन्थिदम्भिस्वञ्जीनामिति लिटः कित्त्वे सति श्रेथतुः, श्रेथुः ग्रेथतुः, ग्रेथुरिति भवति केचित् तु वाग्रहणमस्मिन् वाक्ये कुर्वन्ति तथा सदिस्वञ्ज्योः परस्य लिटि (8/3/118) इत्यत्र वृत्तावुक्तं स्वञ्जेः परस्य लिटो विकल्पेन कित्त्वमिच्छन्तीति तन्मतेनैतयोरपि पक्ष शश्रन्थतुर्जग्रन्थतुरित्येवं भवति सर्वत्र णिश्रन्थिग्रन्थिब्रूञात्मनेपदाकर्मकाणाञ्च (3/1/89, वा) इति कर्मकर्तरि यक्चिणोः प्रतिषेधः श्रन्थते स्वयमेव श्रथ्नीते अश्रन्थिष्ट ग्रन्थते ग्रथ्नीते अग्रन्थिष्टः ।।35 ।।
क्षीरतरङ्गिणी
Sanskrit
ग्रथिँ ग्रथि कौटिल्ये
(अर्थविवरणम्) कौटिल्यं कुसृतिर्बन्धश्च
ग्रन्थते ग्रन्थ्यते ग्रन्थना ग्रथित्वा, ग्रन्थित्वा ग्रथितः खनिकष्यञ्ज्यसिवसि (उ04139) इति ग्रन्थिः क्र्यादौ श्रन्थ ग्रन्थ सन्दर्भे (तु0945) इत्युदात्तेतौ सकर्मकौ स्तः श्रथ्नाति ग्रथ्नाति श्रथ्यते ग्रथ्यते, अनिदितां हल उपधायाः किङिति (6424) इत्यनुनासिकलोपः श्रेथुः, ग्रेथुः, शश्रन्थुः, जग्रन्थुरिति एतौ चुरादौ आधृषाद्वा (10230) विकल्पितण्यन्तौ स्तः श्रन्थयति, श्रन्थति ग्रन्थयति, ग्रन्थति कर्मकर्तरि किरादिणिश्रन्थिग्रन्थिब्रू ञात्मनेपदाकर्मकाणामिति यक्चिणौ स्तः - श्रन्थते स्वयमेव, श्रथ्नीते, अश्रन्थिष्ट ग्रन्थते, ग्रथ्नीते, अग्रन्थिष्ट 35
धातुवृत्तिः
Sanskrit
ग्रथिँ ग्रथि (अर्थः) कौटिल्ये
(अर्थविवरणम्) कौटिल्यं शठयं वक्रता वा
( ग्रन्थते ) इत्यादि श्रन्थिवत् अभ्यासकार्यविशेषः केचिदिमावनिदितौ सानुषङ्गौ षठन्तः, किति नलोपमिच्छन्ति अत्र तरङ्गिणी इदित्त्वादनुनासिकलोपाभावात् श्रेथे ग्रेथे इत्युदाहरन् वृत्तिकारो भ्रान्त इति, अत्र वृत्तिकार इति धातुवृत्तिकुदुच्यते तथा सानुषङ्गापाठः कशिकावृत्तिकारस्याऽप्यनभिमतः यतः [श्रन्थिग्रन्थिदम्भिस्वञ्जीनाम् ] इति लिटः कित्त्वविधौ श्रथतुर्ग्राथतुरिति परस्मैपदिनावेवोदाजहार ग्रन्य संदर्भ इति क्रयादौ युजादौ ग्रन्थ यन्धन इति युजादौ 36
कृदन्तरूपमाला
Sanskrit
1 {@“ग्रथि कौटिल्ये”@} 2 ‘कौटिल्यम् = शाठ्यं वक्रता वा’ इति मा।
धा।
वृत्तिः।
‘कौटिल्यम् = कुसृतिर्बन्धश्च’ इति क्षीरस्वामी।
‘ग्रथ्नातीति तु सन्दर्भे, ग्रन्थयेद् ग्रन्थतीति यौ।
कौटिल्ये ग्रन्थते ग्रन्थेः ग्राथयेद् ग्रथति ग्रथेः।।’ 3 इति देवः।
4 ग्रन्थकः-न्थिका, ग्रन्थकः-न्थिका, जिग्रन्थिषकः-षिका, जाग्रन्थकः-न्थिका
ग्रन्थिता-त्री, ग्रन्थयिता-त्री, जिग्रन्थिषिता-त्री, जाग्रन्थिता-त्री
-- ग्रन्थयन्-न्ती, ग्रन्थयिष्यन्-न्ती ती
-- ग्रन्थमानः, ग्रन्थयमानः, जिग्रन्थिषमाणः, जाग्रन्थ्यमानः
ग्रन्थिष्यमाणः, ग्रन्थयिष्यमाणः, जिग्रन्थिषिष्यमाणः, जाग्रन्थिष्यमाणः
5 ग्रन्-ग्रन्थौ-ग्रन्थः
-- -- -- ग्रन्थितम्-तः, ग्रन्थितः, जिग्रन्थिषितः, जाग्रन्थितः-तवान्
6 ग्रन्थः, 7 ग्रन्थनः, ग्रन्थः, जिग्रन्थिषुः, जाग्रन्थः
ग्रन्थितव्यम्, ग्रन्थयितव्यम्, जिग्रन्थिषितव्यम्, जाग्रन्थितव्यम्
ग्रन्थनीयम्, ग्रन्थनीयम्, जिग्रन्थिषणीयम्, जाग्रन्थनीयम्
ग्रन्थ्यम्, ग्रन्थ्यम्, जिग्रन्थिष्यम्, जाग्रन्थ्यम्
ईषद्ग्रन्थः-दुर्ग्रन्थः-सुग्रन्थः
-- -- -- ग्रन्थ्यमानः, ग्रन्थ्यमानः, जिग्रन्थिष्यमाणः, जाग्रन्थ्यमानः
ग्रन्थः, ग्रन्थः, जिग्रन्थिषः, जाग्रन्थः
ग्रन्थितुम्, ग्रन्थयितुम्, जिग्रन्थिषितुम्, जाग्रन्थितुम्
ग्रन्था, ग्रन्थना, जिग्रन्थिषा, जाग्रन्था
8 ग्रन्थनम्, ग्रन्थनम्, जिग्रन्थिषणम्, जाग्रन्थनम्
ग्रन्थित्वा, 9 ग्रथित्वा, ] ग्रन्थयित्वा, जिग्रन्थिषित्वा, जाग्रन्थित्वा
सङ्ग्रन्थ्य, सङूग्रन्थ्य, सञ्जिग्रन्थिष्य, सञ्जाग्रन्थ्य
ग्रन्थम् २, ग्रन्थित्वा २, 10 ग्रन्थम् २, ग्रन्थयित्वा २, जिग्रन्थिषम् २, जिग्रन्थिषित्वा २, जाग्रन्थम्
जाग्रन्थित्वा
11 इप्रत्यये रूपम्।
ग्रन्थिः = बन्धः।]] ग्रन्थिः।
प्रासङ्गिक्यः
01
=>
(४३६)
02
=>
(१-भ्वादिः-३६। सक। सेट्। आत्म।)
03
=>
(श्लो। ९७)
04
=>
[[२। ‘इदितो नुम् धातोः’ (७-१-५८) इति नुम्। एवं सर्वत्र नुम्।]]
05
=>
[[३। थकारस्य संयोगान्तलोपः।]]
06
=>
[पृष्ठम्०४३०+ २५]
07
=>
[[१। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति तच्छीलादिषु कर्तृषु युच्।]]
08
=>
[[आ। ‘स वेथते स्माखिलवेथितं विधिं प्रश्रन्थितग्रन्थनधी रकत्थनः। अतेन्मुरारिर्मम चिन्मयोऽन्तिके च्योतन् दिशः प्रश्च्युतितैः स्मितामृतैः।।’ धा। का। १-६।]]
09
=>
[[[२। अस्य धातोरिदित्त्वात् ‘नोपधात्--’ (१-२-२३) इति कित्त्वविकल्पे ‘अनिदिताम्--’ (६-४-२४) इति नलोपो प्रवर्तते। अतः ‘ग्रन्थित्वा’ इत्येकमेव रूपम्। क्षीरस्वाम्याशयस्तु-- ‘नोपधात् थफान्ताद्वा’ (१-२-२३) इति क्त्वायां कित्त्वविकल्पः। तेन कित्त्वपक्षे ‘अनिदितां हल उपधायाः क्ङिति’ (६-४-२४) इति नकारलोपः, इति।]]
10
=>
[ग्रथित्वा २, ]
11
=>
[[३। औणादिके [द। उ। १-६८]