| YouTube Channel

गौणी (gauNI)

 
Shabdartha Kaustubha
Kannada
गौणी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಗೌಣ ಲಕ್ಷಣೆ /ಸಾದೃಶ್ಯಮೂಲಕವಾದ ಲಕ್ಷಣ
निष्पत्तिः - > "अण्" (४-३-७४) "ङीप्" (४-१-१५)
व्युत्पत्तिः - > गुणादागता
प्रयोगाः - > "सादृश्येतरसम्बन्धाः शुद्धास्ताः सकला अपि सादृश्यात्तु मता गौण्यस्तेन षोडश भेदिताः ॥"
उल्लेखाः - > सा० द० २-९
L R Vaidya
English
gORa {% a. (f. णी) %} 1. Subordinate, secondary, unessential, e.g. गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम्
2. used in a secondary sense, figurative, metaphorical (as a word or sense)
3. based on some similarity between the primary and secondary sense of a word, as in गौणी लक्षणा K.Pr.ii.
4. relating to multiplication or enumeration.
शब्दकल्पद्रुमः
Sanskrit
गौणी,
स्त्री,
(गुणं सादृश्यमधिकृत्य प्रवृत्ता ।गुण + अण + स्त्रियां ङीप् ।) अशीतिप्रकार-लक्षणान्तगेतलक्षणाविशेषः यथा, --“सादृश्येतरसम्बन्धाः शुद्धास्ताः सकला अपि ।सादृश्यात्तु मता गौण्यस्तेन षोडश भेदिताः
”(“ताः पूर्व्वोक्ता अष्टादशभेदा लक्षणाः सादृ-श्येतरसम्बन्धाः कार्य्यकारणभावादयः अत्रशुद्धानां ‘श्वेतो धावति’ इत्यादीन्युदाहरणानिज्ञेयानि रूढावुपादानलक्षणा सारोपा गौणीयथा ‘एतानि तैलानि हेमन्ते सुखानि’ अत्रतैलशब्दस्तिलभवस्नेहरूपं मुख्यार्थमुपादायैवसार्षपादिस्नेहेषु वर्त्तते प्रयोजने यथा, राज-कुमारेषु तत्सदृशेषु गच्छत्सु ‘एते राजकुमारागच्छन्ति ।’ रूढावुपादानलक्षणा साध्यवसानागौणी यथा, ‘तैलानि हेमन्ते सुखानि ।’ प्रयो-जने यथा, ‘राजकुमारा गच्छन्ति ।’ रूढौलक्षणलक्षणा सारोपा गौणी यथा, ‘राजागौडेन्द्रः कण्टकं शोधयति ।’ प्रयोजने यथा, ‘गौर्वाहीकः ।’ रूढौ लक्षणा साध्यवसानागौणी यथा, ‘राजा कण्टकं शोधयति ।’ प्रयो-जने यथा, ‘गौर्जल्पति ।’अत्र केचिदाहुः गोसहचारिणो गुणा जाड्य-मान्द्यादयो लक्ष्यन्ते ते गोशब्दस्य वाही-कार्थाभिधाने निमित्तीभवन्ति यदुक्तं, गो-शब्दस्यागृहीतसङ्केतं वाहीकार्थमभिधातुम-सामर्थ्यात् गोशब्दार्थमात्रबोधनाच्च अभि-धाया विरतत्वात् विरतायाश्च पुनरुत्थाना-भावात् अन्ये पुनर्गोशब्देन वाहीकार्थोनाभिधीयते किन्तु स्वार्थसहचारिगुणसाजात्येनवाहीकार्थगता गुणा एव लक्ष्यन्ते तदप्यन्ये नमन्यन्ते तथाह्यत्र मोशब्दाद्वाहीकार्थः प्रती-यते बा आद्येऽपि गोशब्दादेव बा लक्षि-ताद्वा गुणात् अविनाभावद्वारा तत्र नप्रथमः वाहीकार्थेऽस्यासङ्केतितत्वात् नद्वितीयः अविनाभावलभ्यस्यार्थस्य शाब्दे-ऽन्वये प्रवेशासम्भवात् शाब्दी ह्याकाङ्क्षा शब्दे-नैव प्रपूर्य्यते द्वितीयः यदि हि गोशब्दा-द्वाहीकार्थो प्रतीयते तदास्य वाहीकस्यसामानाधिकरण्यमसमञ्जसं स्यात् तस्मादत्रगोशब्दा मुख्यया वृत्त्या वाहीकशब्देन सहान्वय-मलभमानीऽज्ञत्वादिसाधर्म्म्यसम्बन्धाद्बाहीकार्थंलक्षयति वाहीकस्याज्ञत्वाद्यतिशयबोधनं प्रयो-जनम् इयञ्च गुणयोगात् गौणी इत्युच्यते ।पूर्व्वा तु उपचारामिश्रणात् शुद्धा उपचारोहि नामात्यन्तं विसकलितयोः सादृश्यातिशय-महिम्ना भेदप्रतीतिस्थगणमात्रम् यथाअग्निमानवकयोः शुक्लपटयोस्तु नात्यन्तं भेद-प्रतीतिः तस्मादेवमादिषु शुद्धैव लक्षणा
”इति साहित्यदर्पणे १३
) अन्यत् सर्व्वंलक्षणाशब्दे द्रष्टव्यम्