| YouTube Channel

गौणचान्द्र (gauNacAndra)

 
शब्दकल्पद्रुमः
Sanskrit
गौणचान्द्रः,
पुं,
(गौणोऽप्रधानश्चान्द्रश्चन्द्रसम्बन्धि-मासः ।) कृष्णप्रतिपदादिपौर्णमास्यन्तमासः ।यथा, जन्माष्टमीप्रकरणे तिथ्यादितत्त्वे ।“गौणचान्द्रण भाद्रता मुख्यचान्द्रेण श्रावणता
”अपि शब्दरत्नावल्याम् ।“चान्द्रोऽपि द्विविधः प्रोक्तो मुख्यगौणविभेदतः ।गौणः कृष्णप्रतिपदादिपौर्णमास्यन्त ईरितः
वाचस्पत्यम्
Sanskrit
गौणचान्द्र
पु०
“चान्द्रोऽपि द्विविधः प्रोक्तो गौणमुख्य-प्रभेदतः गौणः कृष्णप्रतिपदः पौर्णमास्यन्तईरितः”शब्दर० उक्ते कृष्णपदादिपौर्णस्यान्ते चान्द्रे मासे अत्रव्यवस्था नि० सि० उक्ता यथात्रिकाण्डमण्डनः “चान्द्रोऽपि शुक्लपक्षादिः कृष्णा-दिर्वति द्विधा” इत्युक्त्वा देशभेदेन तद्व्यवस्थामाह“कृष्णपक्षादिकं मासं नाङ्गीकुर्वन्ति केचन येऽपीच्छन्तिन तेषाञ्च देशे विन्ध्यस्य दक्षिणे” इति विन्ध्यस्य दक्षिणेकृष्णादिनिषेधाद् उत्तरतोद्वयोरभ्यनुज्ञा गम्यते तत्रापिशुक्लादिर्मुख्यः कृष्णादिर्गौणः शास्त्रेषु चैत्रशुक्लप्रतिप-द्येव चान्द्रसंवत्सरारम्भोक्तेः तदुक्तं दीपिकायां “चान्द्रोऽव्दोमधुशुक्लगप्रतिपदारम्भः” इति हि ये कृष्णादिं मन्य-न्ते तेषां वत्सरारम्भोभिद्यते अतः शुक्लादिर्मुख्यः कृष्णा-दिना मलमासासम्भवाच्च चान्द्रस्य सर्वनक्षत्रभोगेन नाक्ष-त्रमासः सावनादीनां व्यवस्थोक्ता हेमाद्रौ ब्रह्मसिद्धान्ते“अमावास्यापरिच्छिन्नोमासः स्याद्व्राह्मणस्य तु संक्रा-न्तिपौर्णमासीभ्यां तथैव नृपवैश्ययोः” अत्र ब्राह्मणा-दीनां यत्र कर्मविशेषे वचनान्तरेण “वसन्ते ब्राह्मणोऽ-ग्निमादधीत” इत्यादिवन्मास उक्तस्तत्र दर्शान्तत्वमात्रं नि-यम्यते तु सर्वकमसु दर्शान्तएवेति वृष्ट्याद्यर्थसौभरेया-दिनिधननियमवद्विधिलाघवात् त्रैवर्णिकानां सर्वकर्मसुमासविशेषबिधेः सावनादीनां शूद्रानुलोमादिपरत्वा-पत्तेश्चेति गुरुचरणाः ज्योतिर्गर्गः “सौरमासो विवा-हादौ यज्ञादौ सावनः स्मृतः आव्दिके पितृकार्येच चान्द्रोमासः प्रशस्यते” ऋष्यशृङ्गः “विवाहव्रतयज्ञेषुसौरं मामस्यचक्षते पार्वणे त्वष्टकाश्राद्धे चान्द्रमिष्टन्तथा-वदिके” स्मृत्यन्तरे “एकोद्दिष्टविवाहादौ ऋणादौ सौर-सावनौ” ज्योतिर्गर्गः “आयुर्दायविभागश्च प्रायश्चित्तक्रि-या तथा सावनेनैव कर्त्तव्या शत्रूणां चाप्युपासना”विष्णुधर्मे “नक्षत्रसत्राण्ययनानि चेन्दोर्मासेन कुर्य्याद्भगणा-त्मकेनेति” ब्राह्मे “तिथिकृत्ये कृष्णादिं व्रते शुक्लादिमेव विवाहादौच सौरादिंमासंकृत्ये विनिर्दिशेत्”