| YouTube Channel

गौणः (gauNaH)

 
शब्दकल्पद्रुमः
Sanskrit
गौणः,
पुं,
(गुणादागता गौणी तस्या आगतःप्रतिबोधितः गौणी + अण् ।) गौणीवृत्ति-बोधितः यथा, “शक्यस्य सादृश्यात्मकः सम्बन्धोगुणः तदधीना या लक्षणा सा गौणी तद्योगात्गौणः ।” इति दायभागटीकायां श्रीकृष्णतर्क्का-लङ्कारः
(अमुख्ये त्रि यथा, महाभारते ।१२ ३४१ ।“बहूनि मम नामानि कीर्त्तितानि महर्षिभिः ।गौणानि तत्र नामानि कर्म्मजानि कानि-चित्
”)