| YouTube Channel

गौः (gauH)

 
Wordnet
Sanskrit
Synonyms:
पृथिवी, भूः, भूमिः, अचला, अनन्ता, रसा, विश्वम्भरा, स्थिरा, धरा, धरित्री, धरणी, क्षौणी, ज्या, काश्यपी, क्षितिः, सर्वसहा, वसुमती, वसुधा, उर्वी, वसुन्धरा, गोत्रा, कुः, पृथ्वी, क्ष्मा, अवनिः, मेदिनी, मही, धरणी, क्षोणिः, क्षौणिः, क्षमा, अवनी, महिः, रत्नगर्भा, सागराम्बरा, अब्धिमेखला, भूतधात्री, रत्नावती, देहिनी, पारा, विपुला, मध्यमलोकवर्त्मा, धारणी, गन्धवती, महाकान्ता, खण्डनी, गिरिकर्णिका, धारयित्री, धात्री, अचलकीला, गौः, अब्धिद्वीपा, इडा, इडिका, इला, इलिका, इरा, आदिमा, ईला, वरा, आद्या, जगती, पृथुः, भुवनमाता, निश्चला, श्यामा
noun
मर्त्याद्यधिष्ठानभूता।
"पृथिवी पञ्चमम् भूतम्"
Synonyms:
वज्रम्, कुलिशम्, भदुरम्, पविः, शतकोटिः, स्वरुः, शम्बः, दम्भोलिः, अशनिः, कुलीशम्, भिदिरम्, भिदुः, स्वरुस्, सम्बः, संवः, अशनी, वज्रांशनिः, जम्भारिः, त्रिदशायुधम्, शतधारम्, शतारम्, आपोत्रम्, अक्षजम्, गिरिकण्टकः, गौः, अभ्रोत्थम्, मेघभूतिः, गिरिज्वरः, जाम्बविः, दम्भः, भिद्रः, अम्बुजम्, ह्लादिनी, दिद्युत्, नेमिः, हेतिः, नमः. सृकः, वृकः, वधः, अर्कः, कुतसः , कुलिशः, तुजः, तिग्मम्, मेनिः, स्वधितिः सायकः, परशुः
noun
इन्द्रस्य प्रधानं शस्त्रम्।
"एकदा इन्द्रेण हनुमान् वज्रेण प्रहृतः।"
Synonyms:
स्वर्गः, सुरलोकः, नाकः, त्रिदिवः, त्रिदशालयः, सुरलोकः, द्योः, द्यौ, त्रिविष्टपम्, मन्दरः, अवरोहः, गौः, रमतिः, फलीदयः, स्वः, अपरलोकः, अमरलोकः, इन्द्रलोकः, देवलोकः, देवनिकायः, परुः, पुरुः, षः, सुखाधारः, सौरिकः, हः
noun
हिन्दुमतानुसारेण सप्तलोकेषु तत् स्थानं यत्र पुण्यात्मा निवसति।
"सत्कर्मणा मनुष्यः स्वर्गे गच्छति।"
Synonyms:
ज्या, गुणः, चापगुणः, धनुर्गुणः, जीवम्, गव्या, गव्यम्, गौः, पिङ्गा, भारवः, मौर्विका, मौर्वी, शिञ्जिनी, लोचकः, शरसनज्या, शिञ्जा, शिञ्जालता, स्थावरम्, स्रावन्, ज्यायुः
noun
धनुषः सूत्रं यस्य साहाय्येन बाणान् क्षिपन्ति।
"सः ज्यां बध्नाति।"
Synonyms:
गौः, माहेषी, सौरभेयी, उस्रा, माता, शृङ्गिणी, अर्जुनी, अघ्न्या, रोहिणी, माहेन्द्री, इज्या, धेनुः, अघ्ना, दोग्ध्री, भद्रा, भूगिमही, अनडुही, कल्याणी, पानवी, गौरी, सुरभिः, मबा, निलिनाचिः, सुरभी, अनड्वाही, अधमा, बहुला, मही, सरस्वती, उस्रिया, अही, अदितिः, इला, जगती, शर्करी
noun
ग्राम्यपशुविशेषः, यः सास्नालाङ्गुलककुदखुरविषाणी तथा तस्याः दुग्धं मनुष्याय पुष्टीकारकम् इति मन्यन्ते।
"हिन्दुधर्मीयाणां कृते गौः अवध्या अस्ति।"
Synonyms:
दिक्, आशा, हरित्, निदेशिनी, दिशा, ककुभः, हरितः, गौः
noun
क्षितिजस्य कल्पितेषु चतुर्षु विभागेषु एकः।
"मम गृहम् उत्तरस्यां दिशि वर्तते।"
Synonyms:
सरस्वती, प्रज्ञा, भारती, वागीश्वरी, वाग्देवी, वीणावादिनी, शारदा, हंसवाहिनी, गिरा, इला, ब्राह्मी, इरा, ज्ञानदा, गीर्देवी, ईश्वरी, वाचा, वचसामीशा, वर्णमातृका, गौः, श्रीः, वाक्येश्वरी, अन्त्यसन्ध्येश्वरी, सायंसन्ध्यादेवता, गौरी
noun
विद्यायाः वाण्यः अधिष्ठात्री देवता।
"सरस्वत्याः वाहनं हंसः अस्ति।"
वैजयन्तीकोषः
Sanskrit
Word: गौः
Root: गो
Gender: स्त्री
Number: all
अर्थः
Meaning(s):
Cow
Shloka(s):
3|4|41|2 श्रृङ्गिणी सौरभेयी गारर्ध्या माहेय्युषा शुभा॥ (भूमिकाण्डः/पशुसङ्ग्रहाध्यायः)
3|4|42|1 अनड्वाह्यडुह्युस्रा तम्बा तम्पा निलिम्पिका। (भूमिकाण्डः/पशुसङ्ग्रहाध्यायः)
3|4|42|2 रजःपूता कृष्णाऽसौ बहुला क्षितिसम्भवा॥ (भूमिकाण्डः/पशुसङ्ग्रहाध्यायः)
Synonym(s):
3|4|41|2 शृङ्गिणी (शृङ्गिणी) (स्त्री) Cow
3|4|41|2 सौरभेयी (सौरभेयी) (स्त्री) Cow
3|4|41|2 गौः (गो) (स्त्री) Cow
3|4|41|2 अर्घ्या (अर्घ्या) (स्त्री) Cow
3|4|41|2 माहेयी (माहेयी) (स्त्री) Cow
3|4|41|2 उषा (उषा) (स्त्री) Cow
3|4|41|2 शुभा (शुभा) (स्त्री) Cow
3|4|42|1 अनड्वाही (अनड्वाही) (स्त्री) Cow
3|4|42|1 अनडुही (अनडुही) (स्त्री) Cow
3|4|42|1 उस्रा (उस्रा) (स्त्री) Cow
3|4|42|1 तम्बा (तम्बा) (स्त्री) Cow
3|4|42|1 तम्पा (तम्पा) (स्त्री) Cow
3|4|42|1 निलिम्पिका (निलिम्पिका) (स्त्री) Cow
3|4|42|2 रजःपूता (रजःपूता) (स्त्री) Cow
Related word(s):
परा_अपरासंबन्धः सुव्रता
अवयव_अवयवीसंबन्धः सास्ना
अमरकोशः
Sanskrit
Word: गौः
Root: गो
Gender: पुं
Number: all
Meaning(s):
Shloka(s):
2|9|66|2 माहेयी सौरभेयी गौरुस्रा माता शृङ्गिणी॥ (वैश्यवर्गः)
2|9|67|1 अर्जुन्यघ्न्या रोहिणी स्यादुत्तमा गोषु नैचिकी। (वैश्यवर्गः)
3|3|42|2 सर्प मांसात्पशू व्याडौ गोभूवाचस्त्विडा इलाः॥ (नानार्थवर्गः)
3|3|137|1 क्षत्रियेऽपि नाभिर्ना सुरभिर्गवि स्त्रियाम्। (नानार्थवर्गः)
3|3|199|2 बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु॥ (नानार्थवर्गः)
Synonym(s):
2|9|66|2 माहेयी (माहेयी) (स्त्री)
2|9|66|2 सौरभेयी (सौरभेयी) (स्त्री)
2|9|66|2 गौः (गो) (पुं)
2|9|66|2 उस्रा (उस्रा) (स्त्री)
2|9|66|2 मातृ (मातृ) (स्त्री) air, cow, space, earth, mother, parents, any mother, lower mill-stone, father and mother [du.], daisy [Sphaerantus Indicus], 8 classes of female ancestors, daisy [Sphaerantus Indicus - bot.], two pieces of wood used in kindling fire, small water fern [Salvinia Cucullata - Bot.], muskroot plant [Nardostachys Jatamansi - Bot.], divine mothers or personified energies of the principal deities
2|9|66|2 शृङ्गिणी (शृङ्गिणी) (स्त्री)
2|9|67|1 अर्जुनी (अर्जुनी) (स्त्री) cow, bawd, procuress, kind of serpent, name of the constellation phalgunI
2|9|67|1 अघ्न्या (अघ्न्या) (स्त्री)
2|9|67|1 रोहिणी (रोहिणी) (स्त्री)
3|3|42|2 इडा (इडा) (स्त्री) cow, food, earth, speech, comfort, libation, offering, animation, recreation, refreshment, vital spirit, goddess iDA or iLA, stream or flow of praise and worship, particular artery on the left side of the body
3|3|42|2 इला (इला) (स्त्री)
3|3|137|1 सुरभि (सुरभि) (स्त्री) cow, best, good, earth, friend, lovely, famous, any cow, fragrant, pleasing, charming, friendly, virtuous, excellent, celebrated, sweet-smelling, alcoholic drink, spirituous liquor, balmy [nice-smelling], balsamic [nice-smelling], balsamous [nice-smelling]
3|3|199|2 बहुला (बहुला) (स्त्री)
Related word(s):
परा_अपरासंबन्धः स्थूलस्तनी_गौः
पति_पत्नीसंबन्धः वृषभः
स्व_स्वामीसंबन्धः गवां_स्वामिः
जातिः स्तनपायी
अवयव_अवयवीसंबन्धः क्षीरशयः
उपजीव्य_उपजीवक_भावः गोपालः
शब्दकल्पद्रुमः
Sanskrit
गौः, [गो] पुं
स्त्री,
(गच्छतीति गम् +“गमेर्डोः ।” उणां ६७ इति डोः यद्वा, गच्छत्यनेनेति करणे डोः वृषस्य यानसाधन-त्वात् स्त्रीगव्या दानेन स्वर्गगमनसाधनत्वाच्चउभयोरपि दानेन स्वर्गगमनत्वाद्वा तथात्वम् ।वस्तुतस्त्वयं रूढ एब शब्दः यदुक्तम् ।“रूढा गवादयः प्रोक्ता यौगिकाः पाचकादयः ।योगरूढाश्च विज्ञेयाः पङ्कजाद्या मनीषिभिः
”)स्वनामख्यातपशुः गरु इति माषा
पुंगोःपर्य्यायः अनड्वान् इति पदे द्रष्टव्यः
स्त्रीगोःपर्य्यायः माहेषी सौरभेयी उस्रा ४माता शृङ्गिणी अर्ज्जुनी अघ्न्या ८रोहिणी इत्यमरः
माहेन्द्री १० इज्या ११धेनुः १२ अघ्ना १३ दोग्ध्री १४ भद्रा १५ भूरि-मही १६ अनडुही १७ कल्याणी १८ पावनी १९गौरी २० सुरभिः २१ महा २२ निलि-नाचिः २३ सुरभी २४ अनड्वाही २५ द्विडा २६अधमा २७ इति शब्दरत्नावली
बहुला २८मही २९ सरस्वती ३० इति जटाधरः
उस्रिया ३१ अही ३२ अदितिः ३३ इला ३४जगती ३५ शर्करी ३६ इति वेदनिघण्टौ२ अध्यायः
*
(गवां लक्षणादिकं यथा, बृहत्संहितायां ६१ अध्याये ।“पराशरः प्राह बृहद्रथायगोलक्षणं यत् क्रियते ततोऽयम् ।मया समासः शुभलक्षणास्ताःसर्व्वास्तथाप्यागमतोऽभिधास्ये
सास्राविलरूक्षाक्ष्यी मूषकनयनाश्च शुभदागावः ।प्रचलच्चिपिटविषाणाः करटाः खरसदृशवर्णाः
दशसप्तचतुर्दन्त्यः प्रलम्बमुण्डानना विनतपृष्ठाः ।ह्रस्वस्थूलग्रीवा यवमध्या दारितखुराश्च
श्यावातिदीर्घजिह्वागुल्फैरतितनुभिरतिबृह-द्भिर्वा ।अतिककुदाः कृशदेहा नेष्टा हीनाधिकाङ्ग्यश्च
वृषभोऽप्येवं स्थूलातिलम्बवृषणः शिराततक्रोडः ।स्थूलशिराचितगण्डस्त्रिस्थानं मेहते यश्च
मार्ज्जाराक्षः कपिलः करटो वा शुभदोद्विजस्येष्टः ।कृष्णोष्ठतालुजिह्वः श्वसनो यूथस्य धातकरः
स्थूलशकृन्मणिशृङ्गः सितोदरः कृष्णसारवर्णश्च ।गृहजातोऽपि त्याज्यो यूथविनाशावहो वृषभः
श्यामकपुष्पचिताङ्गो भस्मारुणसन्निभो विडा-लाक्षः ।विप्राणामपि शुभं करोति वृषभः परिगृहीतः ।ये चोद्धरन्ति पादान् पङ्कादिव योजिताः कृश-ग्रीवाः ।कातरनयना हीनाः पृष्ठतश्च ते भारसहाः
मृदुसंहतताम्रोष्ठास्तनुस्फिजस्ताम्रतालुजिह्वाश्च ।तनुह्रस्वोच्चश्रवणाः सुकुक्षयः स्पष्टजङ्घाश्च
आताम्रसं हतखुरा व्यूढोरस्का बृहत्ककुद-युक्ताः ।स्निग्धश्लक्ष्णतनुत्वग्रोमाणस्ताम्रतनुशृङ्गाः
तनुभूस्पृग्बालधयो रक्तान्तविलोचना महो-च्छासाः ।सिंहस्कन्धास्तन्वल्पकम्बलाः पूजिताः सुगताः
वामावर्त्तैर्वामे दक्षिणपार्श्वे दक्षिणावर्त्तैः ।शुभदा भवन्त्यनडुहो जङ्घाभिश्चैणकनिभाभिः
वैदूर्य्यमल्लिका बुद्बुदेक्षणाः स्थूलनेत्रचर्म्माणः ।पार्ष्णिभिरस्फुटिताभिः शस्ताः सर्व्वेऽपि भार-वहाः
घ्राणोद्देशे सवलिर्मार्ज्जारमुखः सितश्च दक्षि-णतः ।कमलोत्पललाक्षाभः सुवालधिर्वाजितुल्यजवः
लम्बैर्वृषणैर्मेषोदरश्च सङ्क्षिप्तवङ्क्षणाक्रोडः ।ज्ञेयो भाराध्वसहो जवेऽश्वतुल्यश्च शस्तफलः
सितवर्णः पिङ्गाक्षस्ताम्रविषाणेक्षणो महा-वक्त्रः ।हंसो नाम शुभफलो यूथस्य विवर्द्धनः प्रोक्तः
भूस्पृग्वालधिराताम्रवङ्क्षणो रक्तदृक् ककुद्मी ।कल्माषश्च स्वामिनमचिरात्कुरुते पतिं लक्ष्म्याः
यो वासितैकचरणो यथेष्टवर्णश्च सोऽपि शस्त-फलः ।मिश्रफलोऽपि ग्राह्यो यदि नैकान्तप्रशस्ती-ऽस्ति
*
गोरीङ्गितभेदेन शुभाशुभमुक्तं यथा, तत्रैव९२ अध्याये, --“गावो दीनाः पार्थिवस्याशिवायपादैर्भूमिं कुट्टयन्त्यश्च रोगान् ।मृत्युं कुर्व्वन्त्यश्रुपूर्णायताक्ष्यःपत्युर्भीतास्तस्करानारुवन्त्यः
अकारणे क्रोशति चेदनर्थोभयाय रात्रौ वृषभः शिवाय ।भृशं निरुद्धा यदि मक्षिकाभि-स्तदाशु वृष्टिं सरमात्मजैर्व्वा
आगच्छन्त्यो वेश्म बम्भारवेणसंसेवन्त्यो गोष्ठवृद्ध्यै गवां गाः ।आर्द्राङ्ग्यो वा हृष्टरोम्ण्यः प्रहृष्टाधन्या गावः स्युर्महिष्योपि चैवम्
*
)गोर्मङ्गलत्वादि यथा, देवलः ।“लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौर्हताशनः ।हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः
एतानि सततं पश्येन्नमस्येदर्च्चयेच्च यः ।प्रदक्षिणञ्च कुर्व्वीत तथा चायुर्न हीयते
”अभिप्रेतार्थसिद्धिर्म्मङ्गलं तद्धेतुतया ब्राह्मणा-द्यपि
*
गोप्रणामे ब्रह्मपुराणम् ।“सदा गावः प्रणम्यास्तु मन्त्रेणानेन पार्थिव ! ।नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव
नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमो नमः ।मन्त्रस्य स्मरणादेव गोदानफलमाप्नुयात्
”भविष्ये ।“गामालभ्य नमस्कृत्य कृत्वा चैव प्रदक्षिणम् ।प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा
गवामस्थि लङ्घेत मृते गन्धेन वर्ज्जयेत् ।यावदाध्राति तद्गन्धं तावद्गन्धेन युज्यते
”विष्णुः ।“गोमूत्रं गोमयं क्षीरं सर्पिर्दधि रोचना ।षडङ्गमेतन्मङ्गल्यं पवित्रं सर्व्वदा गवाम्
”षडङ्गं षट्प्रकारम् इति शुद्धितत्त्वम्
*
तन्मांसगुणाः सुस्निग्धत्वम् पित्तश्लेष्मविवर्द्धन-त्वम् बृंहणत्वम् बलकारित्वम् पीनसप्रदर-नाशित्वञ्च इति भावप्रकाशः
अपूतत्वम् ।गुरुत्वम् वातकफापहत्वञ्च
*
तद्दग्धगुणाः ।पथ्यत्वम् अत्यन्तरुच्यत्वम् स्वादुत्वम् स्निग्ध-त्वम् पित्तवातामयनाशित्वम् मेध्यत्वम् ।कान्तिप्रज्ञाङ्गपुष्टिवीर्य्यवृद्धिकारित्वञ्च
(यथाच हारीते प्रथमस्थानेऽष्टमाध्याये ।“गव्यं पवित्रञ्च रसायनञ्चपथ्यञ्च हृद्यं बलपुष्टिदं स्यात् ।आयुःप्रदं रक्तविकारपित्त-त्रिदोषहृद्रोगविषापहं स्यात्
*
)तद्दधिगुणाः अतिपवित्रत्वम् शीतत्वम् ।स्निग्धत्वम् दीपनत्वम् बलकारित्वम् मधुर-त्वम् अरोचकवातामयनाशित्वम् ग्राहित्वञ्च
(यथा हारीते प्रथमस्थानेऽष्टमेऽध्याये ।“अम्लस्वादुरसं ग्राहि गुरूष्णं वातरोगजित् ।मेदः-शुक्र-बल-श्लेष्म-रक्तपित्ताग्नि-शोफकृत्
स्निग्धं विपाके मधुरं दीपनं बलवर्द्धनम् ।वातापहं पवित्रञ्च दधि गव्यं गुणप्रदम्
*
तद्दग्धफेनगुणाः ।“गवान्तु क्षीरफेनं वा तक्रेण सहितन्तथा ।पक्वाम्रं भक्षयेद्वापि ग्रहणी तस्य नश्यति
”)तन्नवनीतगुणाः शीतत्वम् वर्णबलशुक्रकफ-रुचिसुखकान्तिपुष्टिकारित्वम् सुमधुरत्वम् ।संग्राहकत्वम् चक्षुर्हितत्वम् वातसर्व्वाङ्गशूल-कासश्रमसर्व्वदोषनाशित्वञ्च
*
तद्घृतगुणाः हृद्यत्वम् धीकान्तिस्मृतिबल-मेधापुष्ट्यग्निवृद्धिशुक्रवपुःस्थौल्यकारित्वम् वात-श्लेष्मश्रमपित्तनाशित्वम् विपाके मधुरत्वम् ।हव्यतमत्वम् बहुगुणत्वञ्च
(तथा ।“विपाके मधुरं वृष्यं वातपित्तकफापहम् ।चक्षुष्यं बलकृन्मेध्यं गव्यं सर्पिर्गुणोत्तमम्
”इति हारीते प्रथमस्थाने अष्टमेऽध्याये
*
)“गवां प्रत्यूषसि क्षीरं गुरु विष्टम्भि दुर्ज्जरम् ।तस्मादभ्युदिते सूर्य्ये यामं यामार्द्धमेव वा
समुत्तार्य्य पयो ग्राह्यं तत् पथ्यं दीपनं लघु ।विवत्साबालवत्सानां पयो दोषसमीरितम्
शस्तं वत्सैकवर्णाया धवलीकृष्णयोरपि ।इक्ष्वादा मासपर्णादा ऊर्द्ध्वशृङ्गी या भवेत्
तासां गवां हितं क्षीरं शृतं वाशृतसेव वा ।गवां सितानां वातर्घ्न कृष्णानां पित्तनाशनम् ।श्लेष्मघ्नं रक्तवर्णानां त्रीन् हन्ति कपिलापयः
”इति राजनिर्घण्टः
गौः, [गो]
पुं,
(गम्यते कर्म्मिभिः यज्ञदान-परोपकारादिधर्म्ममूलककर्म्मफलैर्यस्मिन् गम्+ “गमेर्डोः ।” उणां ६३ इति अधि-करणे डोः ।) स्वर्गः (गम्यन्ते ज्ञायन्तेविषया येन यद्वा गच्छति शीघ्रमिति करणेकर्त्तरि वा डोः किरणसम्पर्केण विना चाक्षुष-ज्ञानाभावात् किरणस्य ज्ञानप्रकाशधर्म्मवत्त्वात्शीघ्रगामित्वाच्च तथात्वम् ।) रश्मिः (यथा, महाभारते ५२ ।“त्रयोदशद्वीपवतीं गोभिर्भासयसे महीम् ।त्रयाणामपि लोकानां हितायैकः प्रवर्त्तसे
*
)वज्रः इति मेदिनी गे
(गम्वते पुण्यवद्भि-र्यस्मिन् अधिकरणे डोः इष्ट्यापूर्त्तादिसकाम-कर्म्मभिः पुण्यवताञ्चन्द्रलोकगमनात् तथा-त्वम् ।) चन्द्रः इति विश्वः
(गच्छति प्राप्नोतिविश्वं प्रकाशकात्मकेन स्वतेजसेति जानातिसर्व्वमिति वा कर्त्तरि डोः ।) सूर्य्यः गोमेध-यज्ञः इत्यमरटीकायां भानुदीक्षितः
ऋषभ-नामौषधम् इति राजनिर्घण्टः
गौः, [गो]
स्त्री,
(गम्यते विषयज्ञानं यया गम्+ “गमेर्डोः ।” उणां ६३ इति करणेडोः ।) चक्षुः (गच्छति शीघ्रमिति कर्त्तरिडोः ।) बाणः दिक् (गम्यते ज्ञायते चित्ताभि-प्रायो यया करणे डोः ।) वाक (यथा, रघुः १२ ।“इत्यध्यपात्रानुमितव्ययस्यरघोरुदारामपि गां निशम्य
*
गम्यते व्रज्यतेऽस्यामिति अधिकरणे डोः ।)भूः (यथा, रघुः २६ ।“दुदोह गां यज्ञाय शस्याय मघवा दिवम् ।सम्पद्विनिमयेनोभौ दधतुर्भुवनद्वयम्
*
जले बहुवचनान्तोऽयम् इति मेदिनी गे
जले एकवचनान्तोऽपि इति केचित् इतिभरतः
(यथा, वृन्दावनयमके ।“स्वमिव भुजं गवि शेषंव्युपधाय स्वपिति यो भुजङ्गविशेषम् ।नव पुष्करसमकरयाश्रीयोर्म्मिपंक्त्या सेवितः समकरया
”)माता इत्येकाक्षरकोषः
(स्वनामख्याताशुकदौहित्रस्य ब्रह्मदत्तस्य भार्य्या यथा, भाग-वते २१ २५ ।“स कीर्त्त्यां शुककन्यायां ब्रह्मदत्तमजीजनत् ।स योगी गवि भार्य्यायां विष्वक्सेनमधात् सुतम्
”“गवि सरस्वत्यां भार्य्यायाम्
इति कश्चित्व्याचष्टे
)
गौः, [गो]
पुं,
क्ली,
(गम्यते ज्ञायते स्पर्शसुख-मनेन गम् + “गमेर्डोः ।” उणां ६३ ।इति करणे डोः त्वचि जातत्वादेवास्य तथा-त्वम् ।) लोम (गच्छति निम्नदेशमिति ।कर्त्तरि डोः निम्नप्रवणादेवास्य तथात्वम् ।)जलम् इत्यमरटीकायां भानुदीक्षितः