गोहत्या (gohatyA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Macdonell
EnglishApte Hindi
Hindiगोहत्या
गो-हत्या -
गोवध
Shabdartha Kaustubha
Kannadaगोहत्या
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಗೋವಿನ ಹನನ /ಹಸುವಿನ ಕೊಲೆ
व्युत्पत्तिः - > गोः हत्या
Wordnet
Sanskrit गोवधः, गोहत्या
गोः हत्या।
"हिन्दूधर्मानुसारेण गोवधः इति महापापम् अस्ति।"
पुराणम्
Englishगोहत्या / GOHATYĀ. In ancient india killing of cows was considered to be a great sin. It is interesting to note the punishment prescribed for this crime in the agni purāṇa. For one month he should drink barley water only. He should live in a cow-shed wearing the hide of the cow he has killed. He can have some supper and that too without salt He must bathe for two months in cow's urine. During day time he should follow the cows looking after their comfort. He should drink the menstrual discharge with his face lifted upwards. Fasting, he should give away as charity ten cows and a bull. If not, he should give as charity all his wealth to god-fearing brahmins. If a man only stops the cow for others to kill he should bear a fourth of the punishment
if he stops and ties it for killing he should bear half of the punishment and if he stops it, ties it and gives the weapon for killing he should bear three-fourths of the punishment. (agni purāṇa, Chapter 159),
शब्दकल्पद्रुमः
Sanskritगोहत्या, (गवां हत्या हननम् ।) गोवधः ।तत्प्रायश्चित्तादि प्रायश्चित्तशब्दे द्रष्टव्यम् ॥
* ॥
पारिभाषिकगोहत्या यथा, --सावित्र्युवाच ।“विप्रहत्याञ्च गोहत्यां किंविधामातिदेशिकीम् ।का वा नृणामगम्या वा को वा सन्ध्याविहीनकः ॥
एतेषां लक्षणं सर्व्वं वद वेदविदां वर ! ॥
यम उवाच ।गामाहारं प्रकुर्व्वन्तं पिबन्तं यो निवारयेत् ।याति गोविप्रयोर्म्मध्ये गोहत्याञ्च लभेत्तु सः ॥
दण्डैर्गान्ताडयन् मूढो यो विप्रो वृषवाहकः ।दिने दिने गवां हत्यां लभते नात्र संशयः ॥
ददाति गोभ्य उच्छिष्टं भोजयेद्वृषवाहकम् ।भोजयेद्वृषवाहान्नं स गोहत्यां लभेद् ध्रुवम् ॥
वृषलीपतिं याजयेद् यो भुङ्क्तेऽन्नं तस्य यो नरः ।गोहत्याशतकं सोऽपि लभते नात्र संशयः ॥
पादं ददाति वह्नौ यो गाञ्च पादेन ताडयेत् ।गृहं विशेदधौताङ्घ्रिः स्नात्वा गोवधमालभेत् ॥
यो भुङ्क्तेऽस्निग्धपादेन शेते स्निग्धाङ्घ्रिरेव च ।सूर्य्योदये च द्विर्भोजी स गोहत्यां लभेद् ध्रुवम् ॥
अवीरान्नञ्च यो भुङ्क्ते योनिजीवी च ब्राह्मणः ।यस्त्रिसन्ध्याविहीनश्च स गोहत्यां लभेद् ध्रुवम् ॥
पितॄं श्च पर्व्वकाले च तिथिकाले च देवताः ।न सेवतेऽतिथिं यो हि स गोहत्यां लभेद् ध्रुवम् ॥
स्वभर्त्तरि च कृष्णे वा भेदबुद्धिं करोति या ।कटूक्त्या ताडयेत् कान्तं सा गोहत्यां लभेद् ध्रुवम् ॥
गोमार्गं खननं कृत्वा ददाति शस्यमेव च ।तडागे च तदूर्द्ध्वे वा स गोहत्यां लभेद् ध्रुवम् ॥
प्रायश्चित्तं गोवधस्य यः करोति व्यतिक्रमम् ।अर्थलोभादथाज्ञानात् स गोहत्यां लभेद् ध्रुवम् ॥
राजके दैवके यत्नात् गोस्वामी गां न पालयेत् ।दुःखं ददाति यो मूढो गोहत्यां लभते ध्रुवम् ॥
प्राणिनं लङ्वयेद्यो हि देवार्च्चामनलं जलम् ।नैवेद्यं पुष्पमन्नञ्च स गोहत्यां लभेद् ध्रुवम् ॥
शश्वन्नास्तीति वादी यो मिथ्यावादी प्रतारकः ।देवद्वेषी गुरुद्वेषी स गोहत्यां लभेद् ध्रुवम् ॥
देवताप्रतिमां दृष्ट्वा गुरुं वा ब्राह्मणं प्रति ।न सम्भ्रमान्नमेत् यो हि स गोहत्यां लभेद् ध्रुवम् ॥
न ददात्याशिषं कोपात् प्रणताय च यो द्बिजः ।विद्यार्थिने च विद्याञ्च स गोहत्यां लभेद् ध्रुवम् ॥
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥
वाचस्पत्यम्
Sanskritगोहत्या स्त्री ६ त० । गोहनने । प्राणवियोगफलक-व्यापारोहननम् यथाह वह्निपु० “स्यात् प्राणवियोग-फलकव्यापारोहननं स्मृतम् । रागात् द्वेषात् प्रमा-दाद्वा स्वतः परत एव वा” । हत्याया ज्ञानाज्ञानकृतत्वं च प्रा० त० न्यरूपि यथा“अथ ज्ञानकृतादिनिरूपणम् । तत्र गोबधस्य बुद्धिपूर्व-कत्वं तदा भवति, यदि गां ज्ञात्वा एतां हन्मीति इच्छयाहन्ति, तदा कामनाद्वारैव ज्ञानस्य प्रवृत्त्यङ्गत्वात्, तदभावे त्ववुद्धिपूर्बकत्वम् । अतएव प्रवृत्त्यङ्गज्ञानस्य काम-नाव्यभिचाराभावादेव “कृच्छांस्तु चतुरः कुर्य्यात् गोब-धे बुद्धिगूर्वके । अमत्या च द्वयं कार्य्यम्, इति विश्वामि-त्रवचने ज्ञानाज्ञानाभ्यां द्वैविध्यमुक्तम् अन्यत्र कामाका-माभ्यामित्युक्तम् यथा वृहस्पतिः “कामाकामकृतं त्वेवं महापाप द्विधा मतम् । पुरुषापेक्षंया चैवनिष्कृतिर्द्विविधा स्मृता” । इत्थञ्च गवयादिभ्रमेणयोगोबधस्तत्र बधस्य न ज्ञानकृतत्व गोत्वेनाज्ञानात् ।गोत्वेन गां जानन्नप्यन्योद्देशक्षिप्तनाराचादिना यदि हन्तितदापि न ज्ञानकृतत्वं तद्विषयकहननेच्छारूपद्वाराभावात्” ।तत्र साक्षात् परम्पराकृतव्यापारभेदः मिता० उक्तो यथा“साक्षात्कर्वृ निमित्तिनोश्च भेदस्तेनैव दर्शितः “पाषाणै-र्लगुडैर्वापि शस्त्रेणान्येन वा बलात् । निपातयन्ति ये-गास्तु कृत्स्नं कुर्युर्व्रतंहि ते । तथैव बाहुजङ्घांसपार्श्व-ग्रीवादिमोटनैरिति” । एतदुक्तम्भवति । पाषाणल-गुडादिभिर्ग्रीवादिमोटनादिना वा ये गां निपातयन्ति ।ते साक्षाद्धन्तारस्तेष्वेव कृत्स्नं प्रायश्चितम् । ये तु व्यव-हित रोधबन्धादिव्यापारयोगिनस्ते निमित्तिन स्तेषांन कृत्स्नव्रतसम्बन्धः किन्तु तदवयवैरेव पादद्विपादा-दिभिरिति तत्रावरोधादीनां व्यवहितव्यापारत्वाविशे-षेऽपि वचनात् क्वचित्पादः क्वचिद्द्विपादः पादोनंक्वचिदिति” युक्तम् ।तस्याः शोधकं प्रायश्चित्तं खामिभेदाद्भिन्नं प्रा० त० उक्तंयथा तत्र ब्राह्मणस्यामिकस्य गोर्वधे मानवं प्रायश्चित्तंतच्च गोघ्नशब्दे दर्शितं तत्र सप्तदश धेनवः तन्मूल्यं वा ।क्षत्रियस्वामिकस्य गोर्बधे देवलोक्तं तच्च तत्रैवोक्तं यथा“गोघ्नः षण्मासान् तच्चर्मणा परिवृतो गोग्रासाहारोगोव्रती यवाशी गोभिरभिसञ्चरन् विप्रमुच्यते” । गोग्रासा-हारो गोग्रासाहर्त्ता “कर्मण्यण्” इति साधुः । षण्मास-यावकभक्षणं द्वादशप्राजापत्यतुल्यंदक्षिणा च विशेषानुप-देशाद् यथाशक्ति देयेति । एतज्ज्ञानादज्ञानात्तदर्द्धंस्त्रीशूद्रवालवृद्धानामर्द्धम् एकस्योभयपरत्वे पादः ।वैश्यसम्बन्धिनो गोर्बधे तु शातातपः “पञ्चगव्येनगोघाती मासैकेन विशुध्यति । गोमतीञ्च जपेद्विद्यांगवां गोष्ठे च संवसेत्” । पञ्चगव्यमाह शातातपः“गोशकृत् द्विगुणं, सूत्रं सर्पिर्विद्याच्चतुर्गुणम् । क्षीर-मष्टगुणञ्चैव पञ्चगव्ये तथा दधि” तथाऽष्टगुणम् । यमः“आहृत्य प्रणवेनैव उत्थाप्य प्रणवेन च । प्रणवेन समा-लोड्य प्रणवेनैव तत्पिबेत्” । उत्थाष्य मिश्रीकृत्य ।“मन्त्राज्ञाने मिताक्षरायां षट्त्रिंशन्मतम् “जपहोमादियत्किञ्चित् कृच्छ्रोक्तं सम्भवेन्न चेत् । सर्वं व्याहृतिभिःकुर्य्यात् गायत्र्या प्रणवेन च” । गवां गोष्ठ इति श्रव-णकुण्डलबत् तातकालिकगोसत्त्वावबोधाय । गोमतीजपसहितमासपञ्चगव्यपानं प्राजापत्यपञ्चकतुल्यम् । एत-दज्ञानकृते ज्ञानकृते तु द्वैगुण्यम् । स्त्रीशूद्रबालवृद्धा-नामर्द्धम् एकस्योभयधर्मपरत्व पादः ।शूद्रसम्बन्धिनोगोर्वधे तु विश्वामित्रः “कृच्छ्रास्तु चतुरःकुर्य्यात् गोबधे बुद्धिपूर्वके । अमत्या च द्वयं कार्य्यं तदर्द्धं बालवृद्धयोः । स्त्रीशूद्रयोरेवमेतद्बधे चैव न संशयः” । कृच्छ्रा-न् प्राजापत्यानि । तच्चतुष्टयाशक्तौ चतस्रोधेनवः द्वादशकार्षापणा वा । एतज्ज्ञानकृते अज्ञाने तदर्द्धंस्त्रीशूद्रबाल-वृद्धानामर्द्धम् । एकस्योभयधर्म्मपरत्वे पादः । प्रा० त० रघु० ।स्वामिकृतविशेषस्तु प्रायश्चित्तविवेकानुसारादुक्तः ।गर्भिण्यादौ तु विशेषमाह वृहस्पतिः “गर्भिणीं कपिलांदीग्ध्रीं होमधेनुञ्च सुव्रताम् । रोधादिना घातयित्वाद्विगुणं गोव्रतञ्चरेत्” । गर्भिणीवधे तु विशेषमाहवृद्धयमः “गवां निपतने चैव गर्भनाशोयदा भवेत् ।एकेकत्र चरेत् कृच्छ्रं यथापूर्वं तथा परम्” । कृच्छ्रपदंव्रतपरम् द्विगुणं गोव्रतमित्येकवाक्यत्वात् “पादमुत्-पन्नमात्रे तु द्वौ पादौ गात्रसम्मिते । पादोनं व्रतमाचष्टेहत्वा गर्ममचेतनम् । अङ्गप्रत्यङ्गसम्पन्ने गर्भे चेतःसम-न्विते । द्विगुणं गोव्रतं कुर्य्यात् प्रायश्चित्तं विशुद्धये” ।मध्यमवचनं भवदेवेन व्याख्यातम् यथा “यदि लगुडाद्यभि-घातेन गौर्जीवति गर्भमात्रपातो भवति तदोत्पन्नगर्भमात्र-पाते यथोक्तप्रायश्चित्तपादाचरणम् । गात्रावयवात्पत्तौप्रायश्चित्तपादद्वयं सकलगात्रसम्पत्तौ चैतन्याभावे प्रायश्चि-त्तमूहनीयम्” । मिताक्षरायान्तु गर्गीणीबधे यदा गर्भोऽपिनिहतोभवति तदा प्रतिनिमित्तं नैमित्तिकमावर्त्तत इतिन्यायादविशेषेण द्विगुणव्रतप्राप्तौ षटत्रिंशन्मते विंशेषोक्तेः“पादौत्पन्नमात्रे तु द्वौ पादौ दृढतां गते । पादोनंव्रतमुद्दिष्टं हत्वा गर्भमचेतनम् । अङ्गप्रत्यङ्गसम्पन्ने गर्भेचेतःसमन्विते । द्विगुणं गोब्रतं कुर्य्याद्देषा गोघ्नस्यनिष्कृतिः” । दोग्धीं बहुक्षीराम् । वृहस्पतिः“अतिवृद्धामतिकृशामतिबालाञ्च रोगिणीम् । हत्वा पूवी-विधानेन चरेदर्द्धं व्रतं द्विजः” । पूर्वविधानेन मन्वाद्युक्त-त्रैमासिकादिना अतिवृद्धा तृणच्छेदनासमर्था अतिकृशाकृशत्वेन दोहनवाहनायोग्या अतिबाला वर्षपर्य्यन्तंबाला तदतिक्रान्ता द्विवर्षीया । तथा च वृहदङ्गिराः“वर्षमात्रा तु बाला स्यादतिबाला द्विवार्षिकी । अतः-परन्तु सा गौः स्यात्तरुणी दन्तजन्मनि” । अतएव वक्ष्यतेद्विपादस्तु द्विहायने” इति संवर्त्तः । “व्यापन्नानांबहूनाञ्च बन्धने रोधनेऽपिवा । मिषङिमथ्योपचारे चद्विगुणं गोव्रतञ्चरेत् । एकप्रयत्ने निष्पन्ने बहूनां गवावधे प्रायश्चित्तगौरवमुक्तं न तु तन्त्रता पापभेदाभावात्एकप्रयत्नजन्यत्वेनैकमेव गुरुतरं पापमिति प्रायश्चित्तमपितथा । बहूनामित्येकाधिकपरम् । तद्विवक्षायामपि गो-द्वयबधे प्रयत्नाभेदेऽपि विशेषवचनाभावात् प्रायश्चित्तद्वैगु-ण्यं युक्तम् । अपिशब्दात् गृहदाहादिना । क्रमकृते तुप्रायश्चित्तावृत्तिः । यथोपपातकानुवृत्तौ यमः “गोघ्नवद्वि-हितः कल्पश्चान्द्रायणमथापि वा । अभ्यासे तु तयोर्भूय-स्ततःशुद्धिमवाप्नुयात्” । तयोर्गोबधतदन्योपपातकयोः ।संवर्त्तापस्तम्बौ “एका चेद्बहुभिः क्वापि दैवाद्व्यापादिताभवेत् । पादं पादञ्च हत्यायाश्चरेयुस्ते पृथक् पृथक्” ।हत्याया यत्र यद्विहित व्रतं तत्र तस्यैव पादं प्रत्येकंकुर्य्युः । एकेत्युपलक्षणम् अतोबहुभिर्द्वयोर्बहूनाञ्चहनने प्रतिपुरुषं पादद्वयं त्रयं वा कल्पनीयमितिमिताक्षरा । वस्तुतस्तु एकाधिकानामेकैकपुरुषस्यैकप्रयत्नजन्यवधे “व्यापन्नानां बहूनामिति” पूर्वोक्तवचनात् एकैक-पुरुषस्य द्विपादं प्रायश्चित्तम् प्रयत्नभेदे तु गोघ्नव-दित्यनेन तन्त्रताया अभावात् प्रत्येकं प्रतिपुरुषं द्वि-पादावृत्तिरिति । एतच्चाकामतोबधे द्रष्टव्यम् दैवादितिविशेषोपादानात् कामकृते तु बहूनामपि प्रत्येकं कृत्स्न-दोषसम्बन्धात् पूर्णप्रायश्चित्तं युक्तं सत्रिणां फलमिवप्रतिपुरुषं कृत्स्नव्यापारसमवायात् । “एकं घ्नतां बहू-नाञ्च यथोक्ताद्घिगुणोदमः” इति प्रत्येकं दण्डद्वैगुण्य-दर्शनाच्चेति मिताक्षरा । वस्तुतस्तु सर्वत्र पापे “स्यात्त्व-कामकृते यत्तु द्विगुणं बुद्धिपूर्वके” इत्यङ्गिरोचनेनाज्ञा-नात् ज्ञाने द्वैगुण्यदर्शनादत्रापि ज्ञाने द्विपादएव युक्तः ।सत्रे तु “सप्तदशावराऋद्धिकामाः सत्रमुपासीरन्निति”श्रवणात्तथेति । एकं घ्नतामिति परवचनन्तु गोबधाति-रिक्तविषयम् गोबधे एका चेदित्युपदेशेन दण्डवत्प्रायश्चित्तानि भवन्तीत्यतिदेशानवसरात् । तदवसरत्वेप्रत्येकं पूर्णप्रायश्चित्तद्वैगुण्यं स्यात् न पूर्णप्रायश्चित्तमात्रम्अतएव प्रायश्चित्तविवेके “एकं घ्नतां वहूनामिति” मनु-ष्यवधे उक्तम् । बहुभिरित्युपादानात् द्वाभ्यां हनने तुप्रत्येकं सम्पूंर्णप्रायश्चित्तम्” ।अथैकहायनादिगोबधप्रायश्चित्तम् वृद्धप्रचेताः “एकवर्षेगवि हते कृच्छ्रपादो विधीयते । अबुद्धिपूर्वं पुंसः स्यात्द्विपादस्तु द्विहायने । त्रिहायणे त्रिपादः स्यात् प्राजा-पत्यमतःपरम्” । इदमपि प्रायश्चित्तलाघवेन अबुद्धिपूर्वका-धमशूद्रस्वामिकब्रधविषयमिति प्रायश्चित्तविवेकः । तेनयत् स्वामिकबधे यत् प्रायश्चित्तं तस्यैव तत्र प्रादादिकमू-हनीयमतएवातिबालामित्यत्र तथैवोक्तम् । अतःपरंचतुर्हायणे इत्यर्थः । बुद्धिपूर्वे एतदेव द्विगुणमित्यर्थः”प्रा० त० रघुः ।अपालननिमित्तगोबधप्रायश्चित्तम् प्रा० त० उक्तं, यथापराशरः “शीतानिलहता चैव उद्बन्धनमृतापि वा ।शून्यागाराद्युपेक्षायां प्राजापत्यं विनिर्दिशेत् । अपा-लनात् प्रणश्येत्तु गौश्चरन्ती कथञ्चन । जलौघपल्वलेमग्ना नागविद्युद्धतापि वा । श्वभ्रे वा पतिताऽकस्मात्श्वापदैर्वापि भक्षिता । प्राजापत्यं चरेत् कृच्छ्रं गो-स्वामी व्रतमुत्तमम् । सशिखं वपनं कार्यं त्रिसन्ध्यमव-गाहनम् । शृङ्गैर्वापि खुरैर्युक्तं लाङ्गूलश्रवणादिभिः ।आर्द्रमेव हि तच्चर्म परिधाय स गां व्रजेत् । तासांमध्ये वसेद्रात्रौ दिवा ताभिः समं व्रजेत् । ब्राह्मणस्यविशेषेण तथा राजन्यवैश्ययोः । प्रायश्चित्ते ततश्चीर्णेकुर्याद्ब्राह्मणभोजनम् । अनडुत्सहितां गाञ्चदद्याद्विप्रायदक्षिणाम्” । अत्र गोस्वामीत्यभिधानात् उत्सृष्टवृषवत्-सतरीषु स्वत्वाभावादपालननिमित्तकतद्बधे तदुत्स्रष्टु-र्दोषोनास्तीति प्रतीयते । तत्स्वत्वाभावेनान्येषां सम्भाव्यमानमौपादानिकस्वत्वं निराकरोति कल्पतरुधृ-तव्रह्मपुराणम् “अथ वृत्ते वृषोत्सर्गे दाता वक्रो-क्तिभिः पदैः । ब्राह्मणानाह, यत् किञ्चित् मयोत्सृष्टन्तुनिर्जने । तत् कश्चिदन्योन नयेद्विभाज्यञ्च यथाक्रमम् ।न वाह्यं न च तत्क्षीरं पातव्यं केनचित् क्वचित्” ।बक्रोक्तिभिः काकूक्तिभिः स्वाम्यभावेनोत्सृष्टपशोः पाल-ननियमाभावाद्धान्यादिभक्षणे मोच्यत्वमप्याह याज्ञवल्क्यः“महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः । पालो-येषाञ्च ते मोच्या दैवराजपरिप्लुताः” । महोक्षोऽनि-र्वाय्यः महावलीवर्द्दः । उत्सृष्टपशवः देवतोद्देशेनपित्रादिनिष्ठफलोद्देशेन वा चक्राद्यङ्कितास्त्यक्तपशवः । सू-तिका अनिर्गतदशाहाः । आगन्तुका ग्रामान्तरादा-गताः । आदिशब्दात् उशनसोक्ताश्च यथा “अदण्ड्याहस्तिनोऽश्वाश्च प्रजापाला हि ते स्मृताः । अदण्ड्याःकाणकुण्ठाश्च वृषभः कृतलक्षणः” कुण्ठः खञ्जः । अत्रकाणकुण्ठशब्दाभ्यामत्यन्ताक्षम उच्यते । वृषभःकृतलक्षणःप्रागुक्तोत्सृष्टपशुः एते सपालां विपाला वा सर्वथामोच्याः तथा च मनुः “अनिर्दशाहां गां सूतांवृषान् देवपशूंस्तथा । सपालान् वा विपालान् वा अ-दण्ड्यान् मनुरव्रबीत्” । एतद्भिन्नानां येषाञ्च पालोऽस्तितेऽपि मोच्याः । अर्थात्तत्र पालोदण्डनीयः । दैवराज-परिप्लुताः गजादिद्रावणात् सेनादिदर्शनाद्वा पला-यिताः पशवो यदि क्षेत्रे चरन्ति तदा न दोष इत्यर्थः ।पलकान्तरसत्त्वे तु मनुः “दिवा वक्तव्यता पालेरात्रौ स्वामिनि तद्गृहे । योगक्षेमेऽन्यथा चेत्तु पालोव-क्तव्यतामियात्” । “दिवा पशूनां पालहस्तन्यस्तानां योग-क्षेमविषये दोषे जाते पालकस्य गर्हणीयता रात्रौपुनः पालप्रत्यर्पितानां स्वामिनां दोषः । अन्यथा यदिरात्रावपि पालहस्तगता भवन्ति तदा दोषे उत्पन्नेपाल एव गर्हणीयतां प्राप्नोति” इति कुल्लूकभट्टः ।स्मृतिसागरे वृहदङ्गिराः “अनागतस्य चानेता आ-गतस्य च रक्षकः । रात्रावपि यदान्योऽस्ति तदा स्वा-मी न दोषभाक्” । ननु दण्डप्रकरणोक्तमनुवचनं प्राय-श्चित्ते कथमिति चेन्न । “दण्डवत् प्रायश्चित्तानि भव-न्तीति” श्रुतेः तथा व्यवहाराच्च । एवञ्च “यत्रापवर्त्ततेयुग्यं वैगुण्यं प्राजकस्य च । तत्र स्वामी भवेद्दण्ड्योहिंसायां द्विशतं दमः” इति मनुवचने “यत्र सारथे-रकौशलात् यानमन्यथा गच्छति तत्र हिंसायामसु-शिक्षितसारथिनियोगात् स्वामी द्विशतं दण्डं दाप्यःस्यादिति” कुल्लूकभटृव्याख्यानदर्शनात् अयोग्यपालक-समर्पणे स्वामिनो दोषात्तस्यैव प्रायश्चित्तमुक्तम् । “यावत्शस्यं विनश्येत्तु क्षेत्री तावत् फलं लभेत् । पालस्ता-ड्योऽथ गोस्वामी पूर्वोक्तं दण्डमर्हति” याज्ञबल्क्यवचनेगवादिदोषेण यावत् शस्यं विनश्यति तावदेव पाल-कात् प्राप्तव्यं पालकाशक्तौ पालकस्ताड्यः स्वामी पूर्वोक्तंदण्डादिमर्हतीति दर्शनाच्च । गोबधप्रायश्चित्ते पालकद्र-व्यासम्भवे स्वामिना द्रव्यं दत्त्वा प्रायश्चित्तं कारयि-तव्यं कर्त्तव्यं वा । म्लेच्छपालके स्वयं कर्त्तव्यम् ।सशिखवपनमित्यत्र नैंमित्तिकेन सशिखवपनेन “सदावद्धशिखेन तु” इत्यस्य “गायत्र्या तु शिखां बद्ध्वा नैरृत्यांव्रह्मरन्ध्रवः । जुटिकान्तु ततोबद्ध्वा ततः कर्म समाच-रेत्” इति ब्रह्मपुराणोक्तस्य च नित्यस्य बाधोनदोषाय फलचमसेन सोमस्य बाधवत् गोदोहेन चमसस्यबाधवच्च । “सशिखं वपनं कार्यमास्नानात् ब्रह्मचारिणा ।इति कात्यायनकृतछन्दोगपरिशिष्टेऽप्येवम् । एतदेकश्रु-तिमूलकत्वात् तद्धृतपारस्करीये पर्युप्तशिरसमिति सू-त्रेऽपि तथैवार्थः तद्भाष्यकृता हरिशर्मणापि परिसर्वगो-भावेनोप्तशिरसं मुण्डितशिरसमिति व्याख्यातम् । न च“एते लूनशिखास्तस्य दशनैरचिरोद्गतैः । कुशाः काशाविराजन्ते वटवः सामगा इव” इति विष्णुपुराणी-ये सामगा इति विशेषणान्नान्येषां लूनशिखत्वमितिवाच्यं प्रागुक्तवचनात् सर्वेषां सशिखवपनप्राप्तेः विध्य-न्तरकल्पनापत्तेश्च । तृणसागरयोरौपम्यन्तु हरिणसु-खहेतुत्वेनाप्युक्तं तयोः सुखहेतुत्वञ्च भक्ष्यत्वेन गाय-कत्वेनेति शेषः । एवं प्राचीनावीतित्वादिना “सदोपवी-तिना भाव्यम्” इत्यस्यापि बाध इति प्रसङ्गादुक्तम् । ब्रा-ह्मणस्य विशेषेणेति ब्राह्मणस्य गवानुगमनं मुख्यम् । एते-नापालनकृतगोबधे पजापत्यं करणीयमिति अत्रेतिकर्त्त-व्यतापि प्रजापत्यतुल्येति पण्डितसर्व्वस्वे हलायुधः ।वृषभो गौश्च दक्षिणा । ब्राह्मणभोजनं विशेषयति यज्ञ-पार्श्वः “गर्माषानादिकृत्येषु ब्राह्मणान् भोजयेद्दश” ।प्राजापत्यद्वयाशक्तौ धेनुद्वयं तदशक्तौ षट् कार्षापणाः ।एवञ्च वृषमूल्यं पञ्च कार्षापणाः गोमूल्यमेकः कार्षापणः ।शूलपाणिप्रभृतिभिस्तु इतिकर्त्तव्यतायां विशेषो नादृतः ।एतच्च शूद्रस्वामिकेतरबधविषयम् शूद्रस्वामिकस्याज्ञानात्साक्षाद्बधे यत्किञ्चिद्दक्षिणककृच्छ्रद्वयस्य निबन्धृभिर्व्य-वस्थापित्वेनापालनकृतबधे तदधिकस्यायुक्तत्वात् वरं त-त्तुल्यं कृच्छ्रद्बयं युक्तमुत्पश्यामः । अतएव एतद्विषय-एव स्मृतिसागरसारे वृहदङ्गिराः “अरक्षिते तु कू-पादौ हते व्याघ्रादिभक्षिते । ब्रतार्द्धमाचरेत् स्वामीरक्षिते नास्ति दूषणम्” । व्रतार्द्धं कामकृतव्रतार्द्धंनास्ति दूषणमिति यदि प्रमत्ता गौर्निवारयन्तं पालम-तिक्रम्य गर्त्तकान्तारादौ म्रियते तदा नेत्यर्थः । अन्यत्रसत्येव पालके सम्यक्पालनाभावेन श्वभ्रादौ पाताद्गोर्म-रणे प्रायश्चित्तमाह विष्णुः “पल्वलौघवृकव्याघ्रश्वापदादि-निपातने । श्वभ्रोद्बन्धनसर्पाद्यैर्मृते पादोनमाचरेत् ।अपालने तु कृच्छ्रं स्यात् शून्यागाराद्युपप्लवे” । पादो-नं प्राजापत्यमेव उत्तरवचने कृच्छ्रश्रवणात् । तथा“पादश्चाप्राप्तके देयोवत्से स्वामिन्यरक्षिते” । अप्राप्तकेअप्राप्तदम्यावस्थे त्रिहायणपर्य्यन्ते इति यावत् । एव-म्भूते वत्से ऽरक्षिते श्वभ्रपातादिना मृते सति स्वामिनाप्राजापत्यपादः करणीयः । अत्र पादमात्रप्रायश्चित्तत्वात्बालत्वादिना नानुग्रहः । ततश्चाप्राप्तदम्यावस्थवत्सापाल-ननिमित्तकवधजन्यपापक्षयकाम इति प्रयोज्यम्”आतिदेशिकी गोहत्या बहुविधा यथा “सावित्र्युवाच ।विप्रहत्याञ्च गोहत्यां किंविधामातिदेशिकीम् । कावा नृणामगम्या वा को वा सन्ध्याविहीनकः । एतेषांलक्षणं सर्वं वद वेदविदांवर! । यम उवाच, गामाहारंप्रकुर्वन्तं पिबन्तं यो निवारयेत् । याति गोविप्रयोर्मध्येगोहत्याञ्च लभेत्तु स । दण्डैर्गान्ताडयन् मूढो यो विप्रोवृषवाहकः । दिने दिने गवां हत्यां लभते नात्र संशयः ।ददाति गोभ्य उच्छिष्टं भोजयेद्वृषवाहकम् । भोजये-द्वृषवाहान्नं स गाहत्यां लभत्ध्रुवम् । वृषलीपतिंयाजयेद्योभुङ्क्तेऽन्नं तस्य यो नरः । गोहत्याश-तकं सोऽपि लभते नात्र संशयः । पादं ददाति वह्नौ योगाञ्च पादेन ताडयेत् । गृहं विशेदधौताङ्घ्रिः स्नात्वागोबधमालभेत् । यो भुङ्क्ते स्निग्धपादेन शेते स्निग्धा-ङिघ्ररेव च । सूर्य्योदये च द्विर्भोजी स गोहत्यां लभेत्ध्रुवम् । अवीरान्नञ्च योभुङ्क्ते योनिजीवी च ब्राह्मणः ।यस्त्रिसन्ध्याविहीनश्च स गोहत्यां लभेद्ध्रुवम् । पितॄंश्चपर्वकाले च तिथिकाले च देवताः । न सेवतेऽतिथिंयोहि स गोहत्यां लभेत्ध्रुवम् । स्वभर्त्तरि च कृष्णेवा भेदबुद्धिं करोति या । कटूक्त्या ताडयेत् कान्तंसा गोहत्यां लभेद्ध्रुवम् । गोमार्गखननं कृत्वाददाति शस्यमेव च । तडागे च तदूर्द्ध्वे वा स गोहत्यांलभेद् ध्रुवम् । प्रायश्चित्तं गोबधस्य यः करोति व्यति-क्रमः । अर्थलोभादथाज्ञानं स गोहत्यां लभेत्ध्रुवम् ।राजके दैवके यत्नात् गोस्वामी गां न पालयेत् । दुःखंददाति यो मूढो गोहत्यां लभते ध्रुवम् । प्राणिनंलङ्घयेत् यो दि देवार्च्चामनलं जलम् । नैषेद्यं पुष्प-मन्नञ्च स गोहत्यां लभेद्ध्रुवम् । शश्वन्नास्तीति यो वादीमिथ्यावादी प्रतारकः । देवद्वेषी गुरुद्वेषी स गोहत्यांलभेत्ध्रुवम् । देवताप्रतिमां दृष्ट्वा गुरुं वा ब्राह्मणंसति! । न सम्भ्रमान्नमेत् यो हि स गोहत्यांलभेत्ध्रुवम् । न ददात्याशिषं कोपात् प्रणताय च योद्विजः । विद्यार्थिने च विद्याञ्च स गोहत्यां लभेत्ध्रुवम्”ब्रह्म वैव० प्रकृतिख०, ३७ अ० । “मुष्कमोषकरो-विप्रो गोवधस्व व्रतं चरेत्” प्रा० त० उक्तेः मुष्कमोषो-ऽपि आदेशिकः गोबधः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
