| YouTube Channel

गोसहस्र (gosahasra)

 
Monier Williams Cologne
English
गो—सहस्र
n.
a thousand kine,
W.
गो—सहस्र
mfn.
possessing a thousand kine,
MBh.
xiii, 102, 43
Shabdartha Kaustubha
Kannada
गोसहस्र
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಒಂದು ಸಾವಿರ ಗೋವುಗಳು
व्युत्पत्तिः - > गवां सहस्रम्
गोसहस्र
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಸಾವಿರ ಗೋವುಗಳನ್ನು ಕೊಡುವ ಒಂದು ಮಹಾದಾನ
Indian Epigraphical Glossary
English
go-sahasra (EI 16, 24), name of a gift (mahādāna).
वाचस्पत्यम्
Sanskrit
गोसहस्र
न०
गवां सहस्रं दातव्यतया यत्र तुलापुरु-षादिषोडशमहादानान्तगते पञ्चमे महादानभेदे “अथातःसंप्रवक्ष्यामि महादानानुकीर्त्तनम्” “यत्तत् षोडशधाप्रोक्त’ वासुदेवेन भूतले” इति चोपक्रम्य “कल्पपादपदानञ्च गोसहस्रं पञ्चमम्” इत्युक्त्वा तद्दान प्रकारःहेमा० दा० मत्स्य
पु०
उक्तो यथा“मत्स्य उवाच अथातः संप्रवक्ष्यामि महादानमनुत्तमम् ।गोसहस्रप्रदानाख्यं सर्वपापहरं परम् पुण्यं तिथि-मथासाद्य युगमन्वन्तरादिकम् पयोव्रतस्त्रिरात्रं स्यादे-करात्रमथापि वा लोकेशावाहनं कुर्य्यात् तुलापुरुष-दानवत् पुण्याहवाचनं कुर्य्याद्धोमः कार्य्यस्तथैव ।ऋत्विग्मण्डपसम्भारभूषणाच्छादनादिकम् वृपं लक्षणसंयुक्तं वेदिमध्ये ऽधिवासयेत् गोसहस्राद्विनिष्कृष्यगवां दशकमेव” पयोव्रतस्त्रिरात्रमिति दोनदिनात्पूर्वं त्रिरात्रं पयोव्रतः स्यादित्यर्थः, अत्रादिशब्देन देश-काल--वृद्धिश्राद्ध--शिवादिपूजा--गुर्वृत्विग्वरण--मधुपर्क-दान--कुण्डवेदिवितान--चक्रलेखनपताकादीनि मत्स्य-पुराणोक्ततुलापुरुषदाने विहितानि गृह्यन्ते वृषं लक्षणसंयुक्तं, वृषलक्षणानि, “उन्नतस्कन्धककुदम् उज्ज्वलायतकम्बलम्” इत्यादीनि वृषोत्सर्गप्रकरणे मत्स्यपुराणोक्तान्येववेदितव्यानि, गोसहस्राद्विनिष्कृष्येति दशोत्तरगोसहस्रादिति वेदितव्यम्, अग्रे दशाधिकगोसहम्रविनियोगदर्श-नात् यद्यपि गवां दशकमित्यत्र गोमात्रप्रतीतिः तथापिउत्तस्त्र “ऋत्विग्भ्यो धेनुमेकैकां दशकाद्विनिवेदयेदिति”धेनुसंशब्दनात्, पुराणान्तरे “गोसहस्राद्विनिष्कृष्य सवत्संदशकं गबामिति” श्रवणाच्चधेनुदशकमेवाधिवासनीयम् ।इतरत्र पुनर्नावश्यं धेनुरूपत्वादरः “गोसहस्रं बहिःकुर्य्याद्वस्त्रमाल्यविभूषितम सुवणशृङ्गाभरण रौप्यपाद-समन्वितम् अतः प्रवेश्य दशक वस्त्रमाल्यैस्तु पूजयेत् ।सुवर्ण--वण्टिकायुक्तं ताम्रदोहनिकान्वितम् सुवर्णति-लकोपेतं हमपट्टैरलङ्कृतम् कौशेयवस्त्रसंवीतं मात्यगन्ध-समन्वितम् हेमरत्नयुतैः शृङ्गैश्चामरैश्चापि शोभितम् ।पादुकोपानहच्छत्रभाजनासनसयुतम् “दशसौवर्णिकेशृङ्गे, खुराः, पञ्चपलास्तथा” पञ्चाशत्पलमितोदोहनकःअन्यत्र तथाभिधानात् षण्टिकादौ सुवर्णशब्दोऽत्र षोडश-माषपरिमितहिरण्यवचनः, सकृदुच्चरितसुवर्णशब्दावगत-परिमाणपरित्यागानुपपत्तेः पादुके काष्ठमय्यौ, चर्म्मकृतेउपानहाविति भेदः “गवां दशकमध्ये स्यात् काञ्च-नो नन्दिकेश्वरः कौशेयबस्त्रसंवीतो नानाभरणभूषितः ।लवणद्रोणशिखरं-माल्येक्षुफलसंयुतः कुर्य्यात् पलशता-दूर्द्धं सर्वमेतदशेषतः शक्तितः फलसाहस्रत्रितयं याव-देव तु गोशते वै दशांशेन सर्वमेतत् प्रकल्ययेत्” लव-णद्रोणशिखरे, लवणद्रोणोपरीत्यर्थः नन्दिकेश्वरलक्षणंललितविजयात् “ऊर्द्धस्त्रिनेत्रो द्विभुजः सौम्यास्योन-न्दिकेश्वरः वामे तु शूलभृद्दक्षे चाक्षमालासमन्वितः” इतिऊर्द्ध इति, अशयानानुपविष्ट इत्यर्थः पलशतादूर्द्धं पल-सहस्रत्रितयं यावदिति, साभरणनन्दिकेश्वरविषयमेतत्आनन्तर्य्यात् गोशते वै दशांशेनेति गोशते देये गामेका-मेकञ्च वृषभं वेदिमध्येऽधिवासयेत् पलशतादूर्द्धं पलश-तत्रयं यावदिति साभरणनन्दिकेश्वररचनादिकं कुर्य्यादि-त्यर्थः “पुण्यं कालमथासाद्य गीतिमङ्गलनिःस्वनैः सर्वो-षध्युदकस्नानस्नापितो वेदिपुङ्गवैः इममुच्चारयेन्मन्त्रंगृहीतकुसुमाञ्जलिः” अत्रापि पूर्ववत् पूर्वेद्युरधि-वासनं विधाय द्वितीयदिवसे व्राह्मणवाचनानन्तरमग्नि-कुण्डेषु ऋत्विगुपवेशनादिपूर्णाहुतिपर्य्यन्तं कर्मशेषंगुरुः समापयेत् ततः पुण्यकालम् आत्मानुकूललग्नमुहू-र्त्तादिलक्षणमासाद्य कुण्डसमीपस्थितकलसोदकेन ब्रा-ह्मणैः स्नापितः शुक्लमाल्याम्बरधरो यजमानो वक्ष्यमाण-मन्त्रानुदीरयेत् “नमो वो विश्वमूर्त्तिभ्यो विश्वमातृभ्यएव लोकाधिवासिनीभ्यश्च रोहिणीभ्यो नमोनमः गवामङ्गेषु तिष्ठन्ति भुवनान्येकविंशतिः ।ब्रह्मादयस्तथा देवा रोहिण्यः पान्तु मातरः गावोमे अग्रतः सन्तु गावो मे सन्तु पृष्ठतः गावः शिरसिमे नित्यं गवां मध्ये वसाम्यहम् यस्मात् त्वं वृप-रूपेण धर्म एव सनातनः अष्टमूर्त्तेरधिष्ठानमतःपाहि सनातनः इत्यामन्त्र्य तु यो दद्याद्गुरवेनन्द्रिकेश्वरम् सर्वोपकरणोपेतं गोयुगञ्च विचक्षणः ।ऋत्विग्भ्यो धेनुमेकैकां दशकाद्विनिवेदयेत् गवां शत-मथैकैकं तदर्द्धं चाथ विंशतिम्” दश पञ्चाथवा दद्यादन्ये-भ्यस्तदनुज्ञया” दानवाक्यमत्र तुलापुरुषवद्वेदितव्यम्, एतेच शतप्रभृति पञ्चपर्य्यन्ता विकल्पा ऋत्विग्विषया नदा-नन्तर्य्यात् ततश्चायमर्थः सिद्धो भवति गोदशकमध्यान्न-न्दिकेश्वरयुतं गोयगं गुरवे प्रतिपाद्य शेषाणामष्टानाङ्ग-वामेकैकामेकैकस्मै ऋत्विज दद्यात्, तथा गोसहस्रम-ध्यात् शतद्वयं गुरवे प्रदाय एकैकं शतमृत्विग्भ्यो दद्यात्, अथ वा शतं गुरवे पञ्चाशतं पञ्चशतमृत्विग्भ्यः, अथवा चत्वारिंशतं गुरवे विंशतिं विंशतिमृत्विग्भ्यः ।विंशतिं, वा गुरवे दश दशर्त्विग्भ्यः, दश वा गुरवेपञ्च पञ्चर्त्विग्भ्यो दद्यात् शेषा गास्तदनुज्ञया अन्ये-भ्योऽपि दद्यात् दक्षिणाञ्चात्र पूर्ववदेव दद्यात् अनुक्त-दक्षिणासु सुबर्ण्णः दक्षिणेति वचनात् यथाशक्ति सुवर्णंवा ततः पूर्ववदेव पुण्याहवाचन--देवतापूजन--विसर्जनादिकुर्य्यात् “नैका बहुभ्यो दातव्या यतो दोषकरी भवेत् ।बह्व्यश्चैकस्य दातव्या श्रीमतारोग्यवृद्धय पयाव्रतःपुनस्तिष्ठेदेकाहं गोसहस्रदः” इदञ्च पयोव्रतानुष्ठानं, शक्त्यपेक्षम् “अशक्तौ नक्तमिष्यते” इति वचनात् ।“श्रावयेत् शृणुयाद्वापि महादानानुकीर्त्तनम् तद्दिनंब्रह्मचारीस्याद्यदीच्छेद्विपुलां श्रियम्” आथर्वणगोपथ-ब्राह्मणे “अथातो गोसहस्रविधिर्गोष्ठ उदकान्ते शुचौदेशे प्राञ्चमिध्ममुपसमाधाय अन्वालभ्याथ जुहुयात्, गावसूक्तेनाद्यं जुहुयात्, महाव्रीहीणामैन्द्रञ्चरुसौम्यञ्च सहस्रं तस्याः पयसि श्रपयित्वा गाव इति, एवमुभय इत्येतेन जुहुयात् पश्चादग्नेस्तीर्थोदकपूर्ण-कलसमवस्थाप्याहिसंवोगोष्ठेनेति दश गाः स्नापयेत् त्वर-माणोऽन्याः समभ्युक्ष्य सहस्रं, तस्याः स्नानोदकेनेम-मिन्द्रं वर्द्धय क्षत्रियं इति, राजानममिमिच्येमाआप इति, षड्भिर्यथोक्तमञ्जनाभ्यञ्जनानुलेपनं कृत्वासहस्रतमीं प्रथमामलंकृत्य गावो मामुपतिष्ठत प्रजावतीसूयवासादिति पर्य्यासयेत् प्रियमशनन्दत्त्वा द्विवृण-मघ्न्य इति सहस्रतमीमालभ्य जपेत् मया गावः पतिनासबद्धमिति मन्त्रेणानेनार्धं दत्त्वा सहस्रतमीं पुनरुपसंगृह्य भूमिष्ट्वा प्रतिगृह्णात्विति जपेत् सहस्रं, तस्याःपृष्ठतो व्रजन् सर्वाः प्रदक्षिणीकृत्य नमस्कृत्य स्वस्तिवाच्य व्राह्मणेभ्यो निवेद्य दश गा दक्षिणाः कर्त्रे सहस्रतमीं वस्त्रयुग्मञ्च तदपि सप्तजन्मानुगं पापं पुरुषैसप्तभिः कृतम् तत्क्षणात् विधिनानेन नाशयेद्गोप्रदोनरः सर्वेषामिह दानानां फलं यत् परिकीर्त्तितम् ।तदवाप्नोति विप्रेभ्यो गोसहस्रप्रदोनरः अश्वमेधंवृषोत्सर्गं गोसहस्रत्रयन्तु यः दद्यान्मोक्षाय इत्याहुःपितरस्तर्पयन्ति हि तस्मादनेन विधिना गोसहस्रन्तुयोनरः प्रदद्यात् विशुद्धात्मा याति तत् परमंपदमिति” मत्स्यपुराणे “अनेन विधिना यस्तुगोसहस्प्रदोभवेत् सर्वषापविनिर्मुक्तः सिद्धचारण-सेवितः विमानेनार्कवर्णेन किङ्किणीजालमालिना ।सर्वेषां लोकपालानां लोके संपूज्यते सुरैः प्रतिमत्व-न्तरं तिष्ठेद्राजराजो भवेत् पुनः अश्वमेधशतं कुर्व्या-च्छिवध्यानपरायणः वैष्णवं लोकमास्थाय ततोमुच्येत बन्धनात् पितरश्चाभिनन्दन्ति गोसहस्रपदंशुभम् अपि स्यात्स कुलेऽस्माकं पुत्रोदौहित्र एव ।गोसहस्रप्रदो भूत्वा नरकादुद्धरिष्यति यस्तत्कर्मकरोवा स्यादपि द्रष्टा तथैव संसारसागरादस्मा-दस्मान् सन्तारयिष्यति इति पठति एतद्गो--सहस्र-प्रदानं सुरभुवनमुपेयात्संस्मरेद्वापि पश्येत् अनुभवतिसुखं वा बाच्यमानो निकामम् प्रहतकलुषदेहः सोऽपियातीन्द्रलोकम्” ।अन्यपुराणोक्तस्तद्विधिस्तत्रैव दृश्यः त० गवांसहस्रे गोसहस्रं तद्दानफलं विद्यतेऽत्र अच् ।गौरा० ङीष् सोमवारयुतायाम् मङ्गलवारयुतायां वा ।अमाख्यायाम् स्त्री जाह्नवीस्नाने तस्यास्तथापुण्य-जनकत्वमुक्तं ति० त० व्यासेन “अमावास्यां भवेद्वारीयदि भूमिसुतस्य गोसहस्रफलं दद्यात् स्नानमात्रेणजाह्नवी सिनीवानी कुहूर्वापि यदि सोमदिने भवेत् ।गोसहस्रफलं दद्यात् स्नानं यन्मौनिना कृतम”