गोष्ठीपति (goSThIpati)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishSpoken Sanskrit
Englishगोष्ठीपति - goSThIpati - - chief person or president of an assembly
गोष्ठीपति goSThIpati chief person or president of an assembly
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte Hindi
Hindiगोष्ठीपतिः
- -
"सभा का प्रधान, , सभापति"
Shabdartha Kaustubha
Kannadaगोष्ठीपति
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸಭೆಯ ಅಧ್ಯಕ್ಷ
गोष्ठीपति
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಒಂದು ಕುಟುಂಬದ ಯಜಮಾನ
व्युत्पत्तिः - > गोष्ठ्याः पतिः
शब्दकल्पद्रुमः
Sanskritगोष्ठीपतिः, (पातीति पतिः । गोष्ठ्याः पोष्य-वर्गस्य सभाया वा पतिः ।) पोष्यवर्गपालकः ।सभापतिः ।अथ ब्राह्मणगोष्ठीपतिलक्षणं यथा--“नानाशास्त्रविशारदै रसिकता सत्काव्यसम्मोदितानिर्द्दोषैः कुलभूषणैः परिमिता पूर्णा कुलज्ञैरपि ।श्रीमद्भागवतादिकारणकथाशुश्रूषयानन्दितागत्वाभीष्टमुपैति यद्गुणिजनो गोष्ठी हि साचोच्यते ॥
”एवम्भूता गोष्ठी तस्याः पतिः । अपि च ।“कुलीनाः श्रोत्रियाः सर्व्वे यस्यान्नं भुञ्जते मुहुः ।कुलीनाय सुतां दत्त्वा स गोष्ठीपतिरुच्यते ॥
”तद्यथा । गाङ्गवंशे लक्ष्मीकान्तमजमुया-दारः १ मुखवंशे मदनभट्टाचार्य्यः २ तद्वंशेगन्धर्व्वरायः ३ बन्द्यवंशे शुभराजखानवंशः ४चट्टवंशे अनन्तभट्टाचार्य्यः ५ एते प्राचीनाःआधुनिका बहवः सन्ति ॥
* ॥
कायस्थगोष्ठीपतिलक्षणं यथा, --“नीतिज्ञः कुलकर्म्मठः स्थितिमतां मान्योऽपिधर्म्मान्वितःकार्य्याकार्य्यविलोकनैः कुलभृतां सम्मानदानो-द्यतः ।पोष्टा यः कुलसंविदां कुलसुधीः सन्मौलिकानांतथासद्वंशप्रभवः क्षितौ सुविदितो दाता स गोष्ठी-पतिः ॥
”अथ कायस्थगोष्ठीपतिगणना ।“आदौ द्वादशपर्य्यये समभवद्दानेन गोष्ठीपतिःसत्कीर्त्तिश्च सुबुद्धिखानतनयः श्रीमन्तरायःकृती । १ ।संजातस्तदनन्तरं गुणधरा गण्ये च पर्य्यायकेस्वेच्छातो हि पुरन्दरः कुलभवः खानः सदादानतः ॥
२ ॥
पर्य्याये च चतुर्द्दशे समभवत् पौरन्दरः केशवःस्वानः सन्ततदानतो हि विलसत्कीर्त्तिर्धरा-मण्डले ॥
३ ॥
नानावित्तविसर्जनेन जनितप्रोत्फुल्लकीर्त्तिः क्षिता-वासीत् पञ्चदशे तदात्मजकृती श्रीकृष्णविश्वास-खास् ॥
४ ॥
ततः षोडशे पर्य्यये दानजालःकुलीनालिमालो दयारामपालः ॥
५ ॥
ततस्तत्सुतः पर्य्यये सूर्य्यवाजि-क्षपानाथगण्येऽभवत् पुण्यराजिः ॥
६ ॥
ततः पर्य्ययेऽष्टादशे तत्तनूजःसमाहूय भूयोर्च्चितार्य्यव्रजो यः ।सदा सत्कथालापसंलापतोषःकुलीनौघपूजापरोऽयं सुभाषः ॥
७ ॥
आसीत् किङ्करसेननामसुकृती यो मौलिकैका-ग्रणीःपर्य्याये परिपूजितार्य्यनिचये चैकोनविंशे हि सः ।सद्गोष्ठीपतिपालवंशतनयापाणिग्रहेणात्मनोदानेनापि च मेलिकाटिरपरो गोष्ठीपतिःप्राथमः ॥
८ ॥
दानेनातिवदान्यतादिगुणतो निःसीमपुण्यैश्च योगोपीसिंहचतुर्धुरीणसुकृती विंशे हि पर्य्या-यके ।यत्नात् किङ्करसेनवंशतनयापाणिग्रहाद्रागतःसोऽप्यासीद् भुवि मेलिकाटिरपरो गोष्ठीपतिःसस्तुतिः ॥
९ ॥
पर्य्याये पुनरेकविंशक इह ख्यातः क्षमामण्डलेगोपीसिंहचतुर्धुरीणकुलजो यो रामकान्तःकृती ।धन्यो गण्यसुपुण्यजन्ययशसा गोष्ठीपतेरग्रणी-र्दानैः कर्ण इवातिधैर्य्यपयसां रत्नाकरश्चा-परः ॥
१० ॥
द्वाविंशे किल पर्य्ययेऽतिनियतेस्तस्यात्मजा-संग्रहात्स्वस्यैवास्यसुपुण्यदत्तकतनूद्भूतस्य च श्रीमतः ।गोपीमोहनसंज्ञकस्य तनयद्वारा च गोष्ठीपतिःसम्भूतो नवकृष्णभूपतिवरः सन्मेलिकाटिःक्षितौ ॥
११ ॥
तावन्मुख्यकनिष्ठमध्यमकुलोद्भूतां स्तृतीयोद्भवान्षड्भ्रातॄनपि तावतोऽत्र गणना बद्धक्रमाना-दरात् ।सद्गोष्ठीपतिकारकानतिनताधीनान् कुली-नान् समा-हूयात्र प्रकृतांस्तथात्र सहजान् पूज्यांस्तथाकोमलान् ॥
वित्तैर्वागमृतैर्नुतिप्रणतिभिश्चान्यैस्त्रयोविंशकेपर्य्यायेऽतितरां प्रपूज्य परमाह्लादान्वितः श्रीयुतः ।गोपीमोहनदेववंशतिलको गोष्ठीपतिः क्ष्मापति-र्जातः संप्रति भूमिदेवघटकानाञ्चाञ्चना-दच्युतिः ॥
” १२ ॥
इति दक्षिणराढीयकायस्थकुलाचार्य्यकारिका ॥
अथ वैद्यानां गोष्ठीपतिर्यथा, --“विप्रेभ्य प्रियभोज्यवस्तुवसनं छत्रासनं भूषणंग्रामा भूमितुरङ्गमा गजगणाः स्वर्णानि रत्नानिच ।गावो नाव उदारमन्दिररुचो वाट्यश्च दत्ताःसदासाधुज्ञातिकुटुम्बसद्गुणगणाः संप्रीणिता येन च ॥
गौडक्ष्मापतिना य एव भिषजां श्रेष्ठ्येऽभिषिक्तःकृतीनानाशास्त्रविशारदः शुभमतिर्वाग्मी चिकित्सापटुः ।तस्मात् प्राप गजं तुरङ्गकनकच्छत्रञ्च रत्नं धनंसोऽभूत् सेनविनायको वहुगुणैरम्बष्ठगोष्ठीपतिः ॥
वैनायकेषु सर्व्वेषु भास्करः श्रेष्ठ ईरितः ।गोष्ठीपतितया ख्यातः स वैद्यैः पूजितोऽग्रतः ॥
”इति भरतमल्लिककृतकुलपञ्जिका ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
