| YouTube Channel

गोष्टोम (goSToma)

 
Monier Williams Cologne
English
गो॑—ष्टोम (गो॑-),
m.
(स्तो॑म,
Pāṇ.
viii, 3, 105,
Kāś.
) an Ekāha ceremony forming part of the Abhiplava which lasts 6 days (also called गो॑, q.v.),
TS.
vii
Lāṭy.
x (cf.
AitBr.
iv, 15 and -स्तोम.)
वाचस्पत्यम्
Sanskrit
गोष्टोम
पु०
गोसंज्ञः स्तोमोऽत्र उक्थसंस्थे बहुमन्त्रा-त्मके स्तोमभेदे तदुपलक्षिते एकाहसाध्ये यागभेदे च“स एतान् स्तोमानपश्यत् ज्योतिर्गौरायुरितीमे वै लोकाएतें स्तोमा अयमेव ज्योतिरयम्भध्यमो गौरसा-वुत्तम आयुः” ता० व्रा० ।“स पूर्व्वोक्तः प्रजापतिः एतान् स्तोमान् स्तोम-शब्देन त्रिवृदादिस्तोमवन्त्यहानि लक्ष्यन्ते तानिज्योनिर्गौरायुरिति एतन्नामकान्यपश्यत् तत्र ज्योति-रग्निष्टोमसंस्थः, गौरायुश्चैते उक्थसंस्थे० ज्योतिष इयंस्तोमकॢप्तिः त्रिवृद्बहिष्पवमानं पञ्चदशान्याजानिपञ्चदशो माध्यन्दिनः पवमानः सप्तदशानि पृष्ठ्यानि सप्त-दश आर्भव एकविंशोग्निष्टोमसामेति अथ गोष्टोमस्य, पञ्चदशोबहिष्पवमानः त्रिवृदाज्यानि सप्तदशम्माध्यन्दिनंसवनमेकविंशं तृतीयसवनम् अथायुष्टोमस्य त्रिवृ-द्बहिष्पवमानं पञ्चदशान्याज्यानि सप्तदशम्माध्यन्दिनंसवनमेकविंशं तृतीयसवनमिति एते उक्ताः स्तोमाइमे लोका वै भूरादिकाः खलु, कः कतमोलोक इतिबुभुत्सायामाह अयमेव लोकोज्योतिः, अयम्मध्यमो-ऽन्तरिक्षलोको वै असावुत्तमस्तृतीयः स्वर्लोक आयुः, स्तोमत्रयस्य लोकत्रयेण सह संख्यासाम्यात् तच्छब्दताएतैः त्रिभिः स्तोमैः साधनैस्त्रीन् लोकान् प्राजनयदितिशेषःअथैतान् विधत्ते” भा० ।“यदेते स्तोमा भवन्तीमानेव लोकान् प्रजनय-न्त्येषु लोकेषु प्रतितिष्ठन्ति” ता० व्रा० “यदेषोऽति-रात्रो भवतीति वाक्यवदेतत्सर्वं व्याख्येयम् अभि-प्लवषडहस्योत्तरं त्र्यहं विधातुमाह” भा० “स एतन्त्र्यहं पुनः प्रायुङ्क्त तेन षडहेन षट्क्रतून् प्राज-नयत्” ता० व्रा०९ “स प्रजापतिरेतं पूर्व्वोक्तं त्र्यहं पुनःप्रयुक्तवान् गौरायुर्ज्योतिरिति क्रमोऽत्रावगन्तव्यः तथाचापस्तम्बः “ज्योतिष्टोममग्निष्टोमं रथन्तरसामानङ्गा-मुक्थं वृहत्सामानमायुषमुक्थं रथन्तरसामानं ज्योति-ष्टोमं वृहत्सामानमिति नन षडहेन षट् क्रतून् वसन्ता-दीन् प्राजनयत् सृष्टवान् अथार्थवादानुगुण्याय पूर्व्व-विहितेन त्र्यहेन संयुज्य इममुत्तरं त्र्यहं विधत्ते”भा० “तदेष षडहो भवति ऋतूनेव प्रजनयन्ति ऋतुषुप्रतितिष्ठन्ति” ता० व्रा० १०